एषः दीर्घः स्वरः। स्वरवर्णेषु दशमः वर्णः अस्ति ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य ।अस्य उच्चारणस्थानं कण्ठतालु अस्ति ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ए कारः
उच्चारणम्

नानार्थाः सम्पादयतु

“एकारस्तेजसि जले रात्रौ हर्म्योदरे हरौ। व्योम्न्येकादशसंख्यायां दिनादौ मणिकुट्टिमे॥“ – नानार्थरत्नमाला

  1. तेजः
  2. जलम्
  3. रात्रिः
  4. हर्म्योदरम्
  5. विष्णुः
  6. आकाशः
  7. एकादश(एकादश संख्यायां)
  8. प्राथःकालः
  9. मणिकुट्टिमः( रत्नवेदिका )

“ए स्मृतावप्यसूयानुकम्पामन्त्रणहूतिषु” - मेदिनीकोशः

  1. स्मृतिः
  2. असूया
  3. दया
  4. संबोधनम्
  5. आह्वानम्
"https://sa.wikipedia.org/w/index.php?title=ए&oldid=367476" इत्यस्माद् प्रतिप्राप्तम्