श्रेयान्स्वधर्मो विगुणः
श्लोकः सम्पादयतु
( ( शृणु))
- श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
- स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥
अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य पञ्चत्रिंशत्तमः (३५) श्लोकः ।
पदच्छेदः सम्पादयतु
श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात् स्वधर्मे निधनं श्रेयः परधर्मः भयावहः ॥ ३५ ॥
अन्वयः सम्पादयतु
स्वनुष्ठितात् परधर्मात् विगुणः स्वधर्मः श्रेयान् । स्वधर्मे निधनं श्रेयः । परधर्मः भयावहः ।
शब्दार्थः सम्पादयतु
अन्वयः | सरलसंस्कृतम् |
स्वनुष्ठितात् | साधु आचरितात् |
परधर्मात् | अन्यधर्मात् |
विगुणः | गुणरहितः अपि |
स्वधर्मः | आत्मधर्मः |
श्रेयान् | वरीयान् |
स्वधर्मे | आत्मधर्मे |
निधनम् | नाशोऽपि |
श्रेयः | साधीयान् |
परधर्मः | अन्यधर्मः |
भयावहः | भयजनकः । |
व्याकरणम् सम्पादयतु
सन्धिः सम्पादयतु
- स्वधर्मो विगुणः = स्वधर्मः + विगुणः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
- परधर्मो भयावहः = स्वधर्मः + विगुणः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
तद्धितान्तः सम्पादयतु
- श्रेयान् = प्रशस्/वृद्ध + ईयसुन् (श्र इति आदेशः)
अर्थः सम्पादयतु
परधर्माचरणस्य अपेक्षया स्वधर्माचरणम् उत्तमम् । किञ्च स्वधर्मे नाशोऽपि श्रेयः । परधर्मस्तु अनर्थजनकः एव भवति ।
शाङ्करभाष्यम् सम्पादयतु
तत्र रागद्वेषप्रयुक्ते मन्यते शास्रार्थमप्यन्यथा परधर्मोऽपि धर्मत्वादनुष्ठेय एवेति तदसत्-श्रेयानिति। श्रेयान्प्रशस्यतरस्वो धर्मः स्वधर्मो विगतगुणोऽप्यनुष्ठीयमानः परधर्मात् स्वनुष्ठितात् साङ्गुण्येन संपादितादपि, स्वधर्मे स्थितस्य निधनं मरणमपि श्रेयः परधर्मे स्थितस्य जीवितात्,कस्मात् परधर्मो भयावहः, नरकादिलक्षणं भयमावहति यतः।।35।।
|
सम्बद्धाः लेखाः सम्पादयतु
बाह्यसम्पर्कतन्तुः सम्पादयतु
विकिमीडिया कॉमन्स् मध्ये श्रेयान्स्वधर्मो विगुणः सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम् सम्पादयतु
अधिकवाचनाय सम्पादयतु
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च