कर्मेन्द्रियाणि संयम्य...
कर्मेन्द्रियाणि संयम्य ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्मेन्द्रियाणां निग्रहिणः मिथ्याचारिणः भवन्ति इति बोधति । पूर्वस्मिन् श्लोके कोऽपि मनुष्यः निष्क्रियः न स्थातुं शक्नोति, इति उक्तं परन्तु कश्चन मनुष्यः बलपूर्वकम् इन्द्रियाणां क्रियायाणां दमनं कृत्वा निष्क्रियोऽयम् इति चिन्तयितुं शक्नोति अतः अत्र भवान् समाधानं करोति । सः समाधायति यद्, यः सर्वेषाम् इन्द्रियाणां बलपूर्वकं निग्रहं करोति, परन्तु मनसा इन्द्रियविषयाणां चिन्तनं कुर्वन् भवति, सः मूढबुद्धिः मनुष्यः मिथ्याचारी उच्यते इति ।
कर्मेन्द्रियाणि संयम्य... कर्मेन्द्रियाणां निग्रहः मिथ्याचारः | |
---|---|
श्लोकसङ्ख्या | ३/६ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | न हि कश्चित्क्षणमपि... |
अग्रिमश्लोकः | यस्त्विन्द्रियाणि मनसा... |
श्लोकः
सम्पादयतु- कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
- इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ६ ॥
पदच्छेदः
सम्पादयतुकर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥ ६ ॥
अन्वयः
सम्पादयतुयः विमूढात्मा कर्मेन्द्रियाणि संयम्य इन्द्रियार्थान् मनसा स्मरन् आस्ते सः मिथ्याचारः उच्यते ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
यः विमूढात्मा | यः अविवेकी पुरुषः |
कर्मेन्द्रियाणि | वाक्-पाणि-पाद-पायु-उपस्थान् |
संयम्य | निरुध्य |
मनसा | चित्तेन |
इन्द्रियार्थान् | विषयान् |
स्मरन् | चिन्तयन् |
आस्ते | वर्तते |
सः | सः पुरुषः |
मिथ्याचारः | दम्भी |
उच्यते | कथ्यते । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- य आस्ते = यः + आस्ते – विसर्गसन्धिः (लोपः)
- स उच्यते = सः + उच्यते - विसर्गसन्धिः (लोपः)
समासः
सम्पादयतु- कर्मेन्द्रियाणि = कर्मणः इन्द्रियाणि – षष्ठीतत्पुरुषः
- इन्द्रियार्थान् = इन्द्रियाणाम् अर्थाः, तान् – षष्ठीतत्पुरुषः
- विमूढात्मा = विमूढः आत्मा यस्य सः – बहुव्रीहिः
- मिथ्याचारः ¬= मिथ्या आचारः यस्य सः – बहुव्रीहिः
कृदन्तः
सम्पादयतु- संयम्य = सम् + यम् + ल्यप्
- स्मरन् = स्मृ + शतृ (कर्तरि)
- विमूढः = वि + मुह् + क्त (कर्तरि)
अर्थः
सम्पादयतुयः अविवेकी पुरुषः इन्द्रियाणि निरुध्य चित्तेन विषयान् चिन्तयन् भवति सः पुरुषः कपटाचारः इति कथ्यते ।
भावार्थः
सम्पादयतु'कर्मेन्द्रियाणि संयम्य...मिथ्याचरः स उच्यते' – अत्र 'कर्मेन्द्रियाणि' इत्यस्य पदस्य पञ्चकर्मेन्द्रियाणि इत्येव अभिप्रायः नास्ति, अपि तु पञ्च ज्ञानेन्द्रियाणि अपि अन्तर्भवन्ति । कर्मेन्द्रियाणि अर्थात्, वाणी, हस्तौ, पादौ, उपस्थः, गुदा इति । ज्ञानेन्द्रियाणि अर्थाद् श्रोतं, त्वक्, नेत्रे, रसः, घ्राणश्च । यतो हि ज्ञानेन्द्रियैः विना कर्मेन्द्रियाणि कर्म न कुर्वन्ति, अतः एवं स्वीकर्तव्यम् । तथैव हस्तादीनां कर्मेन्द्रियाणां निग्रहे कृते सत्यपि नेत्रादीनां स्वच्छन्दतायां सत्यां मिथ्याचारः सिद्ध्यति । अतः गीतायां कर्मेन्द्रियस्य उल्लेखे कृते ज्ञानेन्द्रियाणि अपि अन्तर्भवन्ति । एवं गीतायां सर्वत्र कमेन्द्रियेति शब्दः सर्वत्र प्राप्यते परन्तु ज्ञानेन्द्रियम् इति कुत्रापि नास्ति । अतः गीतायां ज्ञानेन्द्रियम् अपि कर्मेन्द्रियत्वेन एव स्वीकृतम् [१] । तात्पर्यम् अस्ति यद्, प्रकृतिमात्रं क्रियाशीलम् अतः प्रकृत्याः कार्यमात्रम् अपि क्रियाशीलम् इति ।
'संयम्य' इत्यस्य पदस्य अर्थः सम्यग्रीत्या इन्द्रियाणां नियमनम् इति । अर्थात् इन्द्रियवशीकरणम् इति । यद्यपि इन्द्रियवशीकरणम् इति अर्थः भवति, परन्तु तथा अस्वीकृत्य बलपूर्वकम् इन्द्रियाणां बाह्यनिग्रहः एव अर्थः ग्राह्यः । यतो हि इन्द्रियवशीकरणम् इति न मिथ्याचारः । मूढमनस्कः मनुष्यः यस्मिन् सदसतोः विवेकः नास्ति, सः इन्द्रियाणां बाह्यक्रियाः बलपूर्वकं निग्रहति । परन्तु मनसा सः तेषाम् इन्द्रियविषयान् चिन्तयति । यतो हि बाह्यक्रियाः न जायन्ते, अतः सः तां स्थितिम् एव क्रियारहितत्वं स्वीकरोति । अतः सः मिथ्याचारी इति उक्तः । वस्तुतः तस्य बाह्या निष्क्रियता अस्ति, सूक्ष्मा सक्रियता तु अस्त्येव । अर्थात् अहन्ता-ममता-आसक्त्यादीनां कारणेन रागपूर्वकं विषयचिन्तनं कुर्वन् विषयभोगस्तु अस्त्येव । सांसारिकभोगानाम् उपभोगः बाह्यक्रियया अपि भवति, अन्तःक्रियया अपि च । बाह्यक्रियया रागपूर्वकं येषां भोगानाम् उपभोगे अन्तःकरणे प्रभावः भवति, तादृशः प्रभावः एव मनसः रागपूर्वकं विषयोपभोगेन भवति । बाह्यानां भोगानां त्यागस्तु लोकलज्जया, भयात् उत अन्यकारणेन अपि भवितुम् अर्हति । परन्तु सः तं भोगं मनसा तु उपभुनक्ति एव ।
अर्जुनोऽपि कर्मणः स्वरूपात् त्यागं कर्तुम् इच्छति । अतः सः भगवन्तं पृच्छति यद्, भवान् किमर्थं मां घोरकर्मणि पातयति ? इति । तस्य प्रश्नस्य उत्तरत्वेन भगवान् कथयति यद्, मनुष्यः अहन्ता-ममता-आसक्त्यादीनां त्यागम् अकृत्वा कर्माणि त्यक्त्वा अहं क्रियारहितः इति वदति, सः मिथ्याचारी इति । तात्पर्यम् अस्ति यद्, साधकेन कर्मणां स्वरूपेण त्यागः न करणीयः, अपि तु कामनादिरहितत्वेन तत्परतापूर्वकं कर्तव्यकर्म करणीयम् इति ।
शाङ्करभाष्यम्
सम्पादयतुयस्त्वनात्मज्ञश्चोदितं कर्म नारभत इति तदसदेवेत्याह-कर्मेन्द्रियाणीति। कर्मेन्द्रियाणि हस्तादिनि संयम्य संहृत्य य आस्ते तिष्ठति मनसा स्मरंश्चिन्तयन्निन्द्रियार्थान्विषयान्विमूढात्मा विमूढान्तःकरणॊ मिथ्याचारो मृषाचारः पापाचारः स उच्यते।। ६ ।।
भाष्यार्थः
सम्पादयतुयः आत्मज्ञानी नास्ति, तथापि शास्त्रविहितानि कर्माणि न करोति, तस्य तत् अकर्मता अयोग्या इति वदति – यः मनुष्यः हस्तीदीनि कर्मेन्द्रियाणि दमयित्वा इन्द्रियभोगानां मनसा उपभोगं कुर्वन् भवति, सः विमूढात्मा अर्थात् मोहितान्तःकरणयुक्तः मिथ्याचारी, पाखण्डी, पापाचारी च उच्यते ।
भाष्यार्थः
सम्पादयतुअन्यथा कर्मयोगस्य साधनाम् अकृत्वा ज्ञानयोगे प्रवृत्तः पुरुषः मिथ्याचारी भवति इति कथयति – पूर्वकृतपापानां नाशाभावत्वात् यः स्वस्य मनोबुद्धीन्द्रियेषु विजयं न प्राप्तवान् अस्ति, तादृशः मनुष्यः यदा आत्मज्ञानाय साधनां करोति, तदा तस्य मनः विषयेभ्यः आकर्षित्वात् आत्मतत्त्वा विमुखं भवति । अतः सः मनुष्यः विषयाणामेव स्मरणं करोति । एवं यः मनुष्यः मनसा कमपि सङ्कल्पं कृत्वा आचरणेन अन्यत् कार्यमेव करोति, सः मिथ्याचारी उच्यते । अर्थात् आत्मज्ञानाय चेष्ट्यमानः पुरुषः विपरीतः सन् नष्टो भवति इति ।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये कर्मेन्द्रियाणि संयम्य... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतु- ↑ शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः, गीता, अ. १८, श्लो. १५
अधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च