अस्य उच्चारणस्थानंमूर्धनासिकम् अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य पञ्चमः वर्णः ।"कादयो मावसानाः स्पर्शाः" । ’’ऋटुरषाणां मूर्धा -” ञमङणनानां नासिका च” ’ -सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ण् कारः
उच्चारणम्

नानातर्थाः सम्पादयतु

“णः पुमान् बिन्दुदेवेस्यात् भूषणगुणवर्जिते। पानीयनिलयेऽपीति केचिदूचुर्विपश्चितः।“- मेदिनीकोशः

  1. बिन्दुः
  2. देवः
  3. आभरणम्
  4. गुणहीनः
  5. पानीयशाला

“णशब्दस्तु पुमान् जारे भैरवे कण्टके ध्वनौ। णा स्त्रियाम् रजनी शय्याधेनुनासाकृपासु च। णं सरोजदले ज्ञाने त्रिषु निस्तुषवस्तुनि”- नानार्थरत्नालिः

  1. निर्णयः
  2. व्यभिचारी
  3. ध्वनिः
  4. कण्टकम्
  5. कमलदलम्
  6. ज्ञानम्
  7. भयङ्करः
  8. रात्रिः
  9. शय्या
  10. धेनुः
  11. नासिका
  12. कृपा
"https://sa.wikipedia.org/w/index.php?title=ण्&oldid=367751" इत्यस्माद् प्रतिप्राप्तम्