श्रोत्रादीनीन्द्रियाण्यन्ये...

श्लोकः सम्पादयतु

 
गीतोपदेशः
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ २६ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य षड्विंशतितमः (२६) श्लोकः ।

पदच्छेदः सम्पादयतु

श्रोत्रादीनि इन्द्रियाणि अन्ये संयमाग्निषु जुह्वति शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु जुह्वति ॥ २६ ॥

अन्वयः सम्पादयतु

अन्ये श्रोत्रादीनि इन्द्रियाणि संयमाग्निषु जुह्वति । अन्ये शब्दादीन् विषयान् इन्द्रियाग्निषु जुह्वति ।

शब्दार्थः सम्पादयतु

अन्ये = इतरे
श्रोत्रादीनि = श्रोत्रप्रभृतीनि
इन्द्रियाणि = ज्ञानेन्द्रियाणि
संयमाग्निषु = नियमवग्निषु
जुह्वति = प्रक्षिपन्ति
अन्ये = अपरे
शब्दादीन् = शब्दप्रभृतीन्
विषयान् = विषयान्
इन्द्रियाग्निषु = इन्द्रियरूपवग्निषु
जुह्वति = प्रक्षिपन्ति ।

अर्थः सम्पादयतु

केचन योगिनः श्रोत्रादीनि इन्द्रियाणि स्वाधीनतारूपाग्नौ जुति । अर्थात् विषयेभ्यः विमुखीकृत्य इन्द्रियाणि वशीकुर्वन्ति । अन्ये केचन योगिनः शब्दादीन् विषयान् इन्द्रियरूपाग्नौ जुति । अर्थात् रागद्वेषरहितेन्द्रियैः विषयाणां ग्रहणं कुर्वन्तः तान् भस्मीकुर्वन्ति ।

शाङ्करभाष्यम् सम्पादयतु

श्रोत्रादीनीति। श्रोत्रादीनीन्द्रियाण्यन्ये योगिनः संयमाग्निषु। प्रतीन्द्रियं संयमो भिद्यत इति बहुवचनम्। संयमा एवाग्नयस्तेषु जुह्वति। इन्द्रियसंयममेव कुर्वन्तीत्यर्थः।'शब्दादीन्विषयानन्य इन्द्रियाग्निषु जिह्वति' इन्द्रियाण्येवाग्नयस्तेष्विन्द्रियाग्निषु जुह्वति श्रोत्रादिभिरविरुद्धविषयग्रहणं पोमं मन्यन्ते।।26।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
दैवमेवापरे यज्ञं...
श्रोत्रादीनीन्द्रियाण्यन्ये... अग्रिमः
सर्वाणीन्द्रियकर्माणि...
 
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

अधिकवाचनाय सम्पादयतु