एवं परम्पराप्राप्तम्...

भगवद्गीतायाः श्लोकः ४.२

श्लोकः सम्पादयतु

 
गीतोपदेशः
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप ॥ २ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः सम्पादयतु

एवं परम्पराप्राप्तम् इमं राजर्षयः विदुः सः कालेन इह महता योगः नष्टः परन्तप ॥ २ ॥

अन्वयः सम्पादयतु

परन्तप ! एवं परम्पराप्राप्तम् इमं राजर्षयः विदुः । महता कालेन सः योगः इह नष्टः ।

शब्दार्थः सम्पादयतु

परन्तप = शत्रुञ्जय
एवम् = इत्थम्
परम्पराप्राप्तम् = सम्प्रदायात् आगतम्
इमम् = अमुम्
राजर्षयः = राजश्रेाः
विदुः = अजानन्
महता = दीर्घेण
कालेन = समयेन
सः = एषः (पूर्वोक्तः)
योगः = योगः
इह = अत्र
नष्टः = लुप्तः ।

अर्थः सम्पादयतु

इत्थं परम्पराप्राप्तम् अमुं योगं राजर्षयः अजानन् । ततः बहोः कालात् सः योगः अत्र नष्टप्रायः सम्पन्नः ।

शाङ्करभाष्यम् सम्पादयतु

एवमिति। एवं क्षत्रियपरंपराप्राप्तमिमं राजर्षयो राजानश्च त ऋषयश्च राजर्षयो विदुरिमं योगम्। स योगः कालेनेह महता दीर्घेण नष्टो विच्छिन्नसंपआदायः संवृत्तः।हे परंतप, आत्मनो विपक्षभूताः पर उच्यन्ते तान् शौर्यतेजोगभस्तिभिर्भानुरिव तापयतीति परंतपः शत्रुतापन इत्यर्थः।।2।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
इमं विवस्वते योगं...
एवं परम्पराप्राप्तम्... अग्रिमः
स एवायं मया तेऽद्य...
 
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

अधिकवाचनाय सम्पादयतु