अपि चेदसि पापेभ्यः...
श्लोकःसंपादित करें
- अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
- सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य षड्त्रिंशत्तमः(३६) श्लोकः ।
पदच्छेदःसंपादित करें
अपि चेत् असि पापेभ्यः सर्वेभ्यः पापकृत्तमः सर्वं ज्ञानप्लवेन एव वृजिनं सन्तरिष्यसि ॥ ३६ ॥
अन्वयःसंपादित करें
अपि चेत् सर्वेभ्यः पापेभ्यः पापकृत्तमः असि (तदा) सर्वं वृजिनं ज्ञानप्लवेन एव सन्तरिष्यसि ।
शब्दार्थःसंपादित करें
- अपि चेत् = यदि पुनः
- सर्वेभ्यः = सकलेभ्यः
- पापेभ्यः = पापकारिभ्यः
- पापकृत्तमः = पापिः
- असि = भवसि
- (तदा) सर्वम् = तदा समस्तम्
- वृजिनम् = पापम्
- ज्ञानप्लवेन एव = ज्ञानोडुपेन एव
- सन्तरिष्यसि = अतिक्रमिष्यसि ।
अर्थःसंपादित करें
भवान् सर्वेषां पापिनाम् अपेक्षया अधिकं पापं कृतवान् चेदपि ज्ञानरूपया नौकया निस्सन्देहं तं पापरूपं समुद्रं तरिष्यति ।
शाङ्करभाष्यम्संपादित करें
किं चैतस्य ज्ञानस्य माहात्म्यम्-अपीति। अपिचेदसि पापेभ्यः पापकृद्भ्यः सर्वेभ्योऽतिशयेन पापकृत्पारकृत्तमः सर्वं ज्ञानण्लवेनैव ज्ञानमेव प्लवं कृत्वा वृजिनंःवृजिनार्णवं पापं संतरिष्यसि, धर्मोऽपीह मुमुक्षोः पापमुच्यते ।।36।।
|
सम्बद्धाः लेखाःसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये अपि चेदसि पापेभ्यः... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्संपादित करें
अधिकवाचनायसंपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च