अपरे नियताहाराः...
श्लोकः संपादित करें
- अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
- सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ३० ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य त्रिंशत्तमः (३०) श्लोकः ।
पदच्छेदः संपादित करें
अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति सर्वे अपि एते यज्ञविदः यज्ञक्षपितकल्मषाः ॥ ३० ॥
अन्वयः संपादित करें
अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । एते सर्वे अपि यज्ञविदः यज्ञक्षपितकल्मषाः ।
शब्दार्थः संपादित करें
- अपरे = अन्ये
- नियताहाराः = परिमिताहाराः
- प्राणान् = प्राणवायून्
- प्राणेषु = प्राणेषु
- जुह्वति = क्षिपन्ति
- सर्वे अपि = समे अपि
- एते = इमे
- यज्ञविदः = यज्ञवेत्तारः
- यज्ञक्षपितकल्मषाः = यज्ञविनाशितपापाः ।
अर्थः संपादित करें
अन्ये योगिनः नियताहारं सेवमानः प्राणायामपरायणाः अपानादिगतिं रुद्ध्वा प्राणान् प्राणेषु जुति । एते सर्वेऽपि यज्ञं विदन्ति । तस्मादेव यज्ञेन नाशितपापाः भवन्ति ।
शाङ्करभाष्यम् संपादित करें
किंच-अपर इति। अपरे नियताहारा नियतः परिमित आहारो येषां ते नियताहाराः सन्तः प्राणान्वायुभेदान्प्राणेष्केव जुह्वति, यस्त यस्य वायोर्जयः क्रियत इतरान्वायुभेदांस्तस्मिञ्जुह्वतिते तत्र प्रविष्टा इव भवन्ति। सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषा यज्ञैर्यथोक्तैः क्षपितो नाशितः कल्मषो येषां ते यज्ञक्षपितकल्मषाः।।30।।
|
सम्बद्धाः लेखाः संपादित करें
बाह्यसम्पर्कतन्तुः संपादित करें
विकिमीडिया कॉमन्स् मध्ये अपरे नियताहाराः... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम् संपादित करें
अधिकवाचनाय संपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च