कर्मण्यकर्म यः पश्येद्...

भगवद्गीता श्लोकः ४.१८

श्लोकः संपादित करें

 
गीतोपदेशः
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य अष्टदशः (१८) श्लोकः ।

पदच्छेदः संपादित करें

कर्मणि अकर्म यः पश्येत् अकर्मणि च कर्म यः सः बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥

अन्वयः संपादित करें

यः कर्मणि अकर्म, अकर्मणि च कर्म पश्येत् सः मनुष्येषु बुद्धिमान् युक्तः कृत्स्नकर्मकृत् ।

शब्दार्थः संपादित करें

यः = यः पुरुषः
कर्मणि = व्यापारे
अकर्म = व्यापाराभावम्
अकर्मणि = व्यापाराभावे
कर्म च = व्यापारम् च
पश्येत् = वीक्षेत
सः = सः पुरुषः
मनुष्येषु = मानवेषु
बुद्धिमान् = धीमान्
युक्तः = समाहितः
सः = सः पुरुषः
कृत्स्नकर्मकृत् = सकलकर्मकर्ता ।

अर्थः संपादित करें

यः पुरुषः स्वकृते कर्मणि फलापेक्षाशून्यत्वम्, फलापेक्षया कृते कर्मणि स्वेन अकृतत्वं च पश्यति सः बुद्धिमान्, सः एव च सकलकर्मकारी । कृतेऽपि कर्मणि यः फलापेक्षां न करोति, फलापेक्षया कृते कर्मणि स्वकृतत्वाभावं च निर्णयति तादृशः पुरुषः प्राज्ञः सकलकर्मकारीति यावत् ।

शाङ्करभाष्यम् संपादित करें

किं पुनस्तत्त्वं कर्मादेर्यद्बोद्धव्यं वक्ष्यामीति प्रतिज्ञातमुच्यते-कर्मणीति। कर्मणि कर्म क्रियत इति व्यापारमात्रं तस्मिन्कर्मण्यकर्म कर्माभावं यः पश्येदकर्मणिच कर्माभावे कर्तृतन्त्रत्वात्प्रवृत्तिनिवृत्त्योर्वस्त्वप्राप्यैव हि सर्व एव क्रियाकारकादिव्यवहारोऽविद्यभूमावेव कर्मयः पश्येत्पश्यति स बुद्धिमान् मनुष्येषुस युक्तो योगी कृत्स्नकर्मकृत्समस्तकर्मकृच्च स इति स्तूयते कर्माकर्मणोरितरेतरदर्शी। ननु किमिदं विरुद्धमुच्यते कर्मण्यकर्म यः पश्येदित्यकर्मणि च कर्मेति।नहि कर्माकर्म स्यादकर्म वा कर्म, तत्र विरुद्धं कथं पश्येद्द्रष्टा। नन्वकर्मैव परमार्थतःसत्कर्मवदवभासते मूढदृष्टेर्लोकस्य तथा कर्मैवाकर्मवत् तत्र यथाभूतदर्शनार्थमाहभगवान्-कर्मण्यकर्म यः पश्येदित्यादि। अतो न विरुद्धम्। बुद्धिमत्त्वाद्युपपत्तेश्च बोद्धव्यमिति च यथाभूतदर्शनमुच्यते । नच विपरीतज्ञानादशुभान्मोक्षणं स्याद्यज्ज्ञात्वामोक्ष्यसेऽशुभादिति चोक्तम्। तस्मात्कर्माकर्मणी त्यादि। अत्र च कर्म कर्मैव सत् कर्यकरणाश्रयं कर्मरहितेऽक्रिय आत्मनि सर्वैरध्यस्तं यतः पण्डितोऽप्यहं करोमीतिमन्यते। अत आत्मसमवेततया सर्वलोकप्रसिद्धे कर्मणि नदीकूलस्थेष्विव वृक्षेषु गतिः प्रातिलोम्येनाकर्म कर्माभावं यथाभावं यथाभूतं गत्यभावमिव वृक्षेषु यः पश्येदकर्मणिचकार्यकरणव्यापारोपरमे कर्मवदात्मन्यध्यारोपिते तूष्णीमकुर्वन्सुखमास इत्यहंकाराभिसंधिहेतुत्वात्तस्मिन्नकर्मणि च कर्म यः पश्येत्। य एवं कर्माकर्मविभागज्ञःेस बुद्धिमान्पण्डितो मनुष्येषु स युक्तो योगी कृत्स्नकर्मकृच्च सोऽशुभान्मोक्षितः कृतकृत्यो भवतीत्यर्थः। अयं श्लोकोऽन्यथा व्याख्यातः कैश्चित्-कथं, नित्यानांमकिल कर्मणामीश्वरार्थेऽनुष्ठीयमानानां तत्फलाभावादकर्माणि तान्युच्यन्ते गौण्या वृत्त्या। तत्र नित्ये कर्मण्य कर्म यः पश्येत् फलाभावाद्यथा धेनुपरि गौरगौरुच्यतेक्षीराख्यं फलं न प्रयच्छतीति तद्वत्। तथा नित्याकरणे त्वकर्मणि कर्म यः पश्येन्नरकादिप्रत्यवायफलं प्रयच्छतीति। नैतद्युक्तं व्याख्यानमेवंज्ञानादशुभान्मोक्षानुपपत्तेर्यज्ज्ञात्वामोक्ष्यसेऽशुभादिति भगतोक्तं वचनं बाध्येत। कथं, नित्यानामनुष्ठानादशिभात्स्यान्नाम मोक्षणं नतु तेषां फलाभावज्ञानात्। नहि नित्यानां फलाभावज्ञानमशुभमुक्तिफलत्वेनचोदितं नित्यकर्मज्ञानं वा। नच भगवतैवेहोक्तम्। एतेनाकर्मणि कर्मदर्शनं प्रत्युक्तम्। नह्यकर्मणि कर्मेति दर्शनं कर्तव्यतयेह चोद्यते, नित्यस्य तु कर्तव्यतामात्रम्।नचाकरणान्नित्यस्य प्रत्यवायो भवतीति विज्ञानात्किंचित्फलं स्यात्। नापि नित्याकरणं ज्ञेयत्वेन चोदितम्। नापि कर्माकर्मेति मिथ्यादर्शनादशुभान्मोक्षणं बुद्धिमत्त्वंियुक्तता कृत्स्नकर्मकृत्त्वादि च फलमुपपद्यते स्तुतिर्वा। मिथ्याज्ञानमेव हि साक्षादशुभरूपं कुतोऽन्यस्मादशुभान्मोक्षणम्। नहि तमस्तमसो निवर्तकं भवति। ननुकर्मणि यदकर्मदर्शनमकर्मणि वा कर्मदर्शनं न तन्मिथ्याज्ञानं किं तर्हि गौणं फलभावाभावनिमित्तम्। न कर्माकर्मविज्ञानादपि गौणात्फलस्याश्रवणात्। नारि श्रुतहान्यश्रुतपरिकल्पनयाकश्चिद्विशेषोलभ्यते। स्वशब्देनापि शक्यं वक्तुं नित्यकर्मणां फलं नास्त्यकरणाच्च तेषां नरकपातः स्यादिति। तत्र व्याजेन परव्यामोहरूपेण कर्मण्यकर्म यः पश्येदित्यादिना किं,तत्रेवंव्याचक्षाणेन भगवतोक्तं वाक्यं लोकव्यामोहार्थमिति व्यक्तं कल्पितं स्यात्। नचैतच्छद्भरूपेण वाक्येन रक्षणीयं वस्तु, नापि शब्दान्तरेण पुनः पुनरुच्यमानं्सुबोधं स्यादित्येवं वक्तुं युक्तम्। कर्मण्येवाधिकारस्त इत्यत्र हि स्फुटतर उक्तोऽर्थो न पुनर्वक्तव्यो भवति। सर्वत्र च पशस्तं बोद्धव्यं च कर्तव्यमेव न निष्प्रयोजनं ।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
कर्मणो ह्यपि बोद्धव्यं...
कर्मण्यकर्म यः पश्येद्... अग्रिमः
यस्य सर्वे समारम्भाः...
 
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः संपादित करें

बाह्यसम्पर्कतन्तुः संपादित करें

उद्धरणम् संपादित करें

अधिकवाचनाय संपादित करें