न बुद्धिभेदं जनयेद्...
न बुद्धिभेदं जनयेद् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः ज्ञानिनः अन्यान् प्रेरयेयुः इति वदति । पूर्वस्मिन् श्लोके भगवान् ज्ञानिनम् अज्ञानिवत् कार्यं कर्तुम् उक्त्वा अत्र ज्ञानिने अज्ञानिनां प्रेरणायाः दायित्वं यच्छति । सः कथयति यद्, परमात्मनः स्वरूपे अटलः विद्वान् पुरुषः शास्त्रविहतकर्मसु आसक्तानाम् आज्ञानिनां बुद्धौ विद्यमानं भ्रमम् अर्थात् कर्मसु अश्रद्धां नोत्पादयेत् । किन्तु स्वयं शास्त्रविहितानि सर्वाणि कर्माणि सम्यग्रीत्या आचरन् तान् अपि तथा कर्तुं प्रेरयेदिति ।
न बुद्धिभेदं जनयेद्... ज्ञानिनः अन्यान् प्रेरयेयुः | |
---|---|
श्लोकसङ्ख्या | ३/२६ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | सक्ताः कर्मण्यविद्वांसो... |
अग्रिमश्लोकः | प्रकृतेः क्रियमाणानि... |
श्लोकः
सम्पादयतु- न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
- जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥
पदच्छेदः
सम्पादयतुन बुद्धिभेदं जनयेत् अज्ञानां कर्मसङ्गिनाम् जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥ २६ ॥
अन्वयः
सम्पादयतुयुक्तः विद्वान् (कर्म) समाचरन् कर्मसङ्गिनाम् अज्ञानां बुद्धिभेदं न जनयेत् । सर्वकर्माणि जोषयेत् ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
युक्तः | परमात्मनि लीनः |
विद्वान् | ज्ञानी |
कर्मसङ्गिनाम् | कर्मासक्तानाम् |
अज्ञानाम् | अविदुषाम् |
बुद्धिभेदम् | संशयम् |
न जनयेत् | न उत्पादयेत् |
सर्वकर्माणि | सकलकर्तव्यानि |
समाचरन् | कुर्वन् |
जोषयेत् | तैः सेवयेत् (यथा ते सेवन्ते तथा कुर्यात् ।) |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- जनयेदज्ञानाम् = जनयेत् + अज्ञानाम् – जश्त्वसन्धिः
समासः
सम्पादयतु- बुद्धिभेदम् = बुद्धेः भेदः, तम् – षष्ठीतत्पुरुषः
- कर्मसङ्गिनाम् = कर्मणि सङ्गः कर्मसङ्गः – सप्तमीतत्पुरुषः
- कर्मसङ्गः एषाम् एषु वा अस्तीति कर्मसङ्गिनः (मुतबर्थे इनिप्रत्ययः) तेषाम्
- अज्ञानाम् = जानन्ति इति ज्ञाः । न ज्ञाः अज्ञाः, तेषां – नञ्बहुव्रीहिः
- सर्वकर्मणि = सर्वाणि कर्माणि - कर्मधारयः
कृदन्तः
सम्पादयतु- युक्तः = युजिर् + क्त (कर्तरि)
- समाचरन् = सम् + आङ् + चर् + शतृ (कर्तरि)
अर्थः
सम्पादयतुज्ञानी कर्मासक्तानाम् अविदुषां भ्रान्तिम् न उत्पादयेत् । स्वयं सत्कार्याणि कुर्वन् तद्द्वारापि तानि कारयेत् ।
भावार्थः
सम्पादयतु'न बुद्धिभेदं...वद्वान्युक्तः समाचरन्' – पूर्वस्मिन् श्लोके यस्य 'असक्तः विद्वान्' इत्यनेन पदेन वर्णनम् अभवत्, तस्यैव आसक्तिरहितस्य विदुषः अत्र 'युक्तः विद्वान्' इत्यनेन विवरणम् अस्ति । यस्य अन्तःकरणे स्वत- एव समता विद्यते, यस्य निर्वकार्यां स्थित्यां भवति, यस्य सर्वाणि इन्द्रियाणि वशीभूतानि सन्ति, यस्य कृते मृत्सुवर्णयोः भेदः नास्ति, तादृशः तत्त्वज्ञः महापुरुषः एव 'युक्तः विद्वान्' उच्यते [१] । 'सक्ताः अविद्वांसः' इत्यनेन पूर्वस्मिन् श्लोके येषां शास्त्रविहितकर्मसु आसक्तानाम् अज्ञानिनां पुरुषाणां वर्णनम् अभवत्, तेषाम् एव श्लोकेऽस्मिन् 'कर्मसङ्गिनाम्, अज्ञानाम्' इत्यनेन सम्बोधनम् अभवत् ।
शास्त्रविहितकर्माणि स्वस्य कृते फलं प्राप्तुं ये पुरुषाः कुर्वन्ति, तान् एव अत्र 'कर्मसङ्गी', 'अज्ञानी' इति वदति । श्रेष्ठपुरुषेषु कर्मविषये विशेषं दायित्वं भवति । यतो हि तेषाम् अनुसरणं कृत्वा एव अनेके जनाः स्वकर्म कुर्वन्ति । अतः भगवान् उपर्युक्तपदैः विद्वद्भ्यः आज्ञां यच्छति यद्, श्रेष्ठपुरुषेण तादृशम् आचरणं न करणीयं, येन अज्ञानिपुरुषाणां वर्तमानस्थित्याः पतनं स्यात् । अज्ञानिपुरुषाः ये अधुना यस्यां स्थित्यां सन्ति, तस्याः स्थित्याः विचलनोत्तरं तेषु 'बुद्धिभेद'स्य समुद्भवः एव तेषां पतनम् उच्यते । अत एव विद्वान् स्वकर्तव्यानुसारं शास्त्रोचितानि कार्याणि कुर्यात् । ते अन्ये पुरुषाः अपि निष्कामभावेन कर्तव्यकर्म कर्तुं प्रेरिताः भवेयुः । समाजस्य, गृहस्य च मुख्यजनेनापि अयम् उपदेशः अनुसर्तव्यः ।
बुद्धिभेदोत्पादकानि कानिचन उदाहरणानि । प्रथमोदाहरणम् - 'कर्मसु किम विद्यते ?' कर्मभिः तु जीवः बद्धो भवति । कर्म निष्कृष्टम् एव । कर्मणः त्यागं कृत्वा ज्ञानोपार्जनं कर्तव्यम् इत्यादयः उपदेशाः अन्येषां मनसि कर्तव्यकर्म प्रति अश्रद्धां जनयित्वा अविश्वासम् अपि जनयति । द्वितीयमुदाहरणम् – यत्र कुत्रापि पश्यामः, तत्र स्वार्थः अस्ति । स्वार्थं विना कोऽपि स्थातुं न शक्नोति । सर्वेऽपि स्वस्य स्वार्थं साधयितुं कर्म कुर्वन्ति । यदि मनुष्यः यत्किमपि कर्म करोति, तर्हि तस्मिन् फलेच्छातु भवत्येव । फलेच्छां विना कोऽपि कर्मप्रवृत्तः कथं स्याद् ? इति । तृतीयोदाहरणम् – फलेच्छया स्वस्य कृते कर्म कृते सति फलभोगाय पौनःपुन्येन जन्म स्वीकर्तव्यः भवति इत्यादि । उक्तेषु त्रिषु उदाहरणेषु कामनायुक्तस्य पुरुषस्य कर्मफलात् विश्वासः डोलायते । ततः तस्य फले आसक्ति तु न गच्छति, परन्तु शुभकर्मसु तस्य रुचिः अपि नावशिष्यते । बन्धनस्य कारणम् आसक्तिरेव, न तु कर्म । उक्तप्रवचनानुगुणम् अज्ञानिपुरुषेषु बुद्धिभेदम् अजनयित्वा तत्त्वज्ञपुरुषः स्वस्य वर्णाश्रमानुगुणं स्वकर्तव्यपालनं कृत्वा अन्यान् प्रेरयेत् । एवं सः स्वाचरणेन, वचनेन च अज्ञानिपुरुषेषु बुद्धिभ्रमम् अनुत्पाद्य तेषाम् क्रमशः उद्धाराय प्रयतताम् ।
यानि शास्त्रोचितानि शुभकर्माणि अज्ञानिपुरुषाः कुर्वन्तः सन्ति, तेषां प्रशंसा एव करणीया । तेषां कर्मणि यदि काश्चित् त्रुटयः अदृश्यन्त, तर्हि विदुषा तासां त्रुटीनाम् उपसंहाराय ते प्रेर्यन्ताम् । तेन सह विद्वान् पुरुषः अज्ञानिनं प्रेरयितुं शक्नोति यद्, पुजा-यज्ञ-दानादीनि शुभकर्माणि अत्यावश्याकानि । परन्तु तेषां फलं त्याज्यमेव । यतो हि सुवर्णस्य विक्रयणं कृत्वा पाषाणादीनां स्वीकारः मौढ्यम् एवेति । अर्थात् सर्वाणि शुभकर्माणि फलेच्छारहितानि कर्तव्यानि इति । एवं शनैः शनैः निष्कामभावं प्रति प्रेरितानाम् अज्ञानिनां मार्गात् बुद्धिभेदरूपं विघ्नम् अपि विद्वान् दरीकुर्वीत ।
उपासनाविषयेऽपि विद्वान् पुरुषः बुद्धिभेदं नोत्पादयेत । बहुधा केचन वदन्ति यद्, नामजपकाले यदि हृदि ईश्वरः न तिष्ठति, तर्हि नामजपकार्यं व्यर्थं भवतीति । प्रत्युत विदुषा वक्तव्यं यद्, नामजपः कदापि विफलः न भवति । किञ्च भगवन्तं प्रति किञ्चत् भावे सत्येव नामजपः भवति । अतः नामजपस्य कदापि त्यागः न करणीयः इति । मनुष्येषु सर्वथा गुणरहितत्वं न भवति । अतः अज्ञानिशु स्थितानां गुणानां प्रशंसां कृत्वा तेषाम् अवगुणानां परिष्काराय प्रयासः करणीयः । 'समाचरन्', 'जोषयेत्' इत्येताभ्यां पदाभ्यां भगवान् विद्वद्भ्यः द्वे आज्ञे ददाति । प्रप्रथमा तु स्वयं सावधानतया शास्त्रविहितानि कर्तव्यकर्माणी कुर्वीरन् । अपरा च कर्मसु आसक्तानाम् अज्ञानिपुरुषाणां प्रेरकैः भूत्वा ते अपि प्रेर्यन्ताम् । अन्येषु प्रभावं जनयितुं कृतं कर्म 'दम्भः' इति [२] । अत एव भगवान् अन्यान् प्रदर्शयितुं न अपि तु लोकसङ्ग्रहार्थं कर्म कर्तुम् आदिशति । तत्त्वज्ञपुरुषाय किमपि कर्तव्यकर्म नावशिष्यते, परन्तु तेन कर्तव्यकर्मणां सुचारुतया अवलम्बनं करणीयं, येन कर्मासक्तानां पुरुषाणां निष्कामकर्म प्रति महत्त्वबुद्धिः समुद्भवेत् ।
विदुषां निष्कामभावपूर्वकं कर्म दृष्ट्वा अज्ञानिनः अपि तथा कर्म कर्तुं प्रेरिताः भवन्ति । तात्पर्यम् अस्ति यद्, महापुरुषाणाम् आसक्तिरहितम् आचरणम् अज्ञानिमनुष्यं प्रेरयति । तस्मिन्नपि आसक्तिरहितं कर्म कर्तुम् इच्छां जागर्ति । एवं ज्ञानिपुरुषः कर्मसु आसक्तान् पुरुषान् आदरपूर्वकं बोधयित्वा तान् निषिद्धकर्मभ्यः मोचयेत । ततश्च निषिद्धकर्मभ्यः मुक्तः अज्ञानी पुरुषः सकामकर्मणां त्यागं कृत्वा निष्कामानि कर्माणि कुर्याद् इति अपि द्रष्टव्यम् ।
शाङ्करभाष्यम्
सम्पादयतुएवं लोकसंग्रहं चिकीर्षोर्ममात्मविदो न कर्तव्यमस्त्यन्यस्य वा लोकसंग्रहं मुक्त्वा | ततस्तस्यात्मविद इदमुपदिष्यते- नेति। बुद्धेर्भेदः बुद्धिभेदः ‘मया इदं कर्तव्यं भोक्तव्यं चास्य कर्मणः फलम्’ इति निश्चयरूपाया बुद्धेः भेदनं चालनं बुद्धिभेदः तं न जनयेत् न उत्पादयेत् अज्ञानाम् अविवेकिनां कर्मसङ्गिनां कर्मणि आसक्तानां आसङ्गवताम् । किं नु कुर्यात् ? जोषयेत् कारयेत् सर्वकर्माणि विद्वान् स्वयं तदेव अविदुषां कर्म युक्तः अभियुक्तः समाचरन् ॥२६||
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये न बुद्धिभेदं जनयेद्... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च