स एवायं मया तेऽद्य...
भगवद्गीता श्लोकः ४.३
श्लोकः
सम्पादयतु- स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
- भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य तृतीयः(३) श्लोकः ।
पदच्छेदः
सम्पादयतुस एव अयं मया ते अद्य योगः प्रोक्तः पुरातनः भक्तः असि मे सखा च इति रहस्यं हि एतत् उत्तमम् ॥ ३॥
अन्वयः
सम्पादयतुपुरातनः सः एव अयं योगः अद्य मया ते प्रोक्तः । भक्तोऽसि इति सखा च इति एतत् उत्तमं रहस्यं (त्वम्) प्रोक्तः ।
शब्दार्थः
सम्पादयतु- पुरातनः = प्राचीनः
- सः एव = पूर्वोक्तः एव
- अयम् = असौ
- योगः = ज्ञानयोगः
- अद्य = इदानीम्
- मया = भगवता
- ते = तुभ्यम्
- प्रोक्तः = कथितः
- हि = यस्मात्
- भक्तः असि = आराधकः असि इति
- मे सखा च = मम मित्रं च इति
- एतत् = इदम्
- उत्तमम् = उत्कृष्टम्
- रहस्यम् = गोप्यम् । (प्रोक्तम्)
अर्थः
सम्पादयतुतमेव प्राचीनम् अत्युत्कृष्टं रहस्यं इमं योगम् अधुना भवते अकथयम्, यतः भवान् मक्तः मित्रं च वर्तते ।
शाङ्करभाष्यम्
सम्पादयतुदुर्बलानजितेनद्रियान्प्राप्य नष्टं योगमिममुपलभ्य लोकं चापुरुषार्थसंबन्धिनं-स एवायमिति। स एवायं मया ते तुभ्यमद्येदानीं योगः प्रोक्तः पुरातनः, भक्तोऽसिमे सखा चासीति। रहस्यं हि यस्मादेतदुत्तमं योगो ज्ञानमित्यर्थः।।3।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये स एवायं मया तेऽद्य... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च