श्लोकः सम्पादयतु

()

 
गीतोपदेशः
अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३६ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य षड्त्रिंशत्तमः (३६) श्लोकः ।

पदच्छेदः सम्पादयतु

अथ केन प्रयुक्तः अयं पापं चरति पूरुषःअनिच्छन् अपि वार्ष्णेय बलात् इव नियोजितः ॥ ३६ ॥

अन्वयः सम्पादयतु

वार्ष्णेय ! अथ केन प्रयुक्तः अनिच्छन्नपि बलात् इव नियोजितः अयं पूरुषः पापं चरति ?

शब्दार्थः सम्पादयतु

अन्वयः सरलसंस्कृतम्
अथ एवं हि
केन केन हेतुना
प्रयुक्तः प्रेरितः
वार्ष्णेय वृष्णिकुलसम्भव
अनिच्छन् अपि अनभिलषन् अपि
बलात् इव हठात् इव
नियोजितः प्रवर्तितः
अयं पूरुषः एषः मानवः
पापं चरति अकर्मणि प्रवर्तते?

व्याकरणम् सम्पादयतु

सन्धिः सम्पादयतु

  1. प्रयुक्तोऽयम् = प्रयुक्तः + अयम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  2. अनिच्छन्नपि = अनिच्छन् + अपि – ङ्मुडागमसन्धिः
  3. बलादिव = बलात् + इव – जश्त्वसन्धिः

कृदन्तः सम्पादयतु

  1. प्रयुक्तो = प्र + युज् + क्त (कर्मणि)
  2. इच्छन् = इच्छ् + शतृ (कर्तरि)
  3. नियोजितः = नि + युज् + क्त (कर्मणि)

तद्धितान्तः सम्पादयतु

  1. वार्ष्णेय = वृष्णि + ञ्यङ् (अपत्यार्थे), तत्सम्बुद्धौ

अर्थः सम्पादयतु

हे कृष्ण ! अनभिलषन् अपि मानवः राज्ञा नियोजितः भृत्यः इव केन प्रेरितः सन् बलात् पापम् आचरति ?

शाङ्करभाष्यम् सम्पादयतु

यद्यप्यनर्थमूलं 'ध्यायतो विषयान्पुंसः'(गी।२।६२), 'रागद्वेषौ ह्यस्य परिपन्थिनो' (गी।३।३४) इति चोक्तं विक्षिप्तमनवधारितं च तदुक्तम् । तत्संक्षिप्तं निश्चितं चेदमेवेति ज्ञातुमुच्छन्नर्जुन उवाच ज्ञाते हि तस्मिंस्तदुच्छेदाययत्नं कुर्यामिति-अथेति। अथ केन हेतुभूतेन प्रयुक्तः सन् राज्ञेव भृत्योऽयं पापं कर्म चरत्याचरति पुरुषः स्वयमिच्छन्नपिहे वार्ष्णेय, वृष्णिकुलप्रसूत, बलादिव नियोजितो राज्ञेवेत्युक्तो दृष्टान्तः ।।36।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
श्रेयान्स्वधर्मो विगुणः
अथ केन प्रयुक्तोऽयं... अग्रिमः
काम एष क्रोध एष...
 
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

अधिकवाचनाय सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अथ_केन_प्रयुक्तोऽयं...&oldid=393858" इत्यस्माद् प्रतिप्राप्तम्