कर्म ब्रह्मोद्भवं विद्धि...

कर्म ब्रह्मोद्भवं विद्धि () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सृष्टिचक्रम् अग्रे वदति । पूर्वस्मिन् श्लोके सृष्टिचक्रस्य कृते कर्तव्यपालनस्य आवश्यकतां वर्णयन् भगवान् सृष्टिचक्रस्य आरम्भम् अकरोत् । अत्र तस्य आरम्भस्यानगुणं सृष्टिचक्रस्य विषये अग्रे वदति । सः कथयति यद्, कर्मसमुदायः वेदेभ्यः उत्पन्नः, वेदश्च अविनाशिनः परमात्मनः उत्पन्नः इति जानातु । सर्वव्यापी परमात्मा सर्वदा यज्ञे (कर्तव्यपालने) प्रतिष्ठितः इति अनेन सिद्ध्यति इति ।

कर्म ब्रह्मोद्भवं विद्धि...


सृष्टिचक्रस्य वर्णनम्
श्लोकसङ्ख्या ३/१५
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः अन्नाद्भवन्ति भूतानि...
अग्रिमश्लोकः एवं प्रवर्तितं चक्रं...
 
गीतोपदेशः
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥

पदच्छेदः

सम्पादयतु

कर्म ब्रह्मोद्भवं विद्धि ब्रह्म अक्षरसमुद्भवम् तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥

कर्म ब्रह्मोद्भवं विद्धि । ब्रह्म अक्षरसमुद्भवं विद्धि । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ।

शब्दार्थः

सम्पादयतु
अन्वयः सरलसंस्कृतम्
कर्म यागदिकं कर्म
ब्रह्मोद्भवम् वेदसमुद्भवम्
विद्धि जानीहि
ब्रह्म वेदः
अक्षरसमुद्भवम् परमात्मसमुद्भवः (इति विद्धि)
तस्मात् अतः
सर्वगतम् सर्वव्यापी
ब्रह्म परमात्मा
नित्यम् सदा
यज्ञे यागे
प्रतिष्ठितम् स्थिरतया स्थितः ।

व्याकरणम्

सम्पादयतु
  1. ब्रह्माक्षरसमुद्भवम् = ब्रह्म + अक्षरसमुद्भवम् – सवर्णदीर्घसन्धिः
  1. ब्रह्मोद्भवम् = ब्रह्मणः उद्भवम् – पञ्चमीतत्पुरुषः
  2. अक्षरसमुद्भवम् = अक्षरात् समुद्भवम् - पञ्चमीतत्पुरुषः

कृदन्तः

सम्पादयतु
  1. गतम् = गम् + क्त (कर्तरि)
  2. उद्भवम् = उद् + भू + अच् (कर्तरि), उद्भवतीति उद्भवम् ।

कर्म वेदात् उत्पन्नम् । वेदश्च परमात्मनाः उत्पन्नोऽस्ति । अतः सर्वव्यापी भगवान् यज्ञे सदा तिति ।

भावार्थः

सम्पादयतु

'कर्म ब्रह्मोद्भवं विद्धि' – कर्तव्यकर्मणाम् आचरणस्य उपदेशं वेदाः यच्छन्ति [] । मनुष्याः कर्तव्यकर्माचरणस्य ज्ञानं वेदेभ्यः एव प्राप्तवन्तः, अत एव वेदाः कर्मणाम् उत्पत्तिस्थानं मन्यते । 'वेदः' इत्यस्मिन् शब्दे न केवलं चत्वारः वेदाः (ऋग्यजुसामाथर्वाः) अन्तर्भवन्ति, अपि तु स्मृति-पुराण-इतिहास-आचर्योपदेशादयः सर्वेऽपि वेदानुकूलोपदेशाः अन्तर्भवन्ति ।

'ब्रह्माक्षरसमुद्भवम्' – अत्र 'ब्रह्म' इत्यनेन पदेन वेदः स्वीक्रियत् । वेदाः सच्चिदानन्दधनेन परमात्मना एव उत्पादिताः [] । एवं परमात्मा एव सर्वेषां मूलम् । परमात्मना वेदाः निष्पन्नाः । वेदाः कर्तव्यपालनस्य विधिं प्रदर्शयन्ति । मनुष्यः तस्य कर्तव्यस्य विधिपूर्वकं पालनं करोति । कर्तव्यकर्मणां पालनेन यज्ञः भवति । यज्ञात् वर्षाः भवन्ति । वर्षाभ्यः अन्नं जायते । अन्नेन प्राणिनः उत्पद्यन्ते । तेषु प्राणिषु मनुष्यः कर्तव्यपालनाय कर्म करोति । एवं सृष्टिचक्रं चलति । 'तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्' – अत्र 'ब्रह्म' इत्यस्य पदस्य अक्षरवाचकत्वं ज्ञेयम् । अर्थात् सगुणनिराकरः परमात्मा इति । अतः सर्वगतः (सर्वव्यापी) परमात्मा अस्ति, न तु वेदाः । सर्वव्यापित्वाद् अपि परमात्मा विशेषरूपेण 'यज्ञे' कर्तव्यपालने सर्वादा विद्यमानः भवति । तात्पर्यम् अस्ति यद्, यत्र निष्कामभावेन कर्तव्यपालनं भवति, तत्र ईश्वरः निवसति । अतः परमात्मप्राप्तेः इच्छुकाः स्वकर्तव्यपालनेन एव परमात्मप्राप्तिं सहजतया कर्तुं प्रभवन्ति []

अत्र शङ्का भवति यद्, परमात्मा यदि सर्वव्यापी अस्ति, तर्हि सः यज्ञे नित्यप्रतिष्ठितः इति किमर्थम् उक्तम् ? किं सः अन्येषु स्थानेषु नास्ति ? अस्य समाधानम् अस्ति यद्, परमात्मा तु सर्वत्र अस्ति, सः अनित्यः, एकदेशीयः च न । अतः परमात्मनः कृते 'सर्वगतः' इत्यस्य उपयोगः अत्र अभवत् । यज्ञे (कर्तव्यकर्मणि) नित्यप्रतिष्ठितः इत्यस्य तात्पर्यम् अस्ति यद्, यज्ञे सः उपलब्धः अस्ति इति । पृथिव्यां सर्वत्र जले सत्यपि कूपादिषु एव जलं प्राप्यते । तथैव सर्वगतः परमात्मा अपि यज्ञेन एव प्राप्यः अस्ति । स्वस्य कृते कर्मणि कृते तथा च जडपदार्थैः सह स्वस्मबन्दः आरोपिते सति सर्वव्यापिनः परमात्मनः प्राप्तौ विघ्नम् उत्पद्यते । निष्कामभावपूर्वकं कर्तव्यपालनं क्रियते चेत्, विघ्नं दूरीभवति । ततः नित्यप्राप्तस्य परमात्मनः स्वतः एव अनुभवः जायते । अत एव कर्तव्यपालनात् विमुखो भवितुं तत्पराय अर्जुनाय भगवान् विभिन्नप्रकारेण कर्तव्यपालनाया विशेषाग्रहं करोति ।

शाङ्करभाष्यम्

सम्पादयतु

तच्च कर्मेति। कर्म ब्रह्मोद्भवं ब्रह्म वेदः स उद्भवः कारणं यस्य तत् कर्म ब्रह्मोद्भवं विद्धि जानीहि। ब्रह्म पुनर्वेदाख्यमक्षरसमुद्भवम्। अक्षरं ब्रह्म परमात्मासमुद्भवो यस्य तदक्षरसमुद्भवं ब्रह्म वेदइत्यर्थः।यस्मात्साक्षात्परमात्माख्यादक्षरात्पुरुषनिःश्वासवत् समुद्भुतं ब्रह्म तस्मात्सर्वार्थप्रकाशकत्वात्सर्वगतम्। सर्वगतमपि सन्नित्यं सदा यज्ञविधिप्रधानत्वाद्यज्ञे प्रतिष्ठितम्।।15।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
अन्नाद्भवन्ति भूतानि...
कर्म ब्रह्मोद्भवं विद्धि... अग्रिमः
एवं प्रवर्तितं चक्रं...
 
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु
  1. गीता, अ. ४ , श्लो. ३२
  2. गीता, अ. १७ , श्लो. २३
  3. स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः, गीता, अ. १८ , श्लो. ४६

अधिकवाचनाय

सम्पादयतु