स्पर्शान्कृत्वा बहिर्बाह्यान्...
श्लोकःसंपादित करें
- स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
- प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य सप्तविंशतितमः (२७) श्लोकः ।
पदच्छेदःसंपादित करें
स्पर्शान् कृत्वा बहिः बाह्यान् चक्षुः चैव अन्तरे भ्रुवोः प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥
अन्वयःसंपादित करें
श्लोकसङ्ख्या २८ द्रष्टव्या ।
शब्दार्थःसंपादित करें
श्लोकसङ्ख्या २८ द्रष्टव्या ।
अर्थःसंपादित करें
श्लोकसङ्ख्या २८ द्रष्टव्या ।
शाङ्करदर्शनम्संपादित करें
सम्यग्दर्शननिष्ठानां संन्यासिनां सद्योमुक्तिरुक्ता कर्मयोगश्चेश्वरार्पितसर्वभावेनेस्वरे ब्रह्मण्याधाय क्रियमाणः सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासक्रमेणमोक्षायेति भगवान्पदे पदेऽब्रवीद्वक्ष्यति च। अथेदानीं ध्यानयोगं सम्यगदर्शनस्यान्तरङ्गं विस्तरेण वक्ष्यामीति तस्य सूत्रस्थानीयाञ्श्लोकानुपदिशति स्मस्पर्शाञ्शब्दादीन्कृत्वाबहिर्बाह्यान् श्रोत्रादिद्वारेणान्तर्बुद्धौ प्रवेशिताः शब्दादयो विषयास्तानचिन्तयतो बाह्या बहिरेव कृता भवन्ति। तानेवं बहिः कृत्वा चक्षुश्चैवान्तरे भ्रुवोः,कृत्वेत्यनुषज्यते। तथा प्राणापानौ नासाभ्यन्तरचारिणौ समौ कृत्वा ।।27।।
विशेषःसंपादित करें
विषयस्य ऐक्यत्वात् अग्रिमश्लोके मिलित्वा दत्तं वर्तते ।
|
सम्बद्धाः लेखाःसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये स्पर्शान्कृत्वा बहिर्बाह्यान्... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्संपादित करें
अधिकवाचनायसंपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च