यद्यदाचरति श्रेष्ठः...
यद्यदाचरति श्रेष्ठः ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः श्रेष्ठपुरुषाणाम् आचरणं प्रमाणीकरोति । पूर्वस्मिन् श्लोके भगवान् जनकसदृशानाम् उदाहरणेन निःस्वार्थकर्मणः औचित्यम् अवदत् । श्लोकेऽस्मिन् सः महापुरुषाणाम् आचरणं जनसामान्येभ्यः अनुसरणीयं, प्रमाणं च परिगणयति । सः कथयति यद्, श्रेष्ठमनुष्यः यथा आचरणं करोति, तथैव अन्ये सामान्यमनुष्याः अनुसरन्ति । ते यत्किमपि प्रमाणीकुर्वन्ति, तदेव अन्येभ्यः मनुष्येभ्यः आचरणयोग्यं भवति इति ।
यद्यदाचरति श्रेष्ठः... श्रेष्ठपुरुषाणाम् आचरणमेव प्रमाणम् | |
---|---|
श्लोकसङ्ख्या | ३/२१ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | कर्मणैव हि संसिद्धिम्... |
अग्रिमश्लोकः | न मे पार्थास्ति कर्तव्यं... |
श्लोकः
सम्पादयतु- यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
- स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥
पदच्छेदः
सम्पादयतुयत् यत् आचरति श्रेष्ठः तत् तत् एव इतरः जनः सः यत् प्रमाणं कुरुते लोकः तत् अनुवर्तते ॥ २१ ॥
अन्वयः
सम्पादयतुश्रेष्ठः यत् यत् आचरति (तेन) इतरः जनः तत् तत् एव आचरति । सः यत् प्रमाणं कुरुते लोकः तत् अनुवर्तते ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
श्रेष्ठः | प्रशस्तः |
यत् यत् | यत् कर्म |
आचरति | करोति |
इतरः जनः | अन्यः पुरुषः |
तत् तत् एव | तत् कर्म एव (आचरति) |
सः | श्रेष्ठः |
यत् | यत् |
प्रमाणम् | प्रमितिसाधनम् |
कुरुते | अङ्गीकरोति |
लोकः | जनः |
तत् | तदेव प्रमितिसाधनम् |
अनुवर्तते | अनुसरति । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- यद्यदाचरति = यत् + यत् + आचरति – जश्त्वसन्धिः
- श्रेष्ठस्तत् = विसर्गसन्धिः (सकारः)
- तदेव = तत् + एव – जश्त्वसन्धिः
- एवेतरो जनः = एव + इतरः – गुणसन्धिः
- इतरः + जनः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
- स यत् = सः + यत् – विसर्गसन्धिः (लोपः)
- लोकस्तदनुवर्तते = लोकः + तदनुवर्तते – विसर्गसन्धिः (सकारः)
- तत् + अनुवर्तते – जश्त्वसन्धिः
कृदन्तः
सम्पादयतु- प्रमाणम् = प्र + मा + ल्युट् (करणे), प्रमीयते (ज्ञायते) अनेन इति प्रमाणम्
- श्रेष्ठः = प्रशस्य + इष्ठन् (अतिशये), श्र इति आदेशः
अर्थः
सम्पादयतुश्रेष्ठः पुरुषः यथा आचरति इतरे साधारणाः जनाः तथैव आचरन्ति । सः यत् प्रमाणत्वेन स्वीकरोति इतरेऽपि तदेव प्रमाणत्वेन स्वीकुर्वन्ति ।
भावार्थः
सम्पादयतु'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः' – संसारम्, आत्मानं च यः तत्त्वतः जानाति, सः श्रेष्ठपुरुषः उच्यते । अर्थात् शरीरादिपदार्थेभ्यः अहं भिन्नः इति यस्य ज्ञानं, सः पुरुषः श्रेष्ठः । तस्य कश्चन स्वाभाविकः अनुभवो भवति यद्, शरीरेन्द्रयिमनोबुद्धिधनकुटुम्बसम्पत्त्यादयः पदार्थाः संसारस्य सन्ति । ते सत्पुरुषाः त्याग-वैराग्य-प्रेम-ज्ञान-सद्गुणान् अपि स्वस्य न मन्वते । यतो हि तेन व्यक्तित्वं पुष्टं भवति, येन तत्त्वप्राप्तौ बाधा उत्पद्यते । श्रेष्ठपुरुषे व्यष्ट्यहङ्कारः तु किञ्चिदपि न भवति । तथा च समष्ट्यहङ्कारोऽपि व्यावहारं यावत् सीमितः भवति । किञ्च अङ्कारोऽपि संसारस्य एव अस्ति [१] [२] । ते श्रेष्ठपुरुषाः द्विधा विभक्ताः । प्रथमं तु अवधुकोटौ, अपरञ्च आचारकोटौ । अवधुतकोटौ विद्यमानाः श्रेष्ठाः अवधुतेभ्यः एव आदर्शाः भवन्ति । परन्तु आचार्यकोटौ अन्तर्भूताः आचार्याः जनसामान्येभ्यः आदर्शाः सिध्यन्ति । अत्र आचार्यकोटौ विद्यमानानां श्रेष्ठानां चर्चा अस्ति । तेषाम् आचरणं सर्वदा शास्त्रमर्यादायां भवति । वने विकसितं पुष्पं कोऽपि न पश्यति, कालान्तरे च तत्पुष्पं जीर्णं भूत्वा भूमौ पतति । तथापि तत् पुष्पं स्वभावानुगुणं दुर्गन्धस्य नाशं कृत्वा सुगन्धं प्रसारयति । तथैव श्रेष्ठपुरुषाणां विचारधारां कोऽपि अवगच्छति उत न, परन्तु ते स्वस्य कर्तव्यपालनपूर्वकं लोकहिताय कार्यं कुर्वन्तः एव भवन्ति । तस्मात् तैः स्वतः एव सेवाकार्यं भवति । यतो हि तेषां व्यक्तित्वात् अहङ्कारः दूर्यभवत् ।
शरीरे विद्यमानानि सर्वाणि अङ्गानि भिन्नेषु सत्सु अपि यथा एकमेव अस्ति, तथैव संसारे विद्यमानाः सर्वेऽपि प्राणिनः भिन्नेषु सत्सु अपि एकमेव अस्ति । यथा रोगमुक्तस्य शरीराङ्गस्य कारणेन सम्पूर्णं शरीरं सुखि भवति, तथैव प्राणिमात्रस्य दुःखहरणाय आचरितस्य कर्तव्यपालनस्य प्रभावेण सम्पूर्णस्य संसारस्य दुःखपरिहारः शक्यते । श्रेष्ठपुरुषाणाम् आचरणस्य प्रभावः स्थूलतया भवति, परन्तु तेषां भावानां प्रभावः सूक्ष्मतया भवति । तौ प्रभावौ क्रमेण सीमितः, असीमितश्च भवतः । यतो हि क्रिया सीमिता भवति, भावश्च असीमितः । यद्यपि श्रेष्ठपुरुषाः स्वस्मै किमपि नाचरन्ति, तेषु कर्तृत्वाभिमानमपि न भवति, तथापि सर्वेषां दृष्ट्या कर्तव्यपालनं कुर्वाणाः ते सिध्यन्ति । अत एव अत्र 'आचरति' इत्यस्य पदस्य उपयोगः कृतः । यद्यपि श्रेष्ठपुरुषाणां कृते किमपि कर्तव्यकर्म नावशिष्यते [३], तेषु कर्तृत्वाभिमानम् अपि न भवति [४], तथापि ते स्वाभाविकतया कर्तव्यपालनेन लोकसङ्ग्रहं कुर्वन्ति ।
'स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते' – यस्य अन्तःकरणे कामना-ममका-आसक्ति-स्वार्थ-पक्षपातादयः दोषाः न सन्ति, तादृशेन मनुष्येण उक्तानां वचनानां प्रभावः अपरेषु स्वतः एव भवति । तस्मात् प्रेरितः सामान्यजनः स्वतः तस्य अनुसरणम् आरभते ।
शाङ्करभाष्यम्
सम्पादयतुलोकसंग्रहं कः कर्तुमर्हति कथं चेत्युच्यते-यद्यदिति। यद्यत् कर्माचरति येषु येषु श्रेष्ठः प्रधानभूतस्तत्तदेवकर्माचरतीतरोऽन्यो जनस्तदनुगतः। किंच श्रेष्ठो यत्प्रमाणं कुरुते लौकिकं वैदिकं वा लोकस्तदनुवर्तते तदेव प्रमाणीकरोतीत्यर्थः।।21।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये यद्यदाचरति श्रेष्ठः... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च