तस्मादज्ञानसम्भूतं...
श्लोकः
सम्पादयतु- तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
- छित्त्वैनं संशयं योगमातिस्क्ठोत्तिष्ठ भारत ॥ ४२ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य द्विचत्वारिंशत्तमः (४२) श्लोकः ।
पदच्छेदः
सम्पादयतुतस्मात् अज्ञानसम्भूतं हृत्स्थं ज्ञानासिना अत्मनः छित्त्वा एनं संशयं योगम् आतिष्ठः उत्तिष्ठ भारत ॥ ४२ ॥
अन्वयः
सम्पादयतुभारत ! तस्मात् अज्ञानसम्भूतम् आत्मनः हृत्स्थम् एनं संशयं ज्ञानासिना छित्त्वा उत्तिष्ठ । योगम् आतिष्ठ ।
शब्दार्थः
सम्पादयतु- भारत = अर्जुन !
- तस्मात् = ततः हेतोः
- अज्ञानसम्भूतम् = अविवेकजनितम्
- आत्मनः = स्वस्य
- हृत्स्थम् = बुद्धिस्थितम्
- एनम् = अमुम्
- संशयम् = सन्देहम्
- ज्ञानासिना = ज्ञानरूपेण खड्गेन
- छित्त्वा = विदार्य
- उत्तिष्ठ = उत्थितः भव
- योगम् = कर्मयोगम्
- आतिष्ठ = आचर ।।
अर्थः
सम्पादयतुहे भारत ! अतः अज्ञानेन समुत्पन्नं बुद्धिस्थितं संशयं ज्ञानरूपेण खड्गेन छित्त्वा निष्कामकर्म आचर । युद्धार्थं च सन्नद्धो भव ।
शाङ्करभाष्यम्
सम्पादयतुयस्मात् कर्मयोगानुष्ठानादशुद्धिक्षयहेतुकज्ञानसंच्छिन्नसंशयो न निबध्यते कर्मभिर्ज्ञानाग्निदग्धकर्मत्वादेव यस्माच्च ज्ञानकर्मानुष्ठानविषये संशयवान्विनश्यति-तस्मादिति।तस्मात्पापिष्ठमज्ञानसंभूतमज्ञानादविवेकाज्जातं हृत्स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोकमोहादिदोषहरं सम्यग्दर्शनं ज्ञानं तदेवासिः खड्गस्तेन ज्ञानासिनात्मनःास्वस्यात्मविषयत्वात्संशयस्य। नहि परस्य संशयः परेण छेत्तव्यतां प्राप्तो येन स्वस्येति विशेष्यतेऽत आत्मविषयोऽपि स्वस्यैव भवति। छित्त्वैनं संशयं स्वविनाशहेतुभूतंंयोगं सम्यग्दर्शनोपायं कर्मानुष्ठानमातिष्ठ कुर्वित्यर्थः। उत्तिष्ठ चेदानीं युद्धाय भारतेति ।।42।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये तस्मादज्ञानसम्भूतं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च