त्यक्त्वा कर्मफलासङ्गं...
श्लोकः संपादित करें
- त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
- कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ २० ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य विंशतितमः(२०) श्लोकः ।
पदच्छेदः संपादित करें
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तः निराश्रयः कर्मणि अभिप्रवृत्तः अपि नैव किञ्चित् करोति सः ॥ २० ॥
अन्वयः संपादित करें
नित्यतृप्तः निराश्रयः कर्मफलासङ्गं त्यक्त्वा कर्मणि अभिप्रवृत्तः अपि सः किञ्चित् न एव करोति ।
शब्दार्थः संपादित करें
- नित्यतृप्तः = सदा सन्तुष्टः
- निराश्रयः = निरालम्बः
- कर्मफलासङ्गम् = कर्मफलासक्तिम्
- त्यक्त्वा = विहाय
- कर्मणि = व्यापारे
- अभिप्रवृत्तः अपि = संयुक्तः अपि
- सः = सः पुरुषः
- किञ्चित् = किमपि कर्म
- न एव करोति = नाचरति ।
अर्थः संपादित करें
यः पुरुषः संसारसम्बन्धं विना सदा परमानन्दपरमात्मनि नित्यतृप्तः भूत्वा फलासक्तिं विहाय कर्मणि आभिमुख्येन प्रवृत्तः वर्तते सः वस्तुतः कर्मशून्यः एव भवति ।
शाङ्करभाष्यम् संपादित करें
यस्त्वकर्मादिदर्शी सोऽकर्मादिदर्शनादेव निष्कर्मा संन्यासी जीवनमात्रार्थचेष्टः सन्कर्मणि न प्रवर्तते, यद्यपि प्राग्विवेकतः प्रवृत्तो यस्तु प्रारब्धकर्मासन्नुत्तरकालमुत्पन्नात्मसम्यग्दर्शनः स्यात् स कर्मणि तत्फले च सङ्गरहिततया स्वप्रयोजनाभावाल्लोकसंग्रहार्थं पूर्ववत्कर्मणि प्रवृत्तोऽपि नैव किंचित्करोति।ज्ञानाग्निदग्धकर्मत्वात्। तदीयं कर्माकर्मैव संपद्यत इत्येतदर्थं दर्शयिष्पन्नाह-त्यक्त्वेति। त्यक्त्वा कर्मस्वभिमानं फलासंङ्ग च यथोक्ते ज्ञाने नित्यतृप्तोनिराकाङ्क्षो विषयेष्वित्यर्थः। निराश्रय आश्रयरहितः। आश्रयो नाम यदाश्रित्य पुरुषार्थं सिसाधयिषति। दृष्टादृष्टेष्टफलसाधनाश्रयरहित इत्यर्थः। विदुषा क्रियमाणंःकर्म परमार्थतोऽकर्मैव तस्य निष्क्रियात्मदर्शनसंपन्नत्वात्। तेनैवंभूतेन स्वप्रयोजनाभावात्ससाधनं कर्म परित्यक्तव्यमेवेति प्राप्ते ततो निर्गमासंभवाल्लोकसंग्रहचिकीर्षयाशिष्टविगर्हणापरिजिहीर्षया वा पूर्वत्कर्मण्यभिप्रवृत्तोऽपि निष्क्रियात्मदर्शनसंपन्नत्वान्नैव किंचित्करोति सः।।20।।
|
सम्बद्धाः लेखाः संपादित करें
बाह्यसम्पर्कतन्तुः संपादित करें
विकिमीडिया कॉमन्स् मध्ये त्यक्त्वा कर्मफलासङ्गं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम् संपादित करें
अधिकवाचनाय संपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च