ब्रह्मण्याधाय कर्माणि...
श्लोकःसंपादित करें
- ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
- लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य दशमः (१०) श्लोकः ।
पदच्छेदःसंपादित करें
ब्रह्मणि आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः लिप्यते न स पापेन पद्मपत्रम् इव अम्भसा ॥ १० ॥
अन्वयःसंपादित करें
यः ब्रह्मणि आधाय सङ्गं त्यक्त्वा कर्माणि करोति सः अम्भसा पद्मपत्रम् इव पापेन न लिप्यते ।
शब्दार्थःसंपादित करें
- यः = यः पुरुषः
- ब्रह्मणि = परमात्मनि
- आधाय = निक्षिप्य
- सङ्गम् = फलासक्तिम्
- त्यक्त्वा = विसृज्य
- कर्माणि = नियतकर्माणि
- करोति = आचरति
- सः = सः पुरुषः
- अम्भसा = जलेन
- पद्मपत्रम् इव = कमलपर्णम् इव
- पापेन = पापेन
- न लिप्यते = न स्पृश्यते ।
अर्थःसंपादित करें
यः पुरुषः सर्वाणि अपि कर्माणि ब्रह्मणे अर्पयित्वा सङ्गं त्यक्त्वा स्वाम्यर्थं भृत्यः इव कर्माणि आचरति सः पद्मपत्रं सरोवरे वर्तमानमपि जलेन यथा न लिप्यते तथा पापेन न लिप्यते ।
शाङ्करभाष्यम्संपादित करें
यस्तु पुनस्तत्त्ववित्प्रवृत्तश्च क?र्योगे ब्रह्मणीश्वर आधाय निक्षिप्य तदर्भं करोमीति भृत्य इव स्वाम्यर्थं सर्वाणि कर्माणि मोक्षेऽपि फलं संङ्ग त्यक्त्वाकरोति यः सर्वकर्मामि, लिप्यते न स पापेन न संबध्यते पद्मपत्रमिवाम्भसोदकेन ।।10।।
|
सम्बद्धाः लेखाःसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये ब्रह्मण्याधाय कर्माणि... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्संपादित करें
अधिकवाचनायसंपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च