धूमेनाव्रियते वह्निः...
श्लोकः
सम्पादयतु( ( शृणु))
- धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
- यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३८ ॥
अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य अष्टात्रिंशत्तमः (३८) श्लोकः ।
पदच्छेदः
सम्पादयतुधूमेन आव्रियते वह्निः यथादर्शः मलेन च यथा उल्बेन आवृतः गर्भः तथा तेन इदम् आवृतम् ॥ ३८ ॥
अन्वयः
सम्पादयतुयथा धूमेन वह्निः आव्रियते, यथा मलेन आदर्शः, यथा उल्बेन च गर्भः तथा इदं (ज्ञानम्) तेन आवृतम् ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
यथा | येन प्रकारेण |
धूमेन | धूमेन |
वह्निः | अग्निः |
आव्रियते | आवृतः भवति |
यथा | येन प्रकारेण |
मलेन | रजसा |
आदर्शः | दर्पणः |
यथा | येन प्रकारेण |
उल्बेन | गर्भवेष्टनेन चर्मणा |
गर्भः | पिण्डः |
तथा | तेन प्रकारेण |
तेन | कामेन |
इदम् | ज्ञानम् |
आवृतम् | आच्छादितम् । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- धूमेनाव्रियते = धूमेन + आव्रियते – सवर्णदीर्घसन्धिः
- यथादर्शः = यथा + आदर्शः – सवर्णदीर्घसन्धिः
- वह्निर्यथा = वह्निः + यथा – विसर्गसन्धिः (रेफः)
- आदर्शो मलेन = आदर्शः + मलेन – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
- आवृतो गर्भः = आवृतः + गर्भः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
- यथोल्बेन = यथा + उल्बेन – गुणसन्धिः
- तेनेदम् = तेन + इतम् - गुणसन्धिः
कृदन्तः
सम्पादयतु- आवृत्तम् = आङ् + वृ + क्त (कर्मणि)
अर्थः
सम्पादयतुयेन प्रकारेण धूमेन अग्निः, रजसा दर्पणः, यथा च गर्भवेष्टनेन चर्मणा गर्भः आच्छादितः भवति तेन प्रकारेण कामेन ज्ञानम् आच्छादितम् अस्ति ।
शाङ्करभाष्यम्
सम्पादयतुकथं वैरीति दृष्टान्तैः प्रत्याययति-धूमेनेति। धूमेन सहजेनाव्रियते वह्निः प्रकाशात्मकोऽप्रकाशात्मकेन यथा वाऽऽदर्शो मलेन च यथोल्बेन गर्भवेष्टनेन जरायुणावृतआच्छादितो गर्भस्तथा तेनेदमावृतम् ।।38।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये धूमेनाव्रियते वह्निः... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च