न मे पार्थास्ति कर्तव्यं...

न मे पार्थास्ति कर्तव्यम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः लोकसङ्ग्रहपुष्टिं करोति । पूर्वस्मिन् श्लोके श्रेष्ठपुरुषाणाम् उदाहरणं दत्त्वा तेषाम् अनुसारं जनसामान्यः आचरणं करोति इति उक्त्वा अत्र भगवान् स्वस्य उदाहरणं दत्त्वा लोकसङ्ग्रस्य अत्यावश्यकत्वं बोधयति । सः कथयति यद्, हे पार्थ ! मम कृते त्रिषु लोकेषु अपि न किमपि कर्तव्यम् अस्ति, न तु किमपि अप्राप्यञ्च । तथापि अहं कर्तव्यकर्मसु रतो भवामि इति ।

न मे पार्थास्ति कर्तव्यं...


लोकसङ्ग्रहपुष्टिः
श्लोकसङ्ख्या ३/२२
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः यद्यदाचरति श्रेष्ठः...
अग्रिमश्लोकः यदि ह्यहं न वर्तेयं...
 
गीतोपदेशः
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥

पदच्छेदः

सम्पादयतु

न मे पार्थ अस्ति कर्तव्यं त्रिषु लोकेषु किञ्चन न अनवाप्तम् अवाप्तव्यं वर्ते एव च कर्मणि ॥ २२ ॥

पार्थ ! त्रिषु लोकेषु मे किञ्चन कर्तव्यं नास्ति । अनवाप्तम् अवाप्तव्यं च नास्ति । (तथापि) कर्मणि एव वर्ते ।

शब्दार्थः

सम्पादयतु
अन्वयः सरलसंस्कृतम्
पार्थ पृथानन्दन !
त्रिषु लोकेषु त्रिषु भुवनेषु
मे मम
किञ्चन किमपि
कर्तव्यम् कर्म
नास्ति न विद्यते
अनवाप्तम् अलब्धम्
अवाप्तव्यम् लब्धव्यम्
नास्ति न वर्तते
कर्मणि एव केवलकर्मणि
वर्ते तिामि ।

व्याकरणम्

सम्पादयतु
  1. पार्थास्ति = पार्थ + अस्ति – सवर्णदीर्घसन्धिः
  2. नानवाप्तव्यम् = न + अनवाप्तव्यम् – सवर्णदीर्घसन्धिः
  3. वर्त एव = वर्त + एव – अयादेशः, यकारलोपः प्रकृतिभावश्च
  1. अनवाप्तव्यम् = न अवाप्तव्यम् - नञ्तत्पुरुषः

कृदन्तः

सम्पादयतु
  1. कर्तव्यम् = कृ + तव्यत् (कर्मणि)
  2. अवाप्तम् = अव + आप् + क्त (कर्मणि)
  3. आप्तव्यम् = आप् + तव्यत् (कर्मणि)

अर्जुन ! त्रिभुवनेषु मम किमपि कर्म नास्ति । अप्राप्तं प्राप्तव्यम् अपि नास्ति । तथापि अहं कर्मणि प्रवृत्तोऽस्मि ।

भावार्थः

सम्पादयतु

'न मे पार्थास्ति... नानवाप्तमवाप्तव्यम्' – भगवान् न कस्मिँश्चित् एकस्मिन् लोके सीमितः भवति । अतः सः त्रिषु लोकेषु स्वस्य कर्तव्याभावं वदति । किञ्च तस्य कृते किमपि प्राप्तव्यं नास्ति । मनुष्यादयः किमपि प्राप्तुमेव कर्म कुर्वन्ति । भगवान् उपर्युक्तेषु पदेषु अतीव विलक्षणं विषयम् उपस्थापयति यत्, यद्यपि मह्यं किमपि प्राप्तव्यं नास्ति, तथापि अहं कर्म कुर्वन्नस्मि इति । भगवान् लोकहिताय एव अवतारं स्वीकृत्य साधूनाम् उद्धारं, पापीनां च विनाशं कृत्वा धर्मस्थापनां करोति [] । अवतारकार्यं विहाय भगवतः सृष्टिरचनादीनि कार्याणि अपि जीवोद्धाराय एव भवन्ति । सर्वलोकः पुण्यकर्मणः उपभोगाय अस्ति । चतुराशीतिः योनयः, नरकं च पापकर्मणां फलभोगाय सन्ति । मनुष्ययोनिः पुण्यपापेभ्यः परा स्वकल्याणसाधनस्य साधनम् अस्ति । मनुष्य पापपुण्येभ्यः परः तदैव भवितुं शक्नोति, यदा सः त्रयाणां शरीराणां सर्वाणि कार्याणि संसाराय कुर्यात् । अर्थात् स्थूलशरीरेण जायमाना क्रिया, सूक्ष्मशरीरेण जायमानं चिन्तनं, कारणशरीरेण उद्भूता स्थिरता च अन्येषां हिताय एव भवेयुः, न तु स्वस्य कृते । यतो हि तानि शरीराणि अपि संसारस्य एव सन्ति ।

वस्तुतः मनुष्यस्य कृते अपि किमपि कर्तव्यं न भवति । परन्तु एतस्य गभीरं ज्ञानम् अपेक्ष्यते । तेभ्यः मनुष्येभ्यः कर्तव्यस्य आवश्यकता न भवति, ये सर्वदा अन्येभ्यः कार्यं कुर्वन्ति । ते जानन्ति यद्, परमात्मतत्त्वं नित्यप्राप्यम् अस्ति । तस्य स्वरूपम् अपि नित्यम् अस्ति । प्रत्युत कर्म, तत्फलञ्च अनित्यम् अस्ति । अनित्यस्य नित्येन सह कोऽपि सम्बन्धः अस्थाने एव इति । यदि मनुष्येभ्यः अपि कर्तव्यकर्मणः प्रावधानं नास्ति, तर्हि ईश्वरस्य कृते तु कथं स्यात् ? अत एव भगवान् श्रेष्ठपुरुषेभ्यः अपि कर्तव्यकर्मणः अभावं कथयति । भगवान् तु श्रेष्ठपुरुषैः सह स्वस्य एकताम् अपि प्रदर्शयति [] । यथा भगवान् त्रिषु लोकेषु आदर्शपुरुषः अस्ति [], तथैव संसारे तत्त्वज्ञः पुरुषः आदर्शः भवति []

'वर्त एव त कर्मणि' – अत्र 'एव' पदेन भगवतः तात्पर्यम् अस्ति यद्, अहम् उत्साहेन, तत्परतया, अलसरहितेन च सावधानो भूत्वा साङ्गोपाङ्गं कर्तव्यकर्माणि करोमि । नाहं कर्मणां त्यागं करोमि, न च उपेक्षाम् इति । भगवान् सदैव कर्तव्यपरायणः भवति, सः कदापि स्वकर्तव्याच्च्युतो न भवति । अतः भगवत्परायणेन साधकेनापि कदापि कर्तव्यकर्मणः त्यागः न करणीयः । कर्तव्यच्युतः साधक एव भगवत्तत्त्वस्य अनुभवाद् विमुखो भवति । प्रतिक्षणं कर्तव्यपरायणः साधकः सर्वदा भगवत्तत्त्वानुभवे रतः भवति ।

शाङ्करभाष्यम्

सम्पादयतु

यद्यत्रते लोकसंग्रहकर्तव्यतायां विप्रतिपत्तिस्तर्हि मां किं न पश्यसि-न मे इति। न मे मम पार्थ, नास्ति न विद्यते कर्तवेयं त्रिष्वपिलोकेषु किंचिन किंचिदपि।कस्मान्नानवाप्तमप्राप्तमवाप्तव्यं प्रापणीयं तथापि वर्त एव च कर्मण्यहम्।।22।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
यद्यदाचरति श्रेष्ठः...
न मे पार्थास्ति कर्तव्यं... अग्रिमः
यदि ह्यहं न वर्तेयं...
 
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु
  1. गीता, अ. ४, श्लो. ८
  2. मम साधर्म्यमागताः, गीता, अ. १४, श्लो. २
  3. गीता, अ. ३, श्लो. २३
  4. गीता, अ. ३, श्लो. २५

अधिकवाचनाय

सम्पादयतु