कर्मणैव हि संसिद्धिम्...

कर्मणैव हि संसिद्धिम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अनासक्तानां परिचयं ददाति । पूर्वस्मिन् श्लोके महापुरुषत्वं प्राप्तुं मार्गं प्रदर्श्य भगवान् अत्र जनकादीनां महापुरुषाणाम् उदाहरणत्वेन उल्लेखं करोति । सः कथयति यद्, जनकसदृशाः अनेके महापुरुषाः कर्मणा एव परमसिद्धाः अभूवन् । अतः लोकसङ्ग्रहं दृष्ट्वा त्वमपि निष्कामभावेन कर्म कर्तुं योग्यः असि इति ।

कर्मणैव हि संसिद्धिम्...


अनासक्तानां परिचयः
श्लोकसङ्ख्या ३/२०
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः तस्मादसक्तः सततम्...
अग्रिमश्लोकः यद्यदाचरति श्रेष्ठः...

श्लोकः सम्पादयतु

 
गीतोपदेशः
कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ २० ॥

पदच्छेदः सम्पादयतु

कर्मणा एव हि संसिद्धिम् आस्थिताः जनकादयः लोकसङ्ग्रहम् एव अपि सम्पश्यन् कर्तुमर्हसि ॥ २० ॥

अन्वयः सम्पादयतु

जनकादयः हि कर्मणा एव संसिद्धिम् आस्थिताः । लोकसङ्ग्रहम् अपि सम्पश्यन् (कर्म) कर्तुम् अर्हसि एव ।

शब्दार्थः सम्पादयतु

अन्वयः सरलसंस्कृतम्
जनकादयः हि जनकराजप्रभृतयः अपि
कर्मणा एव कर्माचरणेन एव
संसिद्धिम् साफल्यम्
आस्थिताः प्राप्तवन्तः
लोकसङ्ग्रहम् स्वधर्मे प्रवर्तनम् अधर्माच्च निवर्तनम्
सम्पश्यन् अपि भावयन् अपि,
कर्तुमेव कर्म आचरितुमेव
अर्हसि प्रभवसि ।

व्याकरणम् सम्पादयतु

सन्धिः सम्पादयतु

  1. कर्मणैव = कर्मणा + एव – वृद्धिसन्धिः
  2. आस्थिता जनकादयः = आस्थिताः + जनकादयः – विसर्गसन्धिः (लोपः)

समासः सम्पादयतु

  1. लोकसङ्ग्रहम् = लोकस्य सङ्ग्रहम्, तम् – षष्ठीतत्पुरुषः
  2. जनकादयः = जनकः आदिः येषां ते - बहुव्रीहिः

कृदन्तः सम्पादयतु

  1. संसिद्धिम् = सम् + सिद् + क्तिन् (भावे)
  2. आस्थिताः = आ + स्था + क्त (कर्तरि)
  3. सङ्ग्रहम् = सम् + ग्रह् + अच् (भावे) तम्
  4. सम्पश्यन् = सम् + दृशिर् + शतृ (कर्तरि)
  5. कर्तुम् = कृ + तुमुन्

अर्थः सम्पादयतु

जनकादयः ज्ञानिनः कर्माचरणेन एव सद्गतिं प्राप्तवन्तः इत्यतः भवान् अपि लोकहितदृष्ट्या कर्म कर्तुम् अर्हति ।

भावार्थः सम्पादयतु

'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' - 'आदि' इत्यस्य पदस्य उपयोगेन 'प्रभृतः' (आरम्भः), 'प्रकारः' इत्येतयोः उभयोः अर्थः ज्ञायते । यदि अत्र उपयुक्तस्य 'आदि' इत्यस्य पदस्य 'प्रभृतिः' इत्येनम् अर्थम् अपि स्वीकुर्मः, तर्हि 'जनकादयः' इत्यस्य पदस्य अर्थः 'राजा जनकः येषाम् आदौ अस्ति, ते' इत्येवम् भवति । एवम् अङ्गीकृते सति राज्ञः जनकात् पूर्वं ये महापुरुषाः कर्मयोगेन सिद्धाः अभूवन्, तेषां सूर्य-वैवस्वतमनु-ईक्ष्वाक्वादीनां [१] तु गणना एव न भवेत् । अत एव अत्र 'आदि' इत्यस्य पदस्य अर्थः 'प्रकारः' इत्येव स्वीकर्तव्यः । एवं स्वीकृते 'जनकादयः' इत्यस्य पदस्य अर्थः भविष्यति यद्, जनकसदृशाः गृहस्थाश्रमिणः अपि निष्कामभावेन सर्वेषां कर्मणाम् आचरणपूर्वकम् अपि परमसिद्धाः अभूवन् । ते जनकात्पूर्वं पश्चात् (अद्ययावत्) अपि अपि अभूवन् ।

कर्मयोगः अतीव पुरातनः योगः अस्ति । तेन राजा जनकः, तत्सदृशाश्च अनेके महापुरुषाः परमात्मप्राप्तिम् अकुर्वन् । अतः वर्तमाने काले, भविष्यत्काले चापि यदि कोऽपि कर्मयोगेन परमात्मप्राप्तिम् इच्छति, तर्हि सः निश्चयेन प्राप्तुं शक्नोति । परन्तु "प्राकृतिकवस्तूनि (शरीरादीनि) कदापि स्वस्मै न" इति सः पालयेत् । एवं संसारात् प्राप्तवस्तूनि संसाराय एव उपयोगे कृते सति संसारात् सुगमतया सम्बन्धविच्छेदः भवति । ततः परमात्मप्राप्तिः स्वतः एव सिद्ध्यति । अत एव कर्मयोगः परमात्मप्राप्तेः सुगमं, श्रेष्ठं, स्वतन्त्रं च साधम् उच्यते । तत्र न कोऽपि सन्देहः ।

अत्र 'कर्मणा एव' इत्यस्य पदस्य सम्बन्धः पूर्वश्लोकेस्य 'असक्तो ह्याचरन्कर्म' इत्येन पदेन सह अस्ति । अर्थाद् आसक्तिरहितो भूत्वा कर्मणः आज्ञा अस्ति । यतो हि आसक्तिरहितः भूत्वा कर्म कृतं चेत्, मनुष्यस्य कर्मबन्धनात् मुक्तिः भवति । केवलं कर्मणि कृते सति मनुष्यः कर्मबन्धनात् मुक्तः न भवति इति निश्चितम् [२] । श्लोकेऽस्मिन् 'कर्मणा एव' इत्यस्य स्थाने 'योगेन एव' इत्यस्यापि प्रयोगं कर्तुं शक्नोति स्म भगवान् । परन्तु अर्जुनस्य आग्रहः कर्मणां स्वरूपात्त्यागाय आसीत् तथा च कर्मयोगस्य एव प्रसङ्गः उच्यमानः आसीत्, अतः अत्र 'कर्मणा एव' इत्यस्य पदस्य उपयोगः कृतः । अतः अत्र कर्मणः अभिप्रायः पूर्वश्लोकेन आसक्तिरहित-पदेन सह एव अस्ति । वस्तुतः चिन्मयस्य परमात्मनः प्राप्तिः जडकर्मभिः न भवति । नित्यप्राप्तस्य परमात्मनः अनुभवयात्रायां ये विघ्नाः समुद्भवन्ति, ते आसक्तिरहितकर्मणा दूरीभवन्ति । ततः सर्वत्र परिपूर्णस्य स्वतःसिद्धस्य परमात्मनः अनुभवः भवति । एवं परमात्मतत्त्वस्य अनुवभवे उत्पद्यमानानां विघ्नानां नाशाय एव अत्र कर्मणा परमसिद्धिप्राप्तेः चर्चा कृता ।

मर्मः सम्पादयतु

मनुष्यः सांसारिकपदार्थानां प्राप्तिवत् परमात्मप्राप्तिम् अपि कर्मत्वेन एव स्वीकरोति । सः चिन्तयति यद्, उच्चपदाधिकारिणः सम्पर्कार्थं महान् यत्नः आवश्यकः भवति, तर्हि अनन्तकोटिब्रह्माण्डस्य नायकस्य प्राप्त्यै तु अनेके परिश्रमाः (तपः, व्रतं, स्वाध्यायः इत्यादयः) अनिवार्याः भविष्यन्ति इति । वस्तुतः एषा विचारधारा एव साधकस्य महती क्षतिः अस्ति । मनुष्ययोनेः कर्मणा सह घनिष्ठः सम्बन्धः अस्ति । अत एव मनुष्ययोनी 'कर्मसङ्गी' अर्थात् कर्मसु आसक्तियुक्ता उच्यते [३] । अत एव मनुष्यस्य कर्मसु विशेषप्रवृत्तिः भवति, तथा च सः कर्णभिरेव अभीष्टवस्तूनां प्राप्त्यै यत्नं करोति । एवं कर्मणा एव सर्वेऽपि पदार्थाः लभ्यन्ते इति तस्य मनसि धारणा प्रबला भवति । परमात्मनः विषये अपि तस्य मनसि एषः एव भावः भवति । एवं सः चेतनस्य परमात्मनः प्राप्तिः जडैः कर्मभिः भविष्यति इति चिन्तयति । परन्तु वस्तुतः परमात्मनः प्राप्तिः कर्मभिः न भवति । एषः विषयः गाम्भीर्येण ज्ञातव्यः ।

कर्मभिः नाशवद्वस्तूनां (सांसारिकवस्तूनां) प्राप्तिः भवति, न तु अविनाशिवस्तुनः (परमात्मनः) । यतो हि सर्वाणि कर्माणि नाशवता शरीरेण सह एव सम्बद्धानि भवन्ति । प्रत्युत परमात्मनः प्राप्तिः नाशवतः सर्वथा सम्बन्धविच्छेदे सति भवति । प्रत्येकस्य कर्मणः आरम्भान्तौ भवतः । अत एव कर्मणः फलत्वेन प्राप्यमाणं वस्तु अपि आरम्भान्तयुक्तं भवति । स्थलकालादिमापकैः यत् वस्तु दूरे भवति, तस्य वस्तुनः एव प्राप्तिः कर्मणा भवति । परन्तु परमात्मा स्थलं, कालः, वस्तु, व्यक्तिः इत्यादिषु परिपूर्णः नित्यप्राप्तः, उत्पत्तिविनाशपरिवर्तनरहितश्च अस्ति । अतः तस्य प्राप्तिः स्वतःसिद्धाः, न तु कर्मसाध्या । अत एव सांसारिकपदार्थानां प्राप्तिः चिन्नेन न भवति, परन्तु परमात्मनः प्राप्तौ चिन्तनं मुख्यतां वहति । चिन्तनेन यत् वस्तु प्राप्यते, तत् समीपतमम् अस्ति । वस्तुतः चिन्तनेन परमात्मनः प्राप्तिः न भवति । परमात्मनः चिन्तनस्य सार्थकता सांसरितचिन्तनस्य त्यागे एव अस्ति । सांसारिकचिन्तनस्य त्यागे सति नित्यप्राप्तस्य परमात्मनः अनुभवः भवति ।

सर्वव्यापी परमात्मा अस्मत् दूरे नास्तेयव । 'अहं'-भावे सह बहवः अन्तरं मन्यते, तस्यात् अहङ्कारभावाद् अपि समीपे परमात्मा अवतिष्ठति । 'अहं'भावस्तु परिच्छिन्नः अर्थात् एकदेशीयः अस्ति, परन्तु परमात्मपरिच्छिन्नः नास्ति । एवमेव सांसारिकवस्तूनां प्राप्त्यै यादृशः तर्कः, युक्तिः च अपेक्षते, तादृशं किमपि अत्यन्तं समीपस्थस्य, नित्यप्राप्तस्य परमात्मनः अनुभवाय नापेक्षते । अतः सांसारिकवस्तूनां प्राप्त्यै स्वीकृतानां तर्काणां परमात्मप्राप्त्यै अवलम्बनं मूर्खता एव । सांसारिकवस्तूनां प्राप्तिः इच्छामात्रेण न भवति, परन्तु परमात्मनः प्राप्तिः उत्कटाभिलाषामात्रेण एव भवति । तस्याः उत्कटाभिलाषायाः उत्पतौ सांसारिकभोगासङ्ग्रहाणाम् इच्छा एव बाधिका अस्ति । यदि अधुना एव परमात्मानं प्रति उत्कटाभिलाषा उद्भवेत्, तर्हि अधुनैव परमात्मानुभवः भवति । कर्म, तत्फलं च मनुष्यजीवनस्य उद्देशः नास्ति । उद्देशफलेच्छयोः मध्ये कश्चन भेदः वर्तते । उद्देशः अर्थात्, परमात्मप्राप्तेः उद्देशः । फलेच्छा अर्थात् अनित्यपदार्थानां प्राप्त्यै इच्छा । उद्देश्यप्राप्त्यै कृतं कर्म सकामं न उच्यते । अतः निष्कामपुरुषस्य सर्वाणि कर्माणि उद्देशप्रेरितानि भवन्ति, न तु फलेच्छाप्रेरितानि । जडपदार्थेभ्यः सम्बन्धविच्छेदस्य उद्देशं स्वीकृत्य कर्मयोगे शास्त्रविहितानि शुभकर्माणि भवन्ति । सकामपुरुषः फलेच्छां कृत्वा स्वस्य कृते कर्म करोति, कर्मयोगी च फलेच्छायाः त्यागं कृत्वा अपरेषां सुखाय कर्म करोति । कर्म एव फलत्वेन परिणते । अतः फलस्य सम्बन्धः कर्मणा सह भवति । उद्देशस्य सम्बन्धः कर्मणा सह न भवति । निष्कामभावपूर्वकं केवलम् अन्येषां हिताय कृतं कर्म 'परमात्मनः दूरे अस्मि' इति भावं दूरीकरोति ।

'लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि' – अत्र 'लोक' इत्यस्य शब्दस्य त्रीन् अर्थान् स्वीकर्तुं शक्नुमः । १. मनुष्यलोकादयः लोकाः २. तेषु लोकेषु विद्यमानाः प्राणिनः ३. शास्त्राणि (वेदात् अतिरिक्तानि सर्वाणि शास्त्राणि) च । अर्थात् मनुष्यलोकस्य, तस्मिन् लोके विद्यमानानां प्राणिनां, शास्त्राणां च मर्यादानुसारं समस्तानि आचरणानि (जीवनचर्यामात्रम्) 'लोकसङ्ग्रहः' इत्युच्यते । लोकसङ्गहस्य तात्पर्यम् अस्ति यद्, लोकमर्यादायाः सुरक्षायै जनान् परमात्ममुखान् कृत्वा जनसेवापूर्वकं कर्म इति । एषः लोकसङ्ग्रहः एव गीतायां 'यज्ञार्थकर्म' इति प्रसिद्धः । स्वस्य आचरणेन जनानां परमात्मानं प्रति उत्कण्ठाजागरणकार्यमेव महत् कार्यम् अस्ति । यतो हि परमात्मनः सन्मुखे सति जनानां परिष्कारः, उद्धारश्च भवति । जनप्रदर्शनाय स्वकर्तव्यपालनं लोकसङ्ग्रहत्वेन न परिगण्यते । कोऽपि पश्यति उत न पश्यति, परन्तु लोकमर्यादानुसारम् अर्थात् वर्णाश्रमसम्प्रदायानुसारं कर्तव्यपालनं लोकसङ्ग्रहः उच्यते । न किमपि कर्तव्यं लघु बृहद् वा भवति । लघुतमं कर्तव्यं निष्ठया पाल्यते चेत्, बृहत्तमस्य कर्तव्यस्य सदृशं फलमेव लभ्यते । स्थलकालाद्यनुगुणं यत् कर्तव्यं सम्मुखम् उपतिष्ठति, तदेव कर्म महत् भवति । कर्मणः स्वरूपत्वात्, फलोत्पत्तित्वाच्च एव तत् कर्म लघु, बृहद् वा प्रतीयते । यथा – कर्मणः स्वरूपानुगुणं मार्जन्या मार्जनप्रक्रिया लघुकार्यम् अस्ति । प्रत्युत व्याखानदानं बृहत् कर्म प्रतीये । तथैव कर्मफलस्य दृष्ट्या स्वल्पं दानम् अल्पपुण्यदायकम्, अधिकं दानम् अधिकपुण्यदायकं प्रतीयते । परन्तु फलेच्छायाः त्यागे कृते सति सर्वाणि कर्माणि उद्देशसिद्धेः साधनानि भवन्ति । एवं जडतायाः सम्बन्धविच्छेदोत्तरं लघुबृहत्कर्माणि समानानि एव भवन्ति ।

यस्य कस्यापि मनुष्यस्य जीवनम् अन्यस्य साहाय्यं विना असम्भवम् । शरीरस्य प्राप्तिः पित्रोः, विद्यायोगताशिक्षणादीनां प्राप्तिः गुरूणां च कृपा भवति । यदन्नं स्वीकुर्मः तद् अन्यैः उत्पादितं भवति । वस्त्र-गृह-मार्गादयः अन्यैः निर्मिताः । सर्वेषां मनुष्यानां जीवननिर्वाहः अन्याश्रितः भवति । एवं मनुष्यः अन्येषाम् ऋणी भवति । अतः यथाशक्तिः अन्येषां निःस्वार्थभावेन सेवा मनुष्यस्य कर्तव्यम् । मम इति उच्यमानानां शरीरादिपदार्थानां किञ्चिन्मात्रम् अपि स्वस्य कृते उपयोगम् अकृत्वा परसेवायां योजनेन मनुष्यऋणात् मुक्तिः प्राप्यते ।

शाङ्करभाष्यम् सम्पादयतु

यस्माच्च कर्मणैवेति। कर्मणैव हि तस्मात् पूर्वे क्षत्रिया विद्वांसः संसिद्धिं मोक्षं गन्तुमास्थिताः प्रवृत्ता जनकादयो जनकाश्वपतिप्रभृतयः। यदि ते प्राप्तसम्यग्दर्शनास्ततोलोकसंग्रहार्थं प्रारब्धकर्मत्वात् कर्मणा सहैवासंन्यस्यैव कर्म संसिद्धिमास्थिता इत्यर्थः। अथाप्राप्तसम्यग्दर्शना जनकादयस्तदा कर्मणा सत्त्वशुद्धिसाधनभीतेनक्रमेण संसिद्धिमास्थिता इति व्याख्येयः श्लोकः। अथ मन्यते पूर्वैरपि जनकादिभिरप्यजानद्भिरेव कर्तव्यं कर्म कृतं तावता नावश्यमन्येन कर्तव्यं सम्यग्दर्शनवताकृतार्थेनेति, तथापि प्रारब्धकर्मायत्तस्त्वं लोकसंग्रहमेवा लोकस्योन्मार्गप्रवृत्तिनिवारणं लेकसंग्रहस्तमेवापि प्रयोजनं संपश्यन्कर्तुमर्हसि ।।20।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
तस्मादसक्तः सततम्...
कर्मणैव हि संसिद्धिम्... अग्रिमः
यद्यदाचरति श्रेष्ठः...
 
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

  1. गीता, अ. ४, श्लो. १-२
  2. कर्मणा बध्यते जन्तुः, महाभारतम्, शान्तिपर्व, २४१/७
  3. गीता, अ. १४, श्लो. १५

अधिकवाचनाय सम्पादयतु