वर्णमालायां षष्ठः वर्णः अस्ति । एषः दीर्घः स्वरः अस्ति । अस्य उच्चारणस्थानम् ओष्ठौ स्तः । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ऊ कारः
उच्चारणम्
formes représentations chaînes
de caractères
points de code descriptions
indépendante फलकम्:UniCar U+090A lettre devanagari ū
dépendante फलकम्:UniCarComb U+0942 diacritique voyelle devanagari ū

नानार्थाः सम्पादयतु

“ऊकारः पुरुषे चन्द्रे राजपुत्रे गले सुरे। प्राङ्गणोपमयोः पूर्णकुम्भे वणिजि रक्षणे”- नानार्थरत्नमाला

  1. पुरुषः
  2. चन्द्रः
  3. राजपुत्रः
  4. कण्ठः
  5. सुरः
  6. प्राङ्गणम्
  7. सादृश्यम्
  8. पूर्णकुम्भः
  9. वर्तकः
  10. वणिक्

“रक्षणे चापि ऊकारः ऊकारो ब्रह्मणि स्मृतः” – एकाक्षरकोशः

  1. रक्षणा
  2. ब्रह्मा

“ऊ रक्षणे रक्षके च सूच्यां स्यूतावनव्ययम्” - हेमकोशः

  1. सूची

“ऊ वाक्यारम्भेऽनुकम्पारक्षाहूतिष्वनव्ययम्” - विश्वप्रकाशः

  1. वाक्यारम्भः (वाक्यारम्भे “ऊ” उपयुज्यन्ते)
  2. अनुकम्पा
  3. रक्षकः
  4. आह्वानम्
"https://sa.wikipedia.org/w/index.php?title=ऊ&oldid=454951" इत्यस्माद् प्रतिप्राप्तम्