यदि ह्यहं न वर्तेयं...
यदि ह्यहं न वर्तेयम् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः स्वस्य अकर्मणः हानिं वदति । पूर्वस्मिन् श्लोके भगवान् स्वस्य कर्मरतायाः कारणेन कः लाभः इति उक्त्वा अत्र स्वस्य अकर्मण्यतायाः कारणेन के दोषाः समुद्भवितुम् अर्हन्ति इति कथयति । सः उपस्थापयति यद्, किञ्च (अग्रिमेन श्लोकेन सह सम्बन्धः अस्ति) हे पार्थ ! यदि कदाचित् अहं सावधानतया कर्मसु युक्तः न भवामि, तर्हि महती हानिः भविष्यति । यतो हि मनुष्याः तु ममाश्रितं मार्गम् एव अनुसरन्ति इति ।
यदि ह्यहं न वर्तेयं... ईश्वरस्य अकर्मणा का हानिः ? | |
---|---|
श्लोकसङ्ख्या | ३/२३ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | न मे पार्थास्ति कर्तव्यं... |
अग्रिमश्लोकः | उत्सीदेयुरिमे लोका... |
श्लोकः
सम्पादयतु- यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
- मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥
पदच्छेदः
सम्पादयतुयदि हि अहं न वर्तेयं जातु कर्मणि अतन्द्रितः मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥
अन्वयः
सम्पादयतुपार्थ ! यदि अहं कर्मणि जातु अतन्द्रितः न वर्तेयम् । (तर्हि) सर्वशः मनुष्याः मम वर्त्म अनुवर्तन्ते ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
यदि | चेत् |
अहम् | अहम् |
जातु | कदापि |
कर्मणि | कर्तव्ये |
अतन्द्रितः | अप्रमत्तः (जागरूकः) |
न वर्तेयम् | न भवेयम् |
तर्हि | तस्मिन् पक्षे |
सर्वशः | सर्वे |
मनुष्याः | मानवाः |
मम | मे |
वर्त्म | मार्गम् |
अनुवर्तन्ते | अनुसरन्ति । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- ह्यहम् = हि + अहम् – यण्सन्धिः
- कर्मण्यतन्द्रितः = कर्मणि + अतन्द्रितः – यण्सन्धिः
- वर्त्मानुवर्तन्ते = वर्त्म + अनुवर्तन्ते - सवर्णदीर्घसन्धिः
समासः
सम्पादयतु- अतन्द्रितः = न तन्द्रितः - नञ्तत्पुरुषः
कृदन्तः
सम्पादयतु- तन्द्रितः = तन्द्रा + इतच् (तन्द्रा जाड्यम् अस्य सञ्जाता)
तद्धितान्तः
सम्पादयतु- सर्वशः = सर्व + शस् (स्वार्थे)
अर्थः
सम्पादयतुहे पार्थ ! यदि अहं कर्म न करोमि तर्हि सर्वेऽपि जनाः मम मार्गमेव अनुसरेयुः । एतेन महती हानिः सम्भवति ।
भावार्थः
सम्पादयतु'यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः' – पूर्वस्मिन् श्लोके उपयुक्तानां 'वर्त एव च कर्मणि' इत्येतेषां पदानां पुष्ट्यै अत्र 'हि' इत्यस्य पदस्य उपयोगः । तेन भगवान् वदति यद्, अहं सावधानो भूत्वा कर्म न करोमि इति तु असम्भवम् एव । तथापि 'यदि अहं तथा न करोमि इति मन्यामः' इत्यस्य अर्थस्य कृते एव अत्र 'यदि जातु' इत्यस्य पदस्य उपयोगः । 'अतन्द्रितः' इत्यस्य पदस्य तात्पर्यं भवति यद्, कर्तव्यकर्मणि आलस्यम्, प्रमादश्च न कर्तव्यः । प्रत्युत कर्तव्यकर्माणि सावधानतया करणीयानि । यः मनुष्यः तथा न करोति, सः स्वस्य जीवनं नाशयति । कर्तव्यकर्मणि तत्परता एव कर्मभ्यः सम्बन्धविच्छेदं कारयति । अत एव एकोनविंशे श्लोके 'समाचर' इत्यस्य पदस्य उपयोगः कृतः, तथा च श्लोकेऽस्मिन् 'अतन्द्रितः' इत्यस्य पदस्य । यदि कस्यचित् कर्मणः पौनःपुन्येन स्मरणं भवति, तर्हि बोध्यं यद्, तस्य कर्मणः क्रियान्वये काचित् त्रुटिः अस्ति इति । त्रुटिः इत्युक्ते कामना, आसक्तिः, अपूर्णता, आलस्यम्, उपेक्षा इत्यादयः । तस्याः त्रुटेः कारणेन कर्मणः सम्बन्धविच्छेदः भवति । कर्मभ्यः सम्बन्धस्य विच्छेदाभावदेव कृतानि कर्माणि पौनःपुन्येन स्मर्यन्ते ।
'मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः' – एतैः पदैः भगवान् कथयति यद्, मम मार्गानुसरणं कर्तारः एव वस्तुतः मनुष्याः भवन्तीति । ये मे आदर्शत्वेन अनुसरणम् अकृत्वा प्रमादवशाः, अलसाः सन्ति, ते आकृत्या तु मनुष्याः सन्ति, परन्तु वस्तुतः मनुष्ययोग्याः न इति । एतस्य अध्यायस्य एकविंशे श्लोके एव भगवान् अवदत् यद्, श्रेष्ठपुरुषाणाम् आचरण-प्रमाणानुसारुं जनसामान्याः तेषाम् अनुसरणं कुर्वन्ति इति । अत्र श्लोकेऽस्मिन् भगवान् मनुष्यसामान्यस्य कृते स्वमार्गानुसरणं सङ्केतयति । तात्पर्यं भवति यद्, ते श्रेष्ठाः पुरुषाः तु एकस्य लोकस्य कृते एव आदर्शभूताः भवन्ति, परन्तु अहं त्रिभ्यः लोकेभ्यः आदर्शोऽस्मीति ।
शाङ्करभाष्यम्
सम्पादयतुयदि हि पुनरहं न वर्तेयं जातु कदाचित्कर्मण्यतन्द्रितोऽनलसः सन् मम श्रेष्ठस्य सतो वर्त्म मार्गमनुवर्तन्ते मनुष्याः हे पार्थ, सर्वशः सर्वप्रकारैः।।23।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये यदि ह्यहं न वर्तेयं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च