व्यामिश्रेणेव वाक्येन...
व्यामिश्रेणेव वाक्येन ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः स्वमोहितबुद्धिविषये चिन्तां प्रदर्शयति । पूर्वस्मिन् श्लोके अर्जुनः ज्ञानकर्मणोः मध्ये किं श्रेष्ठम् इति पृष्ट्वा अत्र श्रीकृष्णं स्पष्टं मार्गं प्रदर्शयितुं निवेदयति । सः कथयति यद्, मिश्रवचनैः मे बुद्धिः मोहयुक्तेव अस्ति । अतः तत् निश्चयेन कथयतु, येनाहं कल्याणं प्राप्तुं शक्नुयामेति ।
व्यामिश्रेणेव वाक्येन... कल्याणमार्गं दर्शयितुं प्रार्थना | |
---|---|
श्लोकसङ्ख्या | ३/२ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | ज्यायसी चेत्कर्मणस्ते... |
अग्रिमश्लोकः | लोकेऽस्मिन् द्विविधा निष्ठा... |
श्लोकः
सम्पादयतु- व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
- तदेकं वद निश्चत्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥
पदच्छेदः
सम्पादयतुव्यामिश्रेण इव वाक्येन बुद्धिं मोहयसि इव मे तत् एकं वद निश्चत्य येन श्रेयः अहम् आप्नुयाम् ॥ २ ॥
अन्वयः
सम्पादयतुव्यामिश्रेण इव वाक्येन मे बुद्धिं मोहयसि इव । तद् येन अहं श्रेयः आप्नुयाम् (तादृशम्) एकं निश्चित्य वद ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
व्यामिश्रेण इव | सीर्णेन इव |
वाक्येन | वचनेन |
मे | मम |
बुद्धिम् | मतिम् |
मोहयसि | भ्रामयसि |
तत् | तस्मात् |
एकम् | तादृशं प्रमुखम् (मार्गम्) |
निश्चित्य | निर्धार्य |
वद | कथय |
येन अहम् | येन अहम् |
श्रेयः | अतिशयेन प्रशस्तम् |
आप्नुयाम् | प्राप्नुयाम् । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- मोहयसीव = मोहयसि + इव – सवर्णदीर्घसन्धिः
- तदेकम् = तत् + एकम् – जश्त्वसन्धिः
- श्रेयोऽहम् = श्रेयः + अहम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
कृदन्तः
सम्पादयतु- निश्चित्य = निस् + चि + ल्यप्
तद्धितान्तः
सम्पादयतु- श्रेयः = प्रशस्य + ईयसुन् (अतिशये) । (श्र इति आदेशः)
अर्थः
सम्पादयतुहे कृष्ण ! ज्ञानस्य श्रेष्ठत्वेन कर्मणश्च कर्तव्यत्वेन उपदिशन् मां भ्रामयन् असि । अतः येन अहं श्रेयः प्राप्नुयां तन्निश्चित्य वद ।
भावार्थः
सम्पादयतु'व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे' – त्वं कर्म कुरु इति कदाचित् कथयति । कदाचित् ज्ञानाश्रयं स्वीकर्तुं कथयति । भवतः अनेन मिश्रवचनेन मम बुद्धिः मोहिता भवन्ती अस्ति । अर्थाद् अहं स्पष्टतया अवगन्तुं न शक्नोमि यद्, मया कर्म करणीयम् उत ज्ञानशरणं स्वीकरणीयम् इति । अत्र इव इत्यस्य पदस्य वारद्वयम् उपयोगे कृते अर्जुनस्य श्रीकृष्णं प्रति श्रद्धा प्रत्यक्षा भवति । श्रद्धात्वादेव अर्जुनः भगवतः वचनेषु विश्वसति । सः अपि अवगच्छति यद्, भगवान मम बुद्धिं न मोहयति, अपि तु अहं स्वयं भगवतः वचनानि मिश्रवत् पश्यामि । सः मम बुद्धिं न मोहयति इति ।
'तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्' – मम कल्याणं ज्ञानेन उत कर्मणा भविष्यति इत्येतयोः एकं वदतु, यस्मिन् मे कल्याणं भवेत् । अर्जुनः पूर्वमपि स्वकल्याणस्य इच्छां कुर्वन् अवदत्,[१] अत्रापि तदेव वदति ।
शाङ्करभाष्यम्
सम्पादयतुव्यामिश्रेणेव, यद्यपि विविक्ताभिधायी भगवान्, तथापि मम मन्दबुद्धेः व्यामिश्रमिव भगवद्वाक्यं प्रतिभाति । तेन मम बुद्धिं मोहयसि इव, मम बुद्धिव्यामोहापनयाय हि प्रवृत्तः त्वं तु कथं मोहयसि ? अतः ब्रवीमि बुद्धिं मोहयसि इव मे मम इति । त्वं तु भिन्नकर्तृकयोः ज्ञानकर्मणोः एकपुरुषानुष्ठानासम्भवं यदि मन्यसे, तत्रैवं सति तत् तयोः एकं बुद्धिं कर्म वा इदमेव अर्जुनस्य योग्यं बुद्धिशक्त्यवस्थानुरूपमिति निश्चित्य वद ब्रूहि, येन ज्ञानेन कर्मणा वा अन्यतरेण श्रेयः अहम् आप्नुयां प्राप्नुयाम् ; इति यदुक्तं तदपि नोपपद्यते ॥ यदि हि कर्मिष्ठायां गुणभूतमपि ज्ञानं भगवता उक्तं स्यात्, तत् कथं तयोः ‘एकं वद’ इति एकविषयैव अर्जुनस्य शुश्रूषा स्यात् । न हि भगवता पूर्वमुक्तम् ‘अन्यतरदेव ज्ञानकर्मणोः वक्ष्यामि,नैव द्वयम्’ इति, येन उभयप्राप्त्यसम्भवम् आत्मनो मन्य मानः एकमेव प्रार्थयेत् ॥
भाष्यार्थः
सम्पादयतुतथा च – यद्यपि भगवान् स्पष्टवक्ता अस्ति, तथापि मां मन्दबुद्धिं भगवतः वाक्यानि मिश्रभावयुक्तानि प्रतीयन्ते । तैः मिश्रवचनैः मे बुद्धिः मोहिता इति अनुभवामि (अहम् अर्जुनः) । वस्तुतः भवान् तु मे बुद्धेः मोहं दूरीकर्तुं प्रवृत्तः अस्ति । तर्हि भवान् मे बुद्धिं कथं मोहितं कर्तुं शक्नुयात् ! अतः कथयामि यद्, भवान् मम बुद्धिं मोहितवत् करोति इति । भवान् यदि भिन्नैः अधिकारिभिः क्रियमाणस्य ज्ञानकर्मणोः अनुष्ठानस्य एकेन पुरुषेण औचित्यं स्वीकरोति, तर्हि तयोः ज्ञानकर्मणोः कस्यचित् एकस्य निश्चयं कृत्वा मां कथयतु, येनाहं मे कल्याणं साधयितुं शक्नोमि । अर्थात् भवान् एव चिन्तयतु यद्, मम (अर्जुनस्य) बुद्ध्यानुरूपं, शक्त्यानुरूपम्, अवस्थानुरूपं च ज्ञानम् उचितम् उत कर्म इति ।
यदि कर्मनिष्ठायां गौणरूपेणापि ज्ञानविषये भगवान् अवदिष्यत्, तर्हि 'उभयोः एकं कथयतु' इत्येवम् एकस्य विषये श्रोतुम् अर्जुनस्य इच्छा भवेत् ? यतो हि ज्ञानकर्मणोः अहं त्वम् एकमेव कथयिष्यामि, न तु उभौ इति तु भगवान् क्वापि नावदत् । एवम् अर्जुनस्य मनसि उभयोः प्राप्तिः असम्भवः इति विश्वासः आसीत्, अतः एकस्य विषये एव श्रोतुं सः अप्रार्थयत् ।
रामानुजभाष्यम्
सम्पादयतुअतो व्यामिश्रवाक्येन मां मोहयसि इव इति मे प्रतिभाति तथा हि आत्मावलोकनसाधनभूतायाः सर्वेन्द्रियव्यापारोपरतिरूपाया ज्ञाननिष्ठायाः तद्विपर्ययरूपं कर्म साधनं तद् एव कुरु इति वाक्यं विरुद्धं व्यामिश्रम् एव तस्माद् एकम् अमिश्ररूपं वाक्यं वद येन वाक्येन अहम् अनुष्ठेयरूपं निश्चित्य आत्मनः श्रेयःप्राप्नुयाम्।
भाष्यार्थः
सम्पादयतुएतादृशैः मिश्रैः वचनैः भवान् मां मोहयति इति प्रतीयते । यतो हि समस्तेभ्यः इन्द्रियव्यापारेभ्यः उपरतिः एव आत्मसाक्षात्मकारस्य साधनभूतायाः ज्ञाननिष्ठायाः स्वरूपम् अस्ति । परन्तु भवान् तस्मात् विपरीतं कर्म एव साधनत्वेन प्रदर्शयन् "कर्म कुरु" इति आज्ञापयति । भवतः एतत्कथनं परस्परं विरुद्धं, व्यामिश्रं च अस्ति । अतः भवान् एकप्रकारकस्य स्पष्टं वचनं वदतु, येन अहं साधनस्य स्वरूपं निश्चत्य आत्मकल्याणं प्राप्नुयाम् ।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये व्यामिश्रेणेव वाक्येन... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतु- ↑ यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे, अ. २, श्लो. ७
अधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च