नियतं कुरु कर्म त्वं...
नियतं कुरु कर्म त्वम् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्मणा विना शरीरनिर्वाहः असम्भवः इति वदति । पूर्वस्मिन् श्लोके भगवान् अनासक्तिभावेन कर्म कर्तुः प्रशंसां कृत्वा अत्र अकर्मण्यापेक्षया कर्म श्रेष्ठम् इति वदति । सः कथयति यद्, त्वं शास्त्रविधिना उक्तानां कर्तव्यकर्मणां पालनं कुरु । यतो हि अकर्मणः अपेक्षया कर्मकरणं श्रेष्ठतरम् अश्ति । तथा च अकर्मण्ये सति शरीरनिर्वाहः अपि न सिद्ध्यति इति ।
नियतं कुरु कर्म त्वं... शरीरनिर्वाहस्य आधारः कर्म | |
---|---|
श्लोकसङ्ख्या | ३/८ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | यस्त्विन्द्रियाणि मनसा... |
अग्रिमश्लोकः | यज्ञार्थात्कर्मणोऽन्यत्र... |
श्लोकः
सम्पादयतु- नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
- शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ८ ॥
पदच्छेदः
सम्पादयतुनियतं कुरु कर्म त्वं कर्म ज्यायः हि अकर्मणः शरीरयात्रा अपि च ते न प्रसिद्ध्येत् अकर्मणः ॥ ८ ॥
अन्वयः
सम्पादयतुत्वं नियतं कर्म कुरु, कर्म हि अकर्मणः ज्यायः । अकर्मणः ते शरीरयात्रापि न प्रसिद्ध्येत् ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
त्वम् | त्वम् |
नियतम् | निर्दिष्टम् |
कर्म | कर्म |
कुरु | आचर |
हि | यतः |
अकर्मणः | कर्माभावात् |
कर्म | कर्माचरणम् |
ज्यायः | श्रेष्ठम् |
अकर्मणः | कर्माभावात् |
ते | तव |
शरीरयात्रा अपि | देहयात्रा अपि |
न प्रसिद्ध्येत् | न जायेत् । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- ज्यायो हि = ज्यायः + हि – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
- ह्यकर्मणः = हि + अकर्मणः – यण्सन्धिः
- शरीरयात्रापि = शरीरयात्रा + अपि - सवर्णदीर्घसन्धिः
समासः
सम्पादयतु- शरीरयात्रा = शरीरस्य यात्रा – षष्ठीतत्पुरुषः
- अकर्मणः = न कर्म, तस्य - नञ्तत्पुरुषः
कृदन्तः
सम्पादयतु- नियतम् = नि + यम् + क्त (कर्मणि)
तद्धितान्तः
सम्पादयतु- ज्यायः = प्रशस्य/वृद्ध + ईयसुन् (ज्य इति आदेशः)
अर्थः
सम्पादयतुभवान् नित्यं यस्मिन् कर्मणि अधिकृतः तत् कर्म आचरतु । कर्मणः अनाचरणात् कर्माचरणं श्रेष्ठं वर्तते । किञ्च कर्माभावे भवतः शरीरसंरक्षणमपि कर्तुं न शक्यते ।
भावार्थः
सम्पादयतुगीतायाः शैल्यानुसारं प्रप्रथमं प्रस्तुतस्य विषयस्य विवेचनं कृतम् । ततः तस्य पालने सति लाभः, अपालने हानिः च विवेचिता । ततः तस्य अनुष्ठानस्य आज्ञा प्रदत्ता । अत्र गीताशैल्याः उदाहरणं प्रत्यक्षम् अस्ति । अत्र भगवान् अर्जुनस्य प्रश्नस्य उत्तरं यच्छन् कर्मणः सर्वथात्यागः असम्भवः इति विवेचनं करोति । ततः कर्मणः स्वरूपात् त्यागः मनसा कर्मणः चिन्तनं मिथ्याचारः उक्तः । निष्कामभावेन यः कर्म करोति, सः श्रेष्ठः इति वदति । अधुना एतस्मिन् श्लोके भगवान् निष्कामभावानुसारं कर्तव्यकर्मणः आज्ञां यच्छति ।
'नियतं कुरु कर्म त्वम्' – शास्त्रेषु विहितकर्माणि, नियतकर्माणि च आज्ञापितानि । विहितकर्म इत्युक्ते समान्यरूपेण शास्त्रेषु प्रदर्शितम् आज्ञारूपं कर्म । यथा व्रतम्, उपवासः, उपासना इत्यादि । तेषां विहितकर्मणां पूर्णतया पालनम् एकया व्यक्तिना अतीव कठिनम् अस्ति । परन्तु निषिद्धकर्मणां त्यागः सुगमः भवति । विहितकर्मणां त्यागे तावान् दोषः न भवति, यावान् निषिद्धकर्मणि कृते सति भवति । यथा असत्यं न वक्तव्यं, चौर्यं न करणीयं, हिंसा न करणीया इतियादि । निषिद्धकर्मणां त्यागे कृते सति विहितकर्मणां पालनं स्वतः एव भवति ।
नियतकर्मणां पालनम् इत्युक्ते वर्ण-आश्रम-स्वभाव-परिस्थित्यानुसारं प्राप्तस्य कर्तव्यकर्मणः पालनम् । यथा मार्गच्युताय मार्गप्रदर्शनं, व्यापारः, पाठनम् इत्यादि । कर्मयोगी वर्णधर्मानुकूलं शास्त्रविहितं कर्तव्यकर्म प्राप्नोति चेत्, तत् कर्म घोरम् उत सौम्यम् अस्ति इति अदृष्ट्वा तस्य पालनं कुर्यात् । अत्र 'नियतं कुरु कर्म' इत्यनेन पदेन भगवान अर्जुनं कथयति यद्, तव क्षात्रधर्मत्वात् स्ववर्णानुगुणम् उपस्थितपरिस्थित्याः प्राप्तं युद्धं ते स्वाभाविकं कर्म अस्ति इति । युद्धादिकर्म वस्तुतः घोरं प्रतीयते, परन्तु तदेव क्षत्रिणेभ्यः नियतकर्म भवति । पूर्वमेव भगवान् अवदत्, यद्, स्वधर्मणः दृष्ट्या अपि युद्धं ते नियतकर्म अस्ति इति [१] । वस्तुतः स्वधर्म, नियतकर्म च एकमेवास्ति । यद्यपि दुर्योधनादिभ्यः अपि युद्धं वर्णधर्मानुगुणं प्राप्तं कर्म अस्ति, तथापि अन्यायुक्तत्वात् तेषां कर्म नियतकर्मभ्यः भिन्नम् अस्ति । यतो हि ते युद्धं कृत्वा अन्ययापूर्णतया राज्यं जेतुम् इच्छन्ति । अतः तेभ्यः एतत् युद्धं न तु नियतकर्म अस्ति, न च धर्मयुक्तं कर्म ।
'कर्म ज्यायो ह्यकर्मणः' – एतस्य अध्यायस्य प्रथमे श्लोके अर्जनः 'ज्यायसी' इत्येन यं प्रश्नम् अकरोत्, तस्य उत्तरम् अत्र भगवान् 'ज्यायः' इत्यनेन पदेन यच्छति । तत्र अर्जुनस्य प्रश्नः अस्ति यद्, यदि भवतः दृष्ट्या कर्मणः ज्ञानं श्रेष्ठम् अस्ति, तर्हि माम् एतस्मिन् घोरे कर्मणि किमर्थं योजयति ? इति । अत्र भगवान् उत्तरं ददाति यद्, अकर्मणः अपेक्षया कर्म एव श्रेष्ठम् अस्ति । एवम् अर्जुनः युद्धरूपिणः घोरकर्मणः निवृत्तेः विचारं कुर्वन् आसीत्, परन्तु भगवान् तं युद्धरूपिणि नियतकर्मणि अर्जुनस्य प्रवृत्तेः विचारं कुर्वन् अस्ति । अत एव अग्रे अष्टादशेऽध्याये भगवान् कथयिष्यति यद्, दोषयुक्ते सत्यपि सहज(नियत)कर्मणां त्यागः न करणीयः इति [२] । यतो हि तस्य त्यागः दोषकार्णं भवति । तथा कर्मभिः सह सम्बन्धविच्छेदः न भवति । अतः कर्मत्यागापेक्षया नियतकर्मपालनम् एव श्रेष्ठम् अस्ति । ततोधिकम् आसक्तिरिहते सति कर्तव्यकर्मणः पालनं तु सर्वापेक्षया श्रेष्ठतमम् उक्तम् अस्ति । यतो हि तेन एव कर्मणा सह सर्वथा सम्बन्धभङ्गः भवति । अतः एतस्य श्लोकस्य पूर्वार्धे भगवान् अर्जुनाय अनासक्तभावेन नियककर्म कर्तुम् आज्ञापयति, उत्तरार्धे च कर्म विना ते शरीरनिर्वाहः अपि असम्भवः भविष्यति इति कथयति ।
'कर्म ज्यायो ह्यकर्मणः' – कर्मयोगे एषः भगवतः प्रप्रथमः सिद्धान्तः अस्ति । एषः सिद्धान्तः एव पूरा भगवता 'मा ते सङ्गोऽस्त्वकर्मणि' इत्यादिभिः पदैः स्पष्टीकृतम् अस्ति । अर्थात् हे अर्जुन ! तव कर्मणि अपि आसक्तिः न स्यात् । यतो हि कर्तव्यकर्मणः विमुखः मनुष्यः प्रमादः, आलस्यं, निद्रा इत्यादिषु स्वस्य अमूल्यं समयं व्यर्थीकरिष्यति । अथवा तु शास्त्रनिषिद्धे कर्मणि समयं नाशयिष्यति । एवं तस्य पतनं भविष्यति । स्वरूपात् कर्मणः त्यागस्य अपेक्षया कर्मणि कुर्वन् कर्मभिः सह सम्बन्धविच्छेदः श्रेष्ठः अस्ति । यतो हि कामना, वासना, फलासक्तिः, पक्षपातः इत्यादयः कर्मभिः सह सम्बन्धं साधयन्ति । तस्य सम्बन्धस्य कृते मनुष्यस्य कर्मणः, अकर्मणः अपि भेदः न भवति । कामना इत्यादीनां त्यागस्य उद्देश्येन कर्मयोगस्य आचरणं करोति चेत्, कामनादीनां त्यागे सुगमता भवति ।
'शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः' – अर्जुनस्य मनसि तादृशः भावः आसीत् यद्, यदि कर्म एव न कुर्मः, तर्हि कर्मणा सह स्वतः एव सम्बन्धः भवेत् इति । अतः भगवान् विविधाभिः युक्तिभिः अर्जुनं कर्म कर्तुं प्रेरयति । तासु युक्तिषु एकस्याः युक्तेः वर्णनं कुर्वन् भगवान् वदति यद्, हे अर्जुन ! त्वया कर्माणि तु करणीयानि एव । अन्यस्य कस्यापि विषयस्य तु त्यजतु कर्म विना त्वं स्वस्य शरीरस्य निर्वाहः अपि असम्भवः भविष्यति इति । यथा ज्ञानयोगे विवेकेन संसारात् सम्बन्धविच्छेदः भवति, तथैव कर्मयोगेऽपि कर्तव्यकर्मणः औचित्येन अनुष्ठाने कृते संसारात् सम्बन्धविच्छेदः भवति । अतः ज्ञानयोगापेक्षया कर्मयोगः निम्नतरः इति कदापि न चिन्तयनीयम् । कर्मयोगी शरीरं संसारस्य मत्वा तत् संसारस्य सेवायाम् एव योजयति । अर्थात् शरीरे तस्य ममत्वं न भवति । सः स्थूल-सूक्ष्म-कारण-शरीराणाम् एकता स्थूल-सूक्ष्म-कारण-संसारेण सह एव करोति । अपरत्र ज्ञानयोगी स्वस्य एकता ब्रह्मणा सह अस्ति इति सिद्ध्यति । एवं कर्मयोगी जडतत्त्वानाम् एकतां साधयति, ज्ञानयोगी च चेतनत्त्वस्य एकतां साधयति इति ।
मर्मः
सम्पादयतुअर्जुनस्य कर्मणि अरुचिः अस्ति । अर्थात् तस्य आग्रहः कर्मत्यागे अस्ति । केवलम् अर्जुनस्य एव न अपि तु परमार्थमार्गस्य बहवः साधकाः प्रायः एतस्मिन् विषये एव भ्रमिताः भवन्ति । यद्यपि तेषाम् अच्छा साधनस्य एव भवति, ते साधनं कुर्वन्ति अपि, तथापि ते स्वस्य मनोवाञ्छितपरिस्थितिम्, अनुकूलतां, सुखबुद्धिं च कदापि न त्यजन्ति, अतः तेषां साधने महती बाधा उद्भवति । यः साधकः तत्त्वप्राप्तौ सुगताम् अन्विषति, तथा च शीघ्रं हि तत्त्वप्राप्तिं कर्तुम् इच्छति, सः वस्तुतः सुखप्रमी अस्ति, न तु साधनप्रेमी । यः सौगमेयन तत्त्वप्राप्तिं कर्तुम् इच्छति, तेन अधिका प्रतिकूलता सोढनीया भवति । तथा च यः शीघतया तत्त्वप्राप्तिम् इच्छति, तेन विलम्बः सोढनीयः भवति । यतो हि सुगमतायाः, शीघ्रतायाः च इच्छा साधकस्य ध्यानं 'साधने' न अपि तु 'फले' कर्षयति । तेन साधनानुसरणे साधकः जामितः भवति, तत्त्वप्राप्तै विलम्बः अपि भवति । यस्य दृढविश्वासः अस्ति यत्, यत्किमपि भवेद् अहं तत्त्वं प्राप्नोमि एव इति, तर्हि तस्य ध्यानं सुगमतां, शीघ्रतां च प्रति न गच्छति । तत्परतया यदा समान्यमनुष्यः स्वकार्यं प्रति प्रवृत्तः भवति, तदा सः सुखदुःखयोः चिन्तां न करोति [३], तर्हि साधकस्य तु किं वक्तव्यम् ?
अत्र ज्ञातव्यं यद्, उत्कष्ठा, शीघ्रता इत्यते भिन्ने इति । आसक्तिपूर्वकं साधनं कुर्वाणः साधकः साधने एव सुखभोगं करोति, तस्मिन् यदि विलम्बः अथवा विघ्नः उत्पद्यते, तर्हि क्रुद्धः भवति । ततः साधने तस्य दोषदृष्टिः उत्पद्यते । परन्तु प्रेमपूर्वकं साधनं कुर्वाणः साधकः साधने विलम्बम् उत विघ्नं दृष्ट्वा आर्तभावेन रुदति । तद् आर्तभावेन रोदनमेव उत्कण्ठा इति । एवं शीघ्रतायाम् अन्तरम् अस्ति । शीघ्रतायां साधकस्य ध्यानं सुखसुविदादिषु भवति । अर्थात् एकवारं तत्त्वप्राप्तिः भवेत्, ततः विश्रामं करिष्यामि इति । परन्तु उत्कण्ठायां साधकः स्वस्य साधने एव आरामं मनुते । यतो हि साधनं विना किमपि करणीयं नास्ति । अतः एतदेव साधनं करणीयम् अस्ति, तत् सुगमतया उत काठिन्येन प्राप्नुयात् । अतः तस्य साधकस्य सर्वा शक्तिः साधने एव युक्ता भवति । एवं तस्य तत्त्वप्राप्तिः शीघ्रा भवति । परन्तु यः शीघ्रतया सिद्धिम् इच्छति, सः साधकः साध्यं विलम्बेन प्राप्नोति । यतो हि विलम्बस्य कारणेन सः निरासः अपि भवितुम् अर्हति । अतः साधकेन साध्यापेक्षया साधनस्य सम्माननम् अधिकं करणीयम् ।
एवं प्रस्तुते श्लोके अर्जुनं निमित्तीकृत्य भगवान् साधकान् सावाधानं कुर्वन् वदति यद्, साधकेन स्वस्य अनुकूलता, सुखुबुद्धिः च त्यक्त्वा कर्तव्यकर्माणि एव तत्परतया साधनीयानि इति ।
शाङ्करभाष्यम्
सम्पादयतुयत एवमतः-नियममिति। नियतं नित्यं शास्त्रोपदिष्ठं यो यस्मिन्कर्मण्यधिकृतः फलाय चाश्रुतं तन्नियतं कर्म तत् कुरु त्वं हेऽर्जुन, यतः कर्म ज्यायोऽधिकतरं फलतो हि यस्मात्तदकर्मणोऽकरणादनारम्भात्।कथं ? शरीरयात्रा शरीरस्थितिरपि च ते तव न प्रसिद्धिं न गच्छेदकर्मणोऽकरणात्। अतो दृष्टः कर्माकर्मणोर्विशेषो लोके ।।8।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये नियतं कुरु कर्म त्वं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च