काङ्क्षन्तः कर्मणां सिद्धिं...
श्लोकःसंपादित करें
- काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
- क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य ादशः(१२) श्लोकः ।
पदच्छेदःसंपादित करें
काङ्क्षन्तः कर्मणां सिद्धिं यजन्ते इह देवताः क्षिप्रं हि मानुषे लोके सिद्धिः भवति कर्मजा ॥ १२ ॥
अन्वयःसंपादित करें
कर्मणां सिद्धिं काङ्क्षन्तः इह देवताः यजन्ते । (तेषाम्) हि मानुषे लोके कर्मजा सिद्धिः क्षिप्रं भवति ।
शब्दार्थःसंपादित करें
- कर्मणाम् = व्यापाराणाम्
- सिद्धिम् = फलप्राप्तिम्
- काङ्क्षन्तः = अभिलषन्तः
- इह = अस्मिन् लोके
- देवताः = देवान्
- यजन्ते = पूजयन्ति
- मानुषे लोके = मानवानां लोके
- हि = यस्मात्
- कर्मजा = कर्मसम्भवा
- सिद्धिः = फलप्राप्तिः
- क्षिप्रम् = शीघ्रम्
- भवति = जायते ।
अर्थःसंपादित करें
कर्मप्रधाने अस्मिन् लोके कर्मणां फलमिच्छन्तः मनुष्याः देवान् पूजयन्ति, यतः कर्मणां सिद्धिः शीघ्रं भवति । परन्तु आत्मसिद्धिः न भवति । तदर्थं मामेव भज ।
शाङ्करभाष्यम्संपादित करें
यदि तवेश्वरस्य रागादिदोषाभावात्सर्वप्राणिष्वनुजिघृक्षायां तुल्यायां सर्वफलप्रदानसमर्थे च त्वयि सति वासुदेवः सर्वमिति ज्ञानेनैव मुमुक्षवः सन्तः कस्मात्त्वामेवसर्वे न प्रतिपद्यन्त इति शृणु तत्र कारणं-काङ्क्षन्तोऽभीप्सन्तः कर्मणां सिद्धिं फलनिष्पत्तिं प्रर्थयन्तो यजन्त इहास्मिँलोके देवता इन्द्राग्नयाद्याः, 'अथयोऽन्यां देवतामुपास्तेऽन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्' इति श्रुतेः। तेषां हि भिन्नदेवतायाजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मान्मनुषेलोके मनुष्यलोके हि शास्राधिकारः। क्षिप्रं हि मानुषे लोक इति विशेषणादन्येष्वपि कर्मफलसिद्धिं दर्शयति भगवान्। मानुषे लोके वर्णाश्रमादिकर्माणीति शेषः, तेषांनवर्णाश्रमाद्यधिकारिकर्मणां फलसिद्धिः क्षिप्रं भवति। कर्मजा कर्मणो जाता।।12।।
|
सम्बद्धाः लेखाःसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये काङ्क्षन्तः कर्मणां सिद्धिं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्संपादित करें
अधिकवाचनायसंपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च