वीतरागभयक्रोधा...

भगवद्गीतायाः श्लोकः ४.१०

श्लोकः संपादित करें

 
गीतोपदेशः
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १० ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य दशमः (१०) श्लोकः ।

पदच्छेदः संपादित करें

वीतरागभयक्रोधाः मन्मया माम् उपाश्रिताः बहवः ज्ञानतपसा पूताः मद्भावमागताः ॥ १० ॥

अन्वयः संपादित करें

वीतरागभयक्रोधाः मन्मयाः माम् उपाश्रिताः ज्ञानतपसा पूताः बहवः मद्भावम् आगताः ।

शब्दार्थः संपादित करें

वीतरागभयक्रोधाः = विनष्टरागभीतिकोपाः
मन्मयाः = मत्स्वरूपाः
माम् = माम्
उपाश्रिताः = उपगताः
ज्ञानतपसा = समाधिना
पूताः = पवित्राः
बहवः = असङ्ख्याकाः
मद्भावम् = मद्रूपत्वम्
आगताः = सम्प्राप्ताः ।

अर्थः संपादित करें

आसक्तिं भयं क्रोधं च विना अनन्यभावनया मयि विश्वस्ताः मां च शरणमागताः ज्ञानरूपेण तपसा पवित्राः असङ्ख्याकाः मम स्वरूपं प्राप्तवन्तः ।

शाङ्करभाष्यम् संपादित करें

नैष मोक्षमार्ग इदानीं प्रवृत्तः किं तर्हि पूर्वमपि-वीतरागेति। वीतरागभयक्रोधा रागश्च भयं च क्रोधश्च वीता विगता येभ्यस्ते वीतरागभयक्रोधा मन्मया ब्रह्मविदईश्वराभेददर्शिनो मामेव परमेश्वरमुपाश्रिताः। केवलज्ञाननिष्ठा इत्यर्थः। बहवोऽनेके ज्ञानतपसा ज्ञानमेव च परमात्मविषयं तपस्तेन ज्ञानतपसा पूताः परां शुद्धिंरगताः सन्तो मद्भावमीश्वरभावं मोक्षमागताः समनुप्राप्ताः। इतरतपोनिरपेक्षज्ञाननिष्ठा इत्यस्य लिङ्गं ज्ञानतपसेति विशेषणम्।।10।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
जन्म कर्म च मे दिव्यम्...
वीतरागभयक्रोधा... अग्रिमः
ये यथा मां प्रपद्यन्ते...
 
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः संपादित करें

बाह्यसम्पर्कतन्तुः संपादित करें

उद्धरणम् संपादित करें

अधिकवाचनाय संपादित करें

"https://sa.wikipedia.org/w/index.php?title=वीतरागभयक्रोधा...&oldid=408548" इत्यस्माद् प्रतिप्राप्तम्