न मां कर्माणि लिम्पन्ति...
श्लोकः सम्पादयतु
- न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
- इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ १४ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य चतुर्दशः(१४) श्लोकः ।
पदच्छेदः सम्पादयतु
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा इति मां यः अभिजानाति कर्मभिः न सः बध्यते ॥ १४ ॥
अन्वयः सम्पादयतु
मां कर्माणि न लिम्पन्ति । कर्मफले मे स्पृहा न अस्ति इति यः माम् अभिजानाति सः कर्मभिः न बध्यते ।
शब्दार्थः सम्पादयतु
- माम् = माम्
- कर्माणि = व्यापाराः
- न लिम्पन्ति = न स्पृशन्ति
- मे = मम
- कर्मफले = कर्मसिद्धौ
- स्पृहा न इति = आशा न इति
- यः माम् = यः माम्
- अभिजानाति = वेत्ति
- सः = सः पुरुषः
- कर्मभिः = क्रियाभिः
- न बध्यते = बद्धः न भवति ।
अर्थः सम्पादयतु
कर्मफलेषु मम आशा नास्ति, अतः कर्माचरणस्य आवश्यकता नास्ति इति ये मां यथार्थम् अवगच्छन्ति ते अपि कर्मभिः बद्धाः न भवन्ति ।
शाङ्करभाष्यम् सम्पादयतु
येषां तु कर्मणां कर्तारं मां मन्यसे परमार्थतस्तेषामकर्तैवाहं यतः-नेति। न मां कर्माणि लिम्पन्ति देहाद्यारम्भकत्वेनाहंकाराभावात्। नच तेषां कर्मणां फलेषुमे स्पृहा तृष्णा। येषां तु संसारिणामहं कर्तेत्यभिमानः कर्मसु स्पृहा तत्फलेषु च तान्कर्माणि लिम्पन्तीति युक्तं तदभावान्न मां कर्माणि लिम्पन्तीति, एवं योऽन्योऽपिमामात्मत्वेनाभिजानाति नाहं कर्ता न मे कर्मफले स्पृहेति स कर्मभिर्न बध्यते। तस्यापी न देहाद्यारम्भकाणि कर्माणि भवन्तीत्यर्थः।।14।।
|
सम्बद्धाः लेखाः सम्पादयतु
बाह्यसम्पर्कतन्तुः सम्पादयतु
विकिमीडिया कॉमन्स् मध्ये न मां कर्माणि लिम्पन्ति... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम् सम्पादयतु
अधिकवाचनाय सम्पादयतु
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च