ब्रह्मार्पणं ब्रह्म हविः...

भगवद्गीतायाः श्लोकः ४.२४

श्लोकःसंपादित करें

 
गीतोपदेशः
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य चतुर्विंशतितमः (२४) श्लोकः ।

पदच्छेदःसंपादित करें

ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् ब्रह्म एव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥

अन्वयःसंपादित करें

अर्पणं ब्रह्म । ब्रह्माग्नौ ब्रह्मणा हुतम् हविः ब्रह्म । ब्रह्मकर्मसमाधिना तेन गन्तव्यं ब्रह्मैव ।

शब्दार्थःसंपादित करें

अर्पणम् = समर्पणसाधनं स्रुगादि
ब्रह्म = परमात्मा
ब्रह्माग्नौ = परमात्मरूपे अग्नौ
ब्रह्मणा = यजमानरूपेण परमात्मना
हुतम् = दत्तम्
हविः = आज्यादिकं वस्तु
ब्रह्म = परमात्मा
ब्रह्मकर्मसमाधिना = कर्मरूप-परमात्मना
तेन = यजमानेन
गन्तव्यम् = प्राप्तव्यः
ब्रह्म एव = परमात्मा एव ।

अर्थःसंपादित करें

अत्र यत् समर्पणसाधनं वर्तते तत् ब्रह्म, यः अग्निः तत् ब्रह्म, यो यजमानः तद् ब्रह्म, यत्तेन हुतम् आज्यादि तदपि ब्रह्म, यत् समर्पणं तदपि ब्रह्म, तत्र अवहितेन पुरुषेण प्राप्तव्यमपि ब्रह्मैव । एवं सर्वं खलु इदं ब्रह्म । न तदतिरिक्तं किञ्चिदपि वस्तु इह वर्तते ।

शाङ्करभाष्यम्संपादित करें

ब्रह्मेति। कस्मात्पुनः कारणात्क्रियमाणं कर्म स्वकार्यारम्भमकुर्वत्समग्रं प्रविलीयत इत्युच्यते, यतो ब्रह्मार्पणं येन करणेन प्रकारेण ब्रह्मविद्धविरग्नावर्पयतितह्रह्मैवेति पश्यति तस्यात्मव्यतिरेकेणाभावं पश्यति यथा शुक्तिकायां रजताभावं पश्यति तद्वदुच्यते ब्रह्मैवार्पणमिति। यथा यद्रजतं तच्छुक्तिकैवेति। ब्रह्म अप्पणमित्यसमस्तेपदे, यदर्पणबुद्धया गृह्यतेलोके तदस्य ब्रह्मविदे ब्रह्मैवेत्यर्थः। बॅह्म हविस्तथा यद्धविर्बुद्धया गृह्यमाणं तह्रह्मैवास्य। तथा ब्रह्माग्नाविति समस्तं पदम्। अग्निरपि ब्रह्मैव यत्रहूयते ब्रह्मणा कर्ता। ब्रह्मैव कर्तेत्यर्थः। यत्तेन हुतं हवनक्रियापि तद्ब्रह्मैव, यत्तेन गन्तव्यं फलं तदपि ब्रह्मैव, ब्रह्मकर्मसमाधिना ब्रह्मैव कर्मब्रह्मकर्मतस्मिन्समाधिर्यस्य स ब्रह्मकर्मसमाधिस्तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यम्। एवं लोकसंग्रहं चिकीर्षुणापि क्रियमाणं कर्म परमार्थतोऽकर्म ब्रह्मबुध्द्युपमृदित्वात्।तदेवं सति निवृत्तकर्मणोऽपि सर्वकर्मसंन्यासिनः सम्यग्दर्शनस्तुत्यर्थं यज्ञत्वसंपादनं ज्ञानस्य सुतरामुपपद्यते यदर्पणाद्यधियज्ञे प्रसिद्धं तदस्याध्यात्मंहब्रह्मैव परमार्थदर्शिन इति। अन्यथा सर्वस्य ब्रह्मत्वेऽर्पणादीनामेव विशेषतो ब्रह्मत्वाभिधानमनर्थकं, तस्माद्ब्रह्मैवेदं सर्वमित्यभिजानतो विदुषः सर्वकर्माभावः्कारकबुद्धिरहितं यज्ञाख्य कर्म दृष्टं, सर्वमेवाग्निहोत्रादिकं कर्म शब्दसमर्पितदेवताविशेषसंप्रदानादिकारकबुद्धिमत्कर्त्रभिमानफलाभिसंभिमच्च दृष्टं नोपमृदितक्रियाकारककर्मफलभेदबुद्धिमत्कर्तत्वाभिमानफलाभिसंधिरहितं च, इदं तु ब्रह्मबुध्द्युपमृदितार्पणादिकारकक्रियाफलभेदवुद्धिमत् कर्मातोऽकर्मैव तत्। तथाच दर्शितं 'कर्मण्यभिप्रवृत्तोऽपि नैवकिंचित्करोति सः। गुणा गुणेषु वर्तन्ते', 'नैव किंचित्करोमीति युक्तो मन्यते तत्त्ववित्' इत्यादिभिः, तथा च दर्शयंस्तत्र तत्र क्रियाकारकफलभेदबुध्द्युपमर्दंवकरोति, दृष्टा च काम्याग्निहोत्रादौ कामोपमर्देन काम्याग्निहोत्रादिहानिस्तथा मतिपूर्वकामतिपूर्वकत्वादीनां कर्मणां कार्यविशेषस्यारब्धत्वं दृष्टं तथेहापि ब्रह्मबुध्द्युपमृदितार्पणादिकारकक्रियाफलभेदबुद्धेप्बाह्यचेष्टामात्रेणकर्मापि विदुषोऽकर्म संपद्यतेऽत उक्तं समग्रं प्रविलीयत इति। अत्र केचिदाहुर्यद्ब्रह्म तदर्पणादीति ब्रह्मैव किलार्पणादिना पञ्चविधेन कारकात्मना व्यवस्थितंभसत्तदेव कर्म करोति। तत्र नार्पणादिबुद्धिर्निवर्तते किंत्वर्फणादिषु ब्रह्मबुद्धिराधीयते, यथा प्रतिमादौ विष्ण्वादिबुद्धिर्यथा च नामादौ ब्रह्मबुद्धिरेवं,सत्यमेवमपि स्याद् यदि ज्ञानयज्ञस्तुत्यर्थं प्रकरणं न स्यात्, अत्र तु सम्यग्दर्शनं ज्ञानयज्ञशब्दितमनेकान्यज्ञशब्दितान्क्रियाविशेषानुपन्यस्य 'श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः'इति ज्ञानं स्तौति। अत्र च समर्थमिदं वचनं ब्रह्मार्पणमित्यादि ज्ञानस्य यज्ञत्वसंपादनेऽन्यथा सर्वस्य ब्रह्मत्वेऽर्पणादीनामेव विशेषतो ब्रह्मत्वाभिधानमनर्थकंस्यात्। ये त्वर्पणादिषु प्रतिमायां विष्णुदृष्टिवद्ब्रह्मदृष्टिः क्षिप्यते नामादिष्विव चेति ब्रवते न तेषां ब्रह्मविद्योक्तेह विवक्षिता स्यादर्पणादिविषयत्वाज्ज्ञानस्य।नच दृष्टिसंपादनज्ञानेन मोक्षफलं प्राप्यते 'ब्रह्मैव तेन गन्तव्यम्' इति चोच्यते। विरुद्धं च सम्यग्दर्शनमन्तरेण |मोक्षफलं प्राप्यत इति। प्रकृतविरोधश्च। सम्यग्दर्शनं .. .।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
गतसङ्गस्य मुक्तस्य...
ब्रह्मार्पणं ब्रह्म हविः... अग्रिमः
दैवमेवापरे यज्ञं...
 
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाःसंपादित करें

बाह्यसम्पर्कतन्तुःसंपादित करें

उद्धरणम्संपादित करें

अधिकवाचनायसंपादित करें