सर्वाणीन्द्रियकर्माणि...
श्लोकः सम्पादयतु
- सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
- आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ २७ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य सप्तविंसतितमः (२७) श्लोकः
पदच्छेदः सम्पादयतु
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि च अपरे आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ २७ ॥
अन्वयः सम्पादयतु
अपरे सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च ज्ञानदीपिते आत्मसंयमयोगाग्नौ जुह्वति ।
शब्दार्थः सम्पादयतु
- अपरे = अन्ये
- सर्वाणि = सकलानि
- इन्द्रियकर्माणि = इन्द्रियव्यापारान्
- प्राणकर्माणि च = प्राणव्यापारान् च
- ज्ञानदीपिते = आत्मज्ञानप्रज्वालिते
- आत्मसंयमयोगाग्नौ = चित्तनियन्त्रणरूपयोगवौ
- जुह्वति = प्रक्षिपन्ति ।
अर्थः सम्पादयतु
अन्ये केचन सर्वाणि इन्द्रियाणां कर्माणि तथा प्राणानां समस्ताः क्रियाः ज्ञानेन प्रकाशमाने चित्तसंयमनरूपो यो योगः तादृशे अग्नौ प्रक्षिपन्ति ।
शाङ्करभाष्यम् सम्पादयतु
किंच-सर्वाणीन्द्रियकर्माणीन्द्रियाणां कर्माणीन्द्रियकर्माणि तथा प्राणकर्माणि प्राणो वायुराध्यात्मिकस्तत्कर्माण्याकुञ्चनप्रसारणादीनि तानि चापर आत्मसंयमयोगाग्नावात्मनिसंयम आत्मसंयमः स एव योगाग्निस्तस्मिन्नात्मसंयमयोगाग्नौ जुह्यति प्रक्षिपन्ति ज्ञानदीपिते स्नेहेनेव प्रदीपिते विवेकविज्ञानेनोज्जवलभावमापादिते प्रविलापयन्तात्यर्थः।।27।।
|
सम्बद्धाः लेखाः सम्पादयतु
बाह्यसम्पर्कतन्तुः सम्पादयतु
विकिमीडिया कॉमन्स् मध्ये सर्वाणीन्द्रियकर्माणि... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम् सम्पादयतु
अधिकवाचनाय सम्पादयतु
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च