अस्य उच्चारणस्थानं ओष्ठौ स्तः। एषः व्यञ्जनवर्णः। एषः अल्पप्राणवर्णः । पवर्गस्य प्रथमः वर्णः । ।"कादयो मावसानाः स्पर्शाः" । उपूपध्मानीयानां औष्ठो -”सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
प् कारः
उच्चारणम्

नानार्थाः सम्पादयतु

  1. वस्त्रम्
  2. रक्षकः
  3. पवित्रम्

“पः कुबेरः समाख्यातः पश्चिमे च प्रकीर्तितः। पवने पः समाख्यातः पः स्यात् पाने च पातरि” – एकाक्षरकोशः

  1. कुबेरः
  2. पश्चिम (वि) (दिशा)
  3. पवनः
  4. पानम्

“ पो ना वाताण्डपूतेषु पाने पातरि कीर्तितः”- मेदिनीकोशः

  1. वाताण्डः
  2. पर्णम्

“पः पुमान् पवने शैले प्राकारे कौस्तुभे रणे। शुभलग्नेऽथ पं क्लीबे हेम्नि” - नानार्थरत्नावलिः

  1. शैलः
  2. प्राकारः
  3. मणिः
  4. रणम्
  5. शुभलग्नः
  6. सुवर्णम्

“स्त्रीलिङ्गे त्वम्बुधारायां सुधायां संमतौ च पा” – नानार्थरत्नावलिः

  1. अम्बुधारा
  2. सुधा
  3. सम्मतिः
"https://sa.wikipedia.org/w/index.php?title=प्&oldid=367828" इत्यस्माद् प्रतिप्राप्तम्