योगसंन्यस्तकर्माणं...
श्लोकःसंपादित करें
- योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।
- आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य एकचत्वारिंश्त्तमः (४१) श्लोकः ।
पदच्छेदःसंपादित करें
योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥
अन्वयःसंपादित करें
धनञ्जय ! योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् आत्मवन्तं कर्माणि न निबध्नन्ति ।
शब्दार्थःसंपादित करें
- धनञ्जय = अर्जुन !
- योगसन्न्यस्तकर्माणम् = आत्मज्ञानसंत्यक्तकर्माणम्
- ज्ञानसञ्छिन्नसंशयम् = आत्मज्ञानविनष्टसन्देहम्
- आत्मवन्तम् = आत्मनिम्
- कर्माणि = यज्ञादीनि
- न निबध्नन्ति = न लिम्पन्ति ।
अर्थःसंपादित करें
धनञ्जय ! यः सर्वाणि कर्माणि समत्वबुद्धियोगेन भगवदर्पितानि करोति, यस्य च संशयाः आत्मज्ञानप्राप्त्या नष्टाः सन्ति तं जितेन्द्रियं पुरुषं कर्माणि न लिम्पन्ति ।
शाङ्करभाष्यम्संपादित करें
कस्मात्-योगेति। योगसंन्यस्तकर्माणं परमार्थदर्शनलक्षणेन योगेन संन्यस्तानि कर्माणि येन परमार्थदर्शिना धर्माधर्माख्यानि तं योगसंन्यस्तकर्माणम्। कथं योगसंन्यस्तकर्मेत्याहज्ञानेनात्मेश्वरकत्वदर्शनलक्षणेन संच्छिन्नः संशयो यस्य स ज्ञानसंच्छिन्नसंशयः। य एवं योगसंन्यस्तकर्मा तमात्मवन्तमप्रमत्तं गुणचेष्टारूपेण दृष्टानि कर्माणिन निबन्धन्त्यनिष्टादिरूपं फलं नारभन्ते हे धनंजय ।।41।।
|
सम्बद्धाः लेखाःसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये योगसंन्यस्तकर्माणं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्संपादित करें
अधिकवाचनायसंपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च