तत्त्ववित्तु महाबाहो...
तत्त्ववित्तु महाबाहो ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः साङ्ख्ययोगिनः वैलक्षण्यं प्रदर्शयति । पूर्वस्मिन् श्लोके भगवान् मूढपुरुषाणां लक्षम् उक्त्वा अत्र कर्मासक्तजनेभ्यः अपेक्षया साङ्ख्ययोगिनि का विलक्षणता वर्तते इति प्रतिपादयति । सः वदति यद्, परन्तु हे महाबाहो ! गुणविभागस्य, कर्मविभागस्य च तत्त्वज्ञः महापुरुषः 'सर्वे गुणाः एव गुणेषु वर्तन्ते' इति ज्ञात्वा तेषु आसक्तः न भवति इति ।
तत्त्ववित्तु महाबाहो... साङ्ख्ययोगिनः वैलक्षण्यम् | |
---|---|
श्लोकसङ्ख्या | ३/२८ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | प्रकृतेः क्रियमाणानि... |
अग्रिमश्लोकः | प्रकृतेर्गुणसम्मूढाः... |
श्लोकः
सम्पादयतु- तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
- गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥
पदच्छेदः
सम्पादयतुतत्त्ववित् तु महाबाहो गुणकर्मविभागयोः गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते ॥ २८ ॥
अन्वयः
सम्पादयतुमहाबाहो ! गुणकर्मविभागयोः तत्त्ववित् तु गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
महाबाहो | महाबाहो (अर्जुन) |
गुणकर्मविभागयोः | चक्षुरादीनाम् इन्द्रियाणां दर्शनादीनां च क्रियाणां विभागयोः |
तत्त्ववित् तु | याथातथ्येन ज्ञाता पुनः |
गुणाः | चक्षुरादीनि इन्द्रियाणि बुद्धिः मनश्च |
गुणेषु | रूपशब्दादिषु |
वर्तन्ते | विद्यन्ते |
इति मत्वा | इति ज्ञात्वा |
न सज्जते | आत्मा सक्तो न भवति। |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- गुणा गुणेषु = गुणाः + गुणेषु – विसर्गसन्धिः (लोपः)
- वर्तन्त इति = वर्तन्ते + इति – यान्तावान्तादेशसन्धिः (यलोपः)
समासः
सम्पादयतु- गुणकर्मविभागयोः = गुण च कर्म च गुणकर्मणी – द्वन्द्वः
- गुणकर्मणोः विभागः, तयो – षष्ठीतत्पुरुषः
कृदन्तः
सम्पादयतु- मत्वा = मन् + क्त्वा
अर्थः
सम्पादयतुहे महाबाहो ! चक्षुःश्रोत्रादीनि ज्ञानेन्द्रियाणि, वाक्पाणिप्रभृतीनि कर्मेन्द्रियाणि, बुद्धिः मनश्च प्रकृतिजन्यानि इति गुणाः इत्युच्यन्ते । तानि च क्रमेण दर्शनश्रवणादौ वचनस्वीकारादौ अहारेण सङ्कल्पेन च प्रवर्तन्ते । न कदापि आत्मा एतेषु कर्मसु व्याप्रियते, निष्क्रियत्वात् । एवं गुणाः के,तेषां च क्रियाः काः इति ज्ञात्वा अयम् आत्मा तेभ्यः भिद्यते इति यः वस्तुस्थितिं विजानाति सः कदापि रूपशब्दादीनां दर्शनश्रवणादौ न ममतां प्राप्नोति ।
भावार्थः
सम्पादयतु'तत्त्ववित्तु महाबाहो गुणकर्म विभागयोः' – पूर्वस्मिन् श्लोके वर्णिताद् 'अहङ्कारविमूढात्मा' इत्येन पदेन तत्त्वज्ञमहापुरुषेभ्यः सर्वथा भिन्नः, विलक्षणः इति प्रदर्शयितुम् अत्र 'तु' इत्यस्य पदस्य उपयोगः अभवत् । सत्त्वरजस्तमानां त्रिगुणानां कार्यत्वात् समस्ता सृष्टिः त्रिगुणात्मिका उच्यते । अतः शरीरेन्द्रियमनोबुद्धिप्राणिपदार्थादयः सर्वेऽपि त्रिगुणमयाः । एवं ते गुणविभागे अन्तर्भवन्ति । शरीरादिभ्यः जायमनाः क्रियाः 'कर्मविभागे' समन्तर्भवन्ति । गुणाः (पदार्थाः), कर्माणि च निरन्तरं परिवर्तनशीलाः भवन्ति । पदार्थाः उत्पन्नविनाशशिलाः, क्रियाश्च आरम्भान्तयुक्ताः । एतादृशः यथार्थोऽनुभव एव गुणकर्मविभागयोः तत्त्वज्ञानम् उच्यते । अज्ञानिपुरुषः यदा गुणकर्मविभागाभ्यां सह स्वसम्बन्धं मनुते, तदा सः बद्धो जायते । शास्त्रीयया दृष्ट्या तस्य बन्धनस्य मुख्यं कारणम् 'अज्ञानम्' एव, परन्तु साधकस्य दृष्ट्या 'राग' एव तत्र मुख्यतया कारणभूतम् । विवेके जाग्रते सति रागो निश्यति । स विवेकः सर्वसु प्राणिषु भवत्येव । परन्तु तस्य महत्त्वं ज्ञात्वा तस्य उपयोगस्य आवश्यका भवति । अतः विवेकजागृतिपूर्वकं साधकः रागनाशाय प्रयस्येत् ।
'गुणा गुणेषु वर्तन्ते' – प्रकृतिजन्येभ्यः गुणेभ्यः उत्पन्नत्वाच्छरीरेन्द्रियमनोबुद्ध्यादयः अपि 'गुणाः' । तैः सर्वाणि कर्माणि भवन्ति । अविवेकिपुरुषः तैः गुणैः सह सम्बन्धं स्थापयति । तैः जायमानानां क्रियाणां कर्तृत्वेन आत्मानां प्रस्थापयति । यथा वाणी 'पदार्थः' अस्ति । वदनक्रियायाः प्रवृत्तिः 'क्रिया' भवति । वदनं तु समष्टिशक्त्या एव जायमानम् अस्ति । अर्थात् गुणाः एव गुणेषु वर्तन्ते । परन्तु मनुष्यः अज्ञानवशात् पदार्थस्य, क्रियायाः च सम्बन्धं स्वेन सह मत्वा आत्मानं कर्तृत्वेन चिन्तयति । रेल-यानस्य प्रचालकयन्त्रं (Engine) चलति । अर्थात् तस्मिन् क्रिया भवति । परन्तु कर्षणशक्तिः प्रचालकयन्त्रात्, चालकाच्च उद्भवति । वस्तुतः कर्षणशक्तिः तु प्रचालकयन्त्रस्य एव भवति । परन्तु चालकेन सञ्चालनत्वाद्देव गन्तव्यस्थानं प्रति प्राप्तुं शक्नुमः । किञ्च प्रचालनयन्त्रे इन्द्रिय-मनो-बुद्धयः न सन्ति, अतः तस्य सञ्चालनाय इन्द्रिय-मनो-बुद्धियुक्तस्य चालकस्य (मनुष्यस्य) आवश्यकता भवति । परन्तु मनुष्यस्य पार्श्वे शरीररूपं प्रचालकयन्त्रम् अस्ति । तस्य सञ्चालनाय इन्द्रिय-मनो-बुद्धयः अपि सन्ति । शरीरेन्द्रियमनोबद्धीनां सत्तास्फूर्तिस्रोतः कश्चन प्रकाशपुञ्जः चेतनः एव । तस्य प्रेरणया एव ताः कार्याय समर्थाः भवन्ति । सामान्यप्रकाशस्य प्रतिबम्बः (ज्ञानम्) बुद्धौ आपतति, बुद्धेः ज्ञानं मनः स्वीकरोति । मनसः ज्ञानाद् इन्द्रियाणि कार्यं कुर्वन्ति । एवं शरीररूपिणः प्रचालनयन्त्रस्य सञ्चालनं भवति । शरीरायः गुणाः आत्मतत्त्वादेव स्फुर्तिमन्ताः भवन्ति । सः आत्मा सर्वदा निर्लिप्तः तिष्ठति । एवं वस्तुतः सर्वेऽपि गुणाः एव गुणेः वर्तन्ते ।
श्रेष्ठपुरुषस्य आचरणानामेव सर्वेऽपि अनुसरणं कुर्वन्ति । अत एव भगवान् तैः लोकसङ्ग्रहस्य कार्यं कथं स्यादित्यस्य वर्णनं करोति । सः कथयति यद्, यथा 'गुणाः गुणेषु वर्तन्ते' इति महापुरुषाः अनुभवन्ति, अतः ते आसक्ताः न भवन्ति, तथैव साधकोऽपि मत्वा तेषु गुणेषु आसक्तः मा भूयात् । आकर्षणं सर्वदा सजातीयतायामेव भवति । यथा कर्णयोः शब्देषु, त्वचः स्पर्शे, नेत्रयोः रूपे, जिह्वायाः रसेषु, नासिकायाः गन्धे च आकर्षणं भवति । एकस्य इन्द्रियस्य अपरस्य इन्द्रियस्य विषये कदापि आकर्षणं न भवति । आकर्षणस्य, प्रवृत्तेः, निवृत्तेः च सिद्धिः सजातीयतायामेव भवति । विजातीयवस्तुषु न तु आकर्षणं भवति, न तु प्रवृत्तिः । एवम् आकर्षणं, प्रवृत्तिः, निवृत्तिश्च 'प्रकृतौ' एव भवति । पुरुषे (आत्मनि) विजातीयं प्रति (प्रकृतिं प्रति) यदाकर्षणम् अनुभूते, तत्तु वस्तुतः प्रकृत्यंशत्वादेव प्रतीयते । करणस्य, भोगस्य च क्रिया प्रकृते एव भवन्ति, पुरुषे न ।
त्रयोदशस्य अध्यायस्य एकत्रिंशे श्लोके भगवान् वदति यत्, शरीरे विद्यमानः पुरुषः वस्तुतः तस्माद् अलिप्तः भवति इति [१] । पुरषस्तु केवलं 'प्रकृतिस्थः' अर्थात् प्रकृत्या सह तादात्म्यं स्थापयति, अतः सुखदुःखादीनां भोक्तृत्वे स्वकारणं स्वीकरोति [२] [३] । तात्पर्यम् अस्ति यद्, यद्यपि सर्वाः क्रियाः, क्रियाणां सिद्धिः, आकर्षणं प्रकृतौ एव भवति, तथापि प्रकृत्या सह तादात्म्यं मन्यमानः पुरुषः 'अहं सुखी', 'अहं दुःखी' इत्यादि विचन्त्य स्वस्य भोक्तृत्वस्य कारणं भवति । यतो हि सुखी, दुःखी च चेतनः न, अपि तु प्रकृतिः भवति, अतः सः प्रकृतिं विना सुखदुःखयोः भोक्ता भवितुं नार्हति ।
पुरुषे प्रकृतिवत् परिवर्तनरूपिणी क्रिया उत विकारः नास्ति, परन्तु तस्मिन् सम्बन्धस्थापनस्य उत सम्बन्धविच्छेदस्य योग्यता तु अस्त्येव । सः पाषाणवत् जडः नास्ति, परन्तु ज्ञानस्वरूपः अस्ति । यदि परुषे सम्बन्धस्थानस्य, सम्बन्धविच्छेदस्य च योग्यता नावभिष्यति, तर्हि प्रकृत्या सह स्वस्य सम्बन्धं कथं स्वीकुर्यात् ? प्रकृत्या सह सम्बन्धं मत्वा स्वस्य क्रियाभिः सह स्वस्य सम्बन्धं कथम् आरोपयेत् ? स्वस्मिन् कर्तृत्वभावस्य, भोक्तृत्वभावस्य च कथं स्वीकारं कुर्यात् ? सम्बन्धस्य स्वीकारः उत अस्वीकारः 'भावः' अस्ति, न तु 'क्रिया' । पुरुषे सम्बन्धस्थापनस्य सम्बन्धविच्छेस्य च क्षमता अस्ति, परन्तु क्रियायाः नास्ति । क्रियां कर्तुं योग्यता तस्मिन् भवति, यस्मिन् विकारः भवति, अर्थात् यः परिवर्तनशीलः भवति । प्रकृतेः स्वभावः परिवर्तनशीलः, पुरुषस्य स्वभावः अपरिर्तनशीलः भवति । एवं स्वयं क्रियां कुर्वन् अस्ति इति पुरुषः स्वयं मन्यते, सा वास्तविकता न [४] ।
पुरुषे परिवर्तनं न भवति इति न पुरुषस्य दौर्बल्यम् उत अयोग्यता । प्रत्युत सा एव तस्य माहात्म्यम् । परिवर्तनक्रिया केवलं प्रकृतेः स्वभावः, न तु पुरुषस्य । परन्तु प्रकृत्या सह स्वसम्बन्धस्य विच्छेदज्ञानाय पुरुषे योग्यता, सामर्थ्यं, स्वातन्त्र्यं च भवति । यतो हि वस्तुतः प्रकृत्या सह तस्य कोऽपि सम्बन्धः नास्ति । यदा प्रकृतेः अंशभूतं शरीरं पुरुषः स्वस्य स्वरूपत्वे मनुते, तदा प्रकृतेः तस्मिन्नंशे आकर्षणं, क्रियाः, तासां फलप्राप्तिः च भवन्ति । एतस्य सङ्केतं कर्तुमेवात्र 'गुणाः गुणेषु वर्तन्ते' इत्येतेषां पदानामुपयोगोऽभवत् ।
'इति मत्वा न सज्जते' – अत्र 'मत्वा' इत्यस्य पदस्य उपयोगोऽत्र 'अवगमनार्थे' अस्ति । तत्त्वज्ञः पुरुषः प्रकृतिं (जडं), पुरुषं (चेतनं) च स्वाभाविकतया भिन्नं वेत्ति । अत एव सः प्रकृतिजन्येषु गुणेषु आसक्तो न भवति । 'मत्वा' इत्यस्य पदस्य उपयोगेन भगवान् अत्र आदिशति यद्, साधकाः अपि प्रकृतिजन्येभ्यः गुणेभ्यः आत्मानं भिन्नं मत्वा तेषु आसक्ताः न भवेयुरिति ।
कर्मयोगिनः, साङ्ख्ययोगिनः च साधनाप्रणाल्याम् एकता न भवति । 'कर्मयोगी' तु शरीरेण सह स्थापितस्य सम्बन्धस्य विच्छेदाय प्रयसति । अत एव श्रीमद्भागवतमहापुराणे उक्तम् अस्ति यद्, कर्मयोगः कामिभ्यः एवेति [५] । गीताशास्त्रेऽपि भगवता पौनःपुन्येन कर्मयोगिनः कर्म कर्तुं विशेषतया आदिश्यन्ते । यथा – कर्मणः आरम्भम् अकृत्वा मनुष्यः निष्कर्मतां प्राप्तुं न प्रभवति [६] । योगे आरुरुक्षमाणाय (आरोहेच्छुकाय) मननशीलाय पुरुषाय कर्म एव साधनम् उच्यते [७] । कर्मयोगी कर्म तु करोति, परन्तु अन्येषां हिताय एव करोति इत्यादि । कर्मयोगी अन्येभ्यः कर्म करोति, अत एव सः भोक्ता न भवति । भोक्तृत्वस्य नाशे सति कर्तृत्वस्य स्वतः एव नाशो भवति । तात्पर्यम् अस्ति यद्, कर्तृत्वं फलेच्छा एव । फलोद्देश्याभावत् कर्तृत्वमपि न । अत एव वस्तुतः कर्मयोगी अपि न कर्ता इति ।
साङ्ख्ययोगिनि विवेकविचारस्य प्राधान्यं भवति । सः 'प्रकृतिजन्याः गुणाः एव गुणेषु वर्तन्ते' इति ज्ञात्वा स्वस्य क्रियाणां कर्तृत्वं न मनुते । अत एव भगवान् त्रयोदशाध्याये कथयति यद्, यः पुरुषः 'सर्वाणि कर्माणि सर्वधा प्रकृत्या एव जायन्ते' इति पश्यति, आत्मानं च अकर्तृत्वे लक्षते, स एव यथार्थं पश्यति । एवं साङ्ख्ययोगी कर्तृत्वं नश्यति । कर्तृत्वनाशे तस्य भोक्तृत्वं स्वतरेव जम्भति (नश्यति) । तृतीयाध्याये भगवान् सर्वविधोदाहणने बोधयति यद्, कर्म एव श्रेयस्करम् अस्ति इति [८] [९] [१०] ।
शाङ्करभाष्यम्
सम्पादयतुयः पुनर्विद्वान् तत्त्वविदिति। तत्त्ववित्तु महाबाहो, कस्य तत्त्वविद् गुणकर्मविभागयोर्गुणविभागस्य कर्मविभागस्य च तत्त्वविदित्यर्थः। गुणाः करणात्मका गुणेषुविषयात्मकेषु वर्तन्ते नात्मेति मत्वा न सज्जते सक्तिं न करोति ।।28।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये तत्त्ववित्तु महाबाहो... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतु- ↑ शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते
- ↑ पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते, गीता, अ. १३, श्लो. २०
- ↑ पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्, गीता, अ. १३, श्लो. २१
- ↑ कर्ताहमिति मन्यते, गीता, अ. ३, श्लो. २७
- ↑ कर्मयोगस्तु कामिनाम्, श्रीमद्भागवतमहापुराणम्, स्कन्धः ११, अ. २०, श्लो. ७
- ↑ गीता, अ. ३ , श्लो. ४
- ↑ गीता, अ. ६ , श्लो. ३
- ↑ जनकादयः महापुरुषाः अपि निष्कामभावेन कर्म कृत्वा परमसिद्धिं प्राप्तवन्तः, गीता, अ. ३, श्लो, २०
- ↑ अहमपि कर्म करोमि, गीता, अ. ३ , श्लो. २२
- ↑ ज्ञानिमहापुरुषाः अपि अज्ञानिपुरुषवत् लोकसङ्ग्रहार्थे कर्म कुर्वन्ति, गीता, अ. ३ , श्लो. २५ - २६
अधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च