इमं विवस्वते योगं...
श्लोकः
सम्पादयतु- श्रीभगवान् उवाच
- इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
- विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ 1 ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य प्रथमः (१) श्लोकः ।
पदच्छेदः
सम्पादयतुइमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् विवस्वान् मनवे प्राह मनुः इक्ष्वाकवे अब्रवीत् ॥ 1 ॥
अन्वयः
सम्पादयतुअहं विवस्वते इमम् अव्ययं योगं प्रोक्तवान् । विवस्वान् मनवे प्राह । मनुः इक्ष्वाकवे अब्रवीत् ।
शब्दार्थः
सम्पादयतु- इमम् = एनम्
- अव्ययम् = अविनाशिनम्
- योगम् = योगमार्गम्
- अहम् = अहम्
- विवस्वते = सूर्याय
- प्रोक्तवान् = अवोचम्
- विवस्वान् = सूर्यः
- मनवे = मनुसंज्ञकाय राज्ञे
- प्राह = अवदत्
- मनुः = मनुः
- इक्ष्वाकवे = इक्ष्वाकुनाम्ने राज्ञे
- अब्रवीत् = अकथयत् ।
अर्थः
सम्पादयतुइमम् अविनाशिनं योगमार्गम् अहं कल्पादौ सूर्याय अवोचम् । सूर्यः स्वपुत्राय मनवे अवोचत् । मनुः स्वपुत्राय इक्ष्वाकवे अवोचत् ।
शाङ्करभाष्यम्
सम्पादयतुयोऽयं योगोऽध्यायद्वयेनोक्तो ज्ञाननिष्ठालक्षणः ससंन्यासः कर्मयोगोपायो यस्मिन् वेदार्थः परिसमाप्तः प्रवृत्तिलक्षणो निव-त्तिलक्षणश्च, गीतासु च सर्वास्वयमेवयोगो विवक्षितो भगवताऽतः परिसमाप्तं वेदार्थं मन्वानस्तं वंशकथनेन स्तौति श्रीभगवान्-- इयमिति । इममध्यायद्वयेनोक्तं योगं विवस्वत आदित्याय सर्गादौ प्रोक्तवानहं जगत्परिपालयितृणां क्षत्रियाणां बलाधानाय तेन योगबलेन युक्ताः समर्था भवन्ति ब्रह्म परिरक्षितुम् । ब्रह्मक्षत्रे परिपालिते जगत् परिपालयितुमलम् । अव्ययम् अव्ययफलत्वात् । न ह्यस्य योगस्य सम्यग्दर्शननिष्ठालक्षणस्य मोक्षाख्यं फलं व्येति । स च विवस्वान् मनवे प्राह । मनुः इक्ष्वाकवे स्वपुत्राय आदिराजाय अब्रवीत् ॥१॥
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये इमं विवस्वते योगं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च