श्रेयान्द्रव्यमयाद्यज्ञात्...
श्लोकः सम्पादयतु
- श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
- सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।
पदच्छेदः सम्पादयतु
श्रेयान् द्रव्यमयात् यज्ञात् ज्ञानयज्ञः परन्तप सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥
अन्वयः सम्पादयतु
परन्तप ! द्रव्यमयात् यज्ञात् ज्ञानयज्ञः श्रेयान् । पार्थ ! सर्वं कर्म ज्ञाने अखिलं परिसमाप्यते ।
शब्दार्थः सम्पादयतु
- परन्तप = शत्रुतापक !
- द्रव्यमयात् = द्रव्यसाध्यात्
- यज्ञात् = यागात्
- ज्ञानयज्ञः = आत्मज्ञानरूपो यज्ञः
- श्रेयान् = वरीयान्
- पार्थ = अर्जुन !
- सर्वम् = समस्तम्
- कर्म = यज्ञरूपं कर्म
- ज्ञाने = आत्मज्ञाने
- अखिलम् = फलसहितम्
- परिसमाप्यते = पर्यवस्यति ।
अर्थः सम्पादयतु
हे अर्जुन ! सांसारिकवस्तुभिः सिद्धात् यज्ञात् आत्मज्ञानरूपो यज्ञः श्रेष्ठः भवति । यतः सर्वाणि कर्माणि ज्ञाने एव परिसमाप्तिं गच्छन्ति, फलत्वात् ।
शाङ्करभाष्यम् सम्पादयतु
ब्रह्मार्पणमित्यादिश्लोकेन सम्यग्दर्शनभ्य यज्ञत्वं संपादितं यज्ञाश्चानेक उपदिष्टास्तैः सिद्धपुरुषार्थप्रयोजनैर्ज्ञानं स्तूयते। कथं-श्रेयानिति। श्रेयान्द्रव्यमयाद्द्रव्यसाधनसाध्याद्यज्ज्ञानयज्ञोहे परंतप। द्रव्यमयो हि यज्ञः फलस्यारम्भको ज्ञानयज्ञो न फलारम्भकोऽतः श्रेयान्प्रशस्यतरः। कथं, यतः सर्वं कर्म समस्तमखिलमप्रतिबद्धं पार्थ, ज्ञाने मोक्षसाधनेसर्वतः संण्लुतोदकस्थानीये परिसमाप्यते। अन्तर्भवतीत्यर्थः। 'यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्व तदभिसमेति यत्किंतित्प्रजाः साधु कुर्वन्ति यस्तद्वेदयत्स वेद' इति श्रुतेः ।।33।।
|
सम्बद्धाः लेखाः सम्पादयतु
बाह्यसम्पर्कतन्तुः सम्पादयतु
विकिमीडिया कॉमन्स् मध्ये श्रेयान्द्रव्यमयाद्यज्ञात्... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम् सम्पादयतु
अधिकवाचनाय सम्पादयतु
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च