यस्त्विन्द्रियाणि मनसा...
यस्त्विन्द्रियाणि मनसा ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः वदति यद्, आसक्तिरहितकर्माचरणम् एव योगः इति । पूर्वस्मिन् श्लोके कर्मणः स्वरूपमात्रेण त्यागः मिथ्याचारम् उकत्वा अत्र भगवान् वास्तविकज्ञानस्य उपस्थापनं करोति । सः कथयति यद्, हे अर्जुन ! यः मनुष्यः मनसा इन्द्रियेषु नियन्त्रणं प्रस्थाप्य आसक्तिरहितो भूत्वा निष्कामभावेन समस्तेन्द्रियैः कर्मयोगस्य आचरणं करोति, सः श्रेष्ठः अस्ति इति ।
यस्त्विन्द्रियाणि मनसा... योगव्याख्या | |
---|---|
श्लोकसङ्ख्या | ३/७ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | कर्मेन्द्रियाणि संयम्य... |
अग्रिमश्लोकः | नियतं कुरु कर्म त्वं... |
श्लोकः
सम्पादयतु- यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
- कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥
पदच्छेदः
सम्पादयतुयः तु इन्द्रियाणि मनसा नियम्य आरभते अर्जुन कर्मेन्द्रियैः कर्मयोगम् असक्तः सः विशिष्यते ॥ ७ ॥
अन्वयः
सम्पादयतुअर्जुन ! यः तु असक्तः इन्द्रियाणि मनसा नियम्य कर्मेन्द्रियैः कर्मयोगम् आरभते सः विशिष्यते ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
अर्जुन | हे पार्थ |
यः तु | यः पुरुषः पुनः |
मनसा | चित्तेन |
इन्द्रियाणि | नेत्रादीनि |
नियम्य | वशीकृत्य |
असक्तः | सङ्गरहितः |
कर्मेन्द्रियैः | हस्तादिभिः |
कर्मयोगम् | कर्माचरणम् |
आरभते | प्रारभते |
सः | सः पुरुषः |
विशिष्यते | उत्कृष्टः भवति । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- कर्मेन्द्रियैः = कर्म + इन्द्रियैः – गुणसन्धिः
- यस्त्विन्द्रियाणि = यः + त्विन्द्रियाणि – विसर्गसन्धिः (सकारः)
- तु इन्द्रियाणि = यण्सन्धिः
- नियम्यारभतेऽर्जुन = नियम्य + आरभते – सवर्णदीर्घसन्धिः
- आरभते अर्जुन - पूर्वरूपसन्धिः
समासः
सम्पादयतु- असक्तः = न सक्तः - नञ्तत्पुरुषः
कृदन्तः
सम्पादयतु- नियम्य = नि + यम् + ल्यप्
- सक्तः = सज्ज + क्त (कर्तरि)
अर्थः
सम्पादयतुअर्जुन ! यः मनुष्यः चित्तेन ज्ञानेन्द्रियाणि वशीकृत्य सङ्गरहितः सन् वाक्पाण्यादिभिः कर्म प्रारभते सः मनुष्यः श्रेष्ठः इति परिगण्यते ।
भावर्थः
सम्पादयतुअध्यायस्यास्य चतुर्थे श्लोके भगवान् कर्मयोगदृष्ट्या, साङ्ख्ययोगदृष्ट्या च कर्मणां त्.यागः अनावश्यकः इत उक्त्वा पञ्चमे श्लोके कोऽपि मनुष्यः यस्यां कस्यामपि अवस्थायां क्षणमात्रमपि कर्म अकृत्वा स्थातुं न शक्नोति इति वदति । ततः तस्मात् पूर्वस्मिन् श्लोके बलपूर्वकम् इन्द्रियाणां क्रियानां निग्रहे कृते आत्मानं क्रियारहितत्वेन यः उपस्थापयति, सः मिथ्याचारी अस्ति इति स्पष्टीकृतम् । एवं भगवता सिद्धिं कृतं यत्, कर्मणां स्वरूपादेव त्यागः न वास्तविकत्यागः । अतः अनेन श्लोकेन भगवान् वास्तिकः त्यागः कः इति व्याख्याति ।
'तु' – अत्र अनासक्तः सन् कर्तव्यापालनं कुर्वतः कर्मयोगिनः अपेक्षया मिथ्याचारिणः अधमत्वम् उक्तम् अस्ति । एवं 'तु' पदेन न केवलं कर्मयोगानुसारम् अपि तु साङ्ख्यगोयोगानुसारम् अपि मिथ्याचारिणः अधमत्वं प्रदर्शितम् । अर्थात् अनासक्तः सन् कर्तव्यपालनं कर्ता श्रेष्ठः इति ।
'अर्जुन' – अर्जुन ! इत्यस्य पदस्य अर्थः भवति 'स्वच्छः' इति । अत्र भगवान् 'अर्जुन' इत्यनेन सम्बोधनेन अर्जुनस्य निर्मलान्तःकरणस्य सङ्केतं करोति । अर्थात् हे अर्जुन ! तव अन्तःकरणं निर्मलम् अस्ति । अतः व अन्तःकरणे कर्तव्यकर्मविषयकः सन्देहः एषः कीदृशः ?
'यस्त्विन्द्रियाणि मनसा नियम्य' – अत्र 'मनसा' इति पदं सम्पूर्णान्तःकरणस्य अर्थात् मनोबुद्धिचित्ताहङ्काराणां वाचकम् । मनसा इन्द्रियाणि वशे करणस्य तात्पर्यम् अस्ति यद्, विवेकवन्त्या बुद्ध्या 'मनसा, इन्द्रियैः च सह मे कोऽपि सम्बन्धः नास्ति' इति अनुभवः । इन्द्रियाणां नियमने कृते सति इन्द्रियाणां स्वतन्त्रः आग्रहः न भवति । अर्थात् मनुष्यः यत्र आत्मानं योक्तुम् इच्छति, तत्र योजयितुं शक्नोति । तथैव यस्मात् स्थानात् आत्मानं विरक्तं कर्तुम् इच्छति, तस्मात् स्थानात् आत्मानं विरक्तुं कर्तुं प्रभवति । इन्द्रियाणि तदा वशीभवन्ति, यदा ममतायाः सर्वथा अभावः भवति । अग्रेऽपि कर्मयोगिभ्यः इन्द्रियवशस्य चर्चा भविष्यति [१] । तात्पर्यम् अस्ति यद्, वशीकृताभिः इन्द्रियैः कर्मयोगस्य आचरणं भवति इति । पूर्वस्मिन् श्लोके इन्द्रियाणां बलपूर्वकं दमनं मिथ्याचारः इति वक्तुं 'संयम्य' इत्यस्य पदस्य उपयोगः कृतः आसीत्, परन्तु अत्र 'नियम्य' इत्यस्य पदस्य उपयोगं कृत्वा शास्त्रमर्यादानुसारम् इन्द्रियनियमनस्य चर्चा कृता अस्ति । नियमनम् इत्युक्ते निषिद्धात् कर्मणः शास्त्रविहिते कर्मणि स्थापनम् । इन्द्रियनियमने कृते इन्द्रियाणां संयमः स्वतः सिद्ध्यति ।
'आसक्तः' – आसक्तिः स्थानद्वये भवति । १) कर्मसु २) कर्मणः फलेषु च । सर्वे दोषाः आसक्त्यामेव निहिताः सन्ति । कर्मसु उत तस्य फलेषु न । आसक्तित्वा योगः न सिद्ध्यति । अतः साधकः कर्मणः त्यागम् अकृत्वा तस्यां स्थितायः आसक्तेः त्यागः करणीयः । आसक्तिरहिते सति सावधानतया तत्परतापूर्वकं कर्तव्यकर्मणः आचरणम् अकृत्वा कर्मणा सह सम्बन्धः न विच्छिनत्ति । साधकः आसक्तिरहितः तदैव भवति, यदा शरीरेन्द्रियमनोबुद्ध्यः न मे, न च मह्यम् इति स्वीकरोति । एवं केवलं संसारस्य , संसाराय च इति मत्वा संसारहिताय तत्परतापूर्वकं कर्तव्यकर्मणां पालनं कर्तव्यम् । यदा स्वस्य कृते कर्म अकृत्वा केवलम् अन्येषां हिताय सर्वाणि कर्माणि करोति, तदा तस्मिन् स्थिता फलासक्तिः स्वतः एव नष्टा भवति । कर्मेन्द्रियैः जायानानि साधारणक्रियातः चिन्तनसमाधिपर्यन्तायाः सर्वसां क्रियाणाम् आत्मस्वरूपेण सह कोऽपि सम्बन्धः नास्ति [२] । परन्तु स्वरूपेण अनासक्ते सत्यपि जीवात्मा स्वयम् आसक्तः भूत्वा संसारेण सह स्वस्य सम्बन्धं स्थापयति । कर्मयोगिनः वास्तविकमहिमा आसक्तिरहिते एव अस्ति । कर्मभिः जायमानायाः फलेच्छायाः अभावः अर्थात् फलेच्छायाः सर्वथा असङ्गता एव आसक्तिरहितता उच्यते ।
सामान्यमनुष्यः स्वस्य कर्मणः सिद्ध्यै एव कार्ये प्रवृत्तः भवति । परन्तु साधकः आसक्तित्यागस्य उद्देश्यं लक्षीकृत्य कार्ये प्रवृत्तः भवति । तादृशः साधकः एव अत्र 'असक्तः' इति उक्तः । यदा ज्ञानयोगी, कर्मयोगी च फलेच्छाम्, आसक्तिं च त्यजतः, तदा ज्ञानयोगिनः अपेक्षया कर्मयोगिनः सिद्धिः सुगमा भवति । यतो हि कर्मयोगिना ततः अन्यायाः साधनायाः आवश्यकता न भवति । परन्तु ज्ञानियोगिनः कृते देहाभिमानस्य, क्रियापदार्थस्य आसक्तेः उन्मूलनाय साधनायाः आवश्यकता भवति [३] [४] । कर्मयोगे आसक्तित्यागः प्रमुख्यः, येन कर्मयोगी समबुद्धिं प्राप्नोति । अत एव भगवान् कथयति यद्, कर्मणः त्यागम् अकृत्वा आसक्तिरहितं कर्म कुरु इति । कर्मणः त्यागः न कर्तव्यः । वस्तुतः एषः गीतायाः सिद्धान्तः नास्ति । गीतायाः वास्तविकसिद्धान्तः अस्ति यद्, कर्मणि अनासक्तिः भवेदिति । कर्मयोगे 'कर्म' सर्वदा अन्येषां हिताय एव भवति । 'योगः' स्वस्य कृते भवति । अर्जुनः कर्म स्वस्य कृते मन्यते । अतः तस्य कृते युद्धरूपी कर्म भङ्करं प्रतीयते । एतस्मिन् सन्दर्भे भगवान् स्पष्टयति यद्, आसक्तिः एव भयङ्करा न तु कर्म भयङ्करम् इति ।
'कर्मेन्द्रियैः कर्मयोगम् आरभते' – यथा एतस्य श्लोकस्य प्रथमे चरणे 'इन्द्रियाणि' इत्यस्य पदस्य अर्थः दश इन्द्रियाणि इति भवति, तथैव उत्तरार्धे उपयुक्तस्य 'कर्मेन्द्रियैः' इत्यस्य पदस्यापि दश इन्द्रियाणि एव अङ्गीकर्तव्यः । यदि अत्र केवलं हस्तादीनामेव स्वीकारं कुर्मः, तर्हि अदृष्ट्वा, अश्रुत्वा वा कार्म कथं भवितुम् अर्हति ? अतः सर्वेषां करणानाम् अर्थात् अन्तःकरणनां, बाह्यकरणानां च कर्मेन्द्रियशब्देन बोधः ग्रहणीयः । स्वार्थत्यागोत्तरम् अन्येषां हिताय कृतं कर्म कर्मयोगः उच्यते । स्वस्य कृते कर्मणि कृते कर्मणा, कर्मफलेन च सह सम्बन्धः भवति । अन्येभ्यः कर्मणि कृते सति कर्मणः, कर्मफलस्य च सम्बन्धः अन्यैः, परमात्मना च सह भवति । एवं स्थल-काल-परिस्थित्यनुगुणं सम्मुखम् उपस्थितस्य कर्तव्यकर्मणः निःस्वार्थभावेन पालनम् एव कर्मयोगस्य आरम्भः ।
कर्मयोगिसाधकाः द्विधा भवन्ति । प्रथमप्रकारकेषु कर्मयोगिषु कर्मणि आसक्तिः, रुचिः तु भवति, परन्तु कल्याणार्थं कर्मकरणभावना मुख्या भवति । तादृशेभ्यः साधकेभ्यः नवीनानां कर्मणाम् आरम्भस्य आवश्यकता न भवति । तस्य कृते तु केवलं प्राप्तपरिस्थितेः सदुपयोगस्य एव आवश्यकता भवति । द्वितीयप्रकारकेषु साधकेषु कल्याणस्य इच्छा प्रमुखा नास्ति । तेषां समाजपरिष्कारे, समाजसेवायां च अधिका रुचिः भवति । अतः तेषां मनसि भवति यद्, अमुके कर्मणि कृते सति समाजस्य अधिकाधिकसेवा भवितुम् अर्हति इत्यादि । एतादृशाः साधकाः यदि नवीनानां कर्मणाम् आरम्भं कुर्युः, तर्हि तत्र न कापि हानिः । परन्तु नवीनकर्मणाम् आरम्भः कर्मासक्तेः मुक्त्यै एव भवेत् । गीताशास्त्रे भगवान् अर्जुनं प्राप्तपरिस्थितेः सदुपयोगं कर्तुम् एव कथयति । यतो हि तस्य कल्याणस्य इच्छा प्रमुखा आसीत् [५] [६] ।
'स विशिष्यते' – यः स्वस्य स्वार्थं त्यक्त्वा केवलं प्राणिनां हिताय कर्म करोति, सः श्रेष्ठः अस्ति । यतो हि तस्य सर्वाः क्रियायाः संसारं प्रति गच्छन्ति । अतः तासां प्रति स्वतः एव अनासक्तिभावः उद्भवति । यदा साधकस्य मनसि स्वकल्याणस्य विचारः भवति, तदा सः कर्म विघ्नत्वेन स्वीकृत्य तस्मात् उपरामो भवितुम् इच्छति । वस्तुतः कर्मणि कृते कोऽपि दोषः न भवति । परन्तु कर्मणि कामभावना एव दोषः । अतः भगवान् कथयति यद्, बाह्येन्द्रियेषु संयमे कृते मनसि विषयानां चिन्तनं मिथ्याचारः इति । अतः मिथ्याचारिपुरुषात् आसक्तिरहितेन अन्येभ्यः कर्मकर्ता पुरुषः श्रेष्ठः इति । ततोधिकं मिथ्याचारिपुरुषात् सकामभावनया कर्मकर्ता पुरुषः अपि श्रेष्ठः अस्ति । तर्हि अन्येषां हिताय कर्मकर्तुः पुरुषस्य श्रेष्ठायाः विषये तु किं वक्तव्यम् ? अग्रे पञ्चमाध्याये यदा अर्जुनः भगवन्तं प्रक्ष्यति यद्, संन्यासकर्मयोः कः योगः श्रेष्ठः इति, तदा भगवान् उभयोः कल्याणत्वम् उक्त्वा कर्मंसन्न्यास्य अपेक्षया कर्मयोगः श्रेष्ठः इति वदिष्यति । अत्रापि तमेव आशयं स्वीकृत्य स्वार्थत्यागोत्तरम् अन्यस्य हिताय कर्मकर्ता एव कर्मयोगी श्रेष्ठः इति वदति ।
शाङ्करभाष्यम्
सम्पादयतुयस्त्विति । यस्तु पुनः कर्मण्यधिकृतः अज्ञः बुद्धीन्द्रियाणि मनसा नियम्य आरभतॆ अर्जुन, कर्मेन्दियैः वाक्पाण्यादिभिः । किमारभत् इत्याह कर्मयोगमसक्तः सन् फलाभिसन्धिवर्जितः सः विशिष्यतॆ इतरस्मात् मिथ्याचारात् ॥७॥
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये यस्त्विन्द्रियाणि मनसा... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च