चातुर्वर्ण्यं मया सृष्टं...
श्लोकः संपादित करें
- चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
- तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ १३ ॥
- अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य त्रयोदशः(१३) श्लोकः ।
पदच्छेदः संपादित करें
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः तस्य कर्तारम् अपि मां विद्धि अकर्तारम् अव्ययम् ॥ १३ ॥
अन्वयः संपादित करें
गुणकर्मविभागशः मया चातुर्वर्ण्यं सृष्टम् । तस्य कर्तारम् अपि अकर्तारम् अव्ययं मां विद्धि ।
शब्दार्थः संपादित करें
- गुणकर्मविभागशः = गुणानां कर्मणां च भेदेन
- मया = मया
- चातुर्वर्ण्यम् = चत्वारः वर्णाः
- सृष्टम् = उत्पादिताः
- तस्य = चातुर्वर्ण्यविभागस्य
- कर्तारम् = स्रष्टारम्
- अकर्तारम् अपि = अस्रष्टारम् अपि
- अव्ययम् = अविनाशिनम्
- मां विद्धि = मां जानीहि ।
अर्थः संपादित करें
गुणानां कर्मणां च विभेदानुसारेण ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः इति चत्वारः वर्णाः मया कृताः । तस्य चातुर्वर्ण्यविभागस्य यद्यपि अहं कर्ता तथापि अहम् अकर्ता अनश्वरः च अस्मि । तदेतत् जानीहि ।
शाङ्करभाष्यम् संपादित करें
मानुष एव लोके वर्णाश्रमादिकर्माधिकारो नान्येषु सोकेष्विति नियमः किंनिमित्त इति, अथवा वर्णाश्रमादिप्रविभागोपेता मनुष्या मम वर्त्मानुवर्तन्ते सर्वश इत्युक्तंुकस्मात्पुनः कारणान्नियमेन तवैव वर्त्मानुवर्तन्ते नान्यस्येत्युच्यते-चातुर्वर्ण्यं चत्वार एव वर्णाश्चातुर्वर्ण्यं मयेश्वरेण सृष्टमुत्पादितं 'ब्राह्मणोऽस्यमुखमासीत्' इत्यादिश्रुतेः, गुणकर्मविभागशो गुणविभागशः कर्मविभागशश्च। गुणाः सत्त्वरजस्तमांसि। तत्र सात्त्विकस्य सत्त्वप्रधानस्य ब्राद्मणस्यशमो दमस्तप इत्यादीनि कर्माणि। सत्त्वोपसर्जनरजः प्रधानस्य क्षत्रियस्य शौर्यतेजः प्रभृतीनि कर्माणि। तम उपसर्जनरजःप्रधानस्य वैश्यस्य कृष्यादीनि कर्माणि। रजउपसर्जनतमः
|
सम्बद्धाः लेखाः संपादित करें
बाह्यसम्पर्कतन्तुः संपादित करें
विकिमीडिया कॉमन्स् मध्ये चातुर्वर्ण्यं मया सृष्टं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम् संपादित करें
अधिकवाचनाय संपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च