अस्य उच्चारणस्थानं दन्ताः सन्ति । एषः व्यञ्जनवर्णः। तवर्गस्य प्रथमः वर्णः | अल्पप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । लृतुलसानां दन्ताः -सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
त् कारः
उच्चारणम्

नानार्थाः सम्पादयतु

“तश्चोरामृतपुच्छेषु क्रोडे म्लेच्छे च कुत्रचित्। अपुमांस्तरणे पुण्ये कथितः शब्दवेदिभिः॥“- मेदिनीकोशः

  1. अमृतम्
  2. पुच्छः
  3. म्लेच्छः
  4. क्रोडः
  5. पुण्यम्

“तशब्दः पुंसि संभोगे निश्चये कोपपुच्छयोः। धातुवादविधौ चोरे करुणायां तु ता स्त्रियाम्॥“- नानार्थरत्नावलिः

  1. संभोगः
  2. निश्चयः
  3. कोपः
  4. धातुवादः
  5. चोरः
  6. करुणा
"https://sa.wikipedia.org/w/index.php?title=त्&oldid=367763" इत्यस्माद् प्रतिप्राप्तम्