सदृशं चेष्टते स्वस्याः...
श्लोकः
सम्पादयतु( ( शृणु))
- सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
- प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥
अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य त्रयस्त्रिंशत्तमः (३३) श्लोकः ।
पदच्छेदः
सम्पादयतुसदृशं चेष्टते स्वस्याः प्रकृतेः ज्ञानवान् अपि प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥
अन्वयः
सम्पादयतुज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशं चेष्टते । भूतानि प्रकृतिं यान्ति । निग्रहः किं करिष्यति ?
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
ज्ञानवान् अपि | ज्ञानसम्पन्नः अपि |
प्रकृतेः | स्वभावस्य |
सदृशम् | अनुरूपम् |
चेष्टते | कुरुते |
भूतानि | प्राणिनः |
प्रकृतिम् | स्वभावम् |
यान्ति | उपगच्छन्ति |
निग्रहः | निषेधः |
किं करिष्यति | किं वा विधास्यति? |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- प्रकृतेर्ज्ञानवानपि = प्रकृतेः + ज्ञानवानपि – विसर्गसन्धिः (रेफः)
तद्धितान्तः
सम्पादयतु- ज्ञानवान् = ज्ञान + मतुप् । ज्ञानम् अस्य अस्मिन् वा अस्ति ।
अर्थः
सम्पादयतुज्ञानवन्तोऽपि जन्मान्तरीयकर्मसंस्कारस्य अनुगुणमेव अस्मिन् जन्मनि प्रवर्तन्ते, किं पुनः मूर्खाः ? तस्मात् सर्वेऽपि मन्दाः स्वभावमेव अनुसरन्ति । न तेषां निग्रहः कथञ्चिदपि कर्तुं शक्यते ।
शाङ्करभाष्यम्
सम्पादयतुकस्मात् पुनः कारणात्त्वदीयं मतं नानुतिष्ठन्ति परधर्माननुतिष्ठन्ति, स्वधर्मं च नानुवर्तन्ते, त्वत्प्रतिकूलाः कथं न बिभ्यति त्वच्छासनातिक्रमदोषात्, तत्राह- सद्दशमिति।सद्दशमनुरूपं चेष्टते। कस्याः? स्वस्याः स्वकीयायाः प्रकृतेः। प्रकृतिर्नाम पूर्वकृतधर्माधर्मादिसंस्कारो वर्तमानजन्मादावभिव्यतक्तः सा प्रकृतिस्तस्याः सद्दशमेवसर्वो जन्तुर्ज्ञानवानपि किं पुनर्मूर्खः। तस्मात् प्रकृतिं यान्ति अनुगच्छन्ति भूतानि निग्रहः किं करिष्यति मम वान्यस्य वा ।।33।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये सदृशं चेष्टते स्वस्याः... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च