()

 
गीतोपदेशः
श्रीभगवानुवाच
काम एष क्रोध एष रजोगुणसमुद्भवः।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य सप्तत्रिंसशत्तमः (३७) श्लोकः ।

पदच्छेदः

सम्पादयतु

कामः एषः क्रोधः एषः रजोगुणसमुद्भवः महाशनो महापाप्मा विद्धि एनम् इह वैरिणम् ॥ ३७ ॥

एषः कामः एषः क्रोधः रजोगुणसमुवः महाशनः महापाप्मा च अस्ति । (तेन) इह एनं वैरिणं विद्धि ।

शब्दार्थः

सम्पादयतु
अन्वयः सरलसंस्कृतम्
एषः कामः अयम् अभिलाषः
एषः क्रोधः अयं रोषः
रजोगुणसमुवः रजोगुणात् उत्पन्नः
महाशनः महाभोजनः
महापाप्मा महापापः च
इह अत्र
एनम् अमुम्
वैरिणम् शत्रुम्
विद्धि जानीहि ।

व्याकरणम्

सम्पादयतु
  1. काम एष क्रोध एष = कामः + एषः + क्रोधः + एषः – विसर्गसन्धिः (लोपः)
  2. महाशनो महापाप्मा = महाशनः + महापाप्मा – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  3. विद्ध्येनम् = विद्धि + एनम्
  1. रजोगुणसमुद्भवः = रजोगुणात् समुद्भवः – पञ्चमीतत्पुरुषः
  2. महाशनः ¬= महत् अशनं यस्य सः – बहुव्रीहिः
  3. महापाप्मा = महत् पाप्मा यस्मिन् सः – बहुव्रीहिः

तद्धितान्तः

सम्पादयतु
  1. वैरी = वैर + इनि (मतुबर्थे) । वैरम् अस्य अस्मिन् वा अस्ति इत्यर्थः ।

अयं विषयाभिलाषः । प्रतिरोधे सति अयमेव क्रोधः इति उच्यते । अयं रजोगुणात् समुवति । अनेन पुरुषः अपरिमितानि वस्तूनि प्राप्तुम् इच्छति इति हेतोः अयं महाशनः । अनेनैव हेतुना अपरिमितं पापं च करोति इति अयं महापाप्मा इति उच्यते । अनेनैव प्रेरितः एव पुरुषः पापम् अवाप्नोति इति एनं वैरिणं भावय ।

शाङ्करभाष्यम्

सम्पादयतु

शृणु त्वं तं वैरिणं सर्वानर्थकरं यं त्वं पृच्छसि-श्रीभगवानुवाच। 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना'। ऐश्वर्यादिषट्कंयस्मिन् वासुदेवे नित्यमप्रतिबन्धत्वेन सामस्त्येन च वर्तते 'उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम्। वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति'। उत्पत्यदिविषयंतच विज्ञानं यस्य स वासुदेवो वाच्यो भगवानिति। काम इति। काम एष सर्वलोकशत्रुर्यन्निमित्ता सर्वानर्थप्राप्तिः प्राणिनां स एष कामः प्रतिहतः केनचित्क्रोधत्वेनपरिणमते। अतः क्रोधोऽप्येष एव। रजोगुणसमुद्भवो रजश्च तद् गुणश्च रजोगुणः समुद्भवो यस्य स कामो रजोगुणसमुद्भवो रजोगुणस्य वा समुद्भवः, कामो ह्युद्भूतो रजः प्रवर्तयन्पुरुषं प्रवर्तयति। तृष्णयाह्यहंकारित इति दुःखितानां रजःकार्ये सेवादौ प्रवृत्तानां प्रलापः श्रूयते। महाशनो महदशनमस्येति महाश्नोऽतएव महापाप्मा कामेन प्रेरितो जन्तुः पापं करोति। अतोविद्धयेनं काममिह संसारे वैरिणम् ।।37।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
अथ केन प्रयुक्तोऽयं...
काम एष क्रोध एष... अग्रिमः
धूमेनाव्रियते वह्निः...
 
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु

अधिकवाचनाय

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=काम_एष_क्रोध_एष...&oldid=393859" इत्यस्माद् प्रतिप्राप्तम्