तस्मात्त्वमिन्द्रियाण्यादौ...
श्लोकः
सम्पादयतु( ( शृणु))
- तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
- पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥
अयं भगवद्गीतायाः तृतीयोध्यायस्य एकचत्वारिंशत्तमः (४१) श्लोकः ।
पदच्छेदः
सम्पादयतुतस्मात् त्वम् इन्द्रियाणि आदौ नियम्य भरतर्षभ पाप्मानं प्रजहि हि एनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥
अन्वयः
सम्पादयतुभरतर्षभ ! तस्मात् त्वम् आदौ इन्द्रियाणि नियम्य ज्ञानविज्ञाननाशनं पाप्मानम् एनं प्रजहि ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
भरतर्षभ | भरतश्रेष्ठ ! |
तस्मात् | तेन हेतुना |
त्वम् | त्वम् |
आदौ | प्रथमम् |
इन्द्रियाणि | नेत्रादीनि |
नियम्य | निगृह्य |
ज्ञानविज्ञाननाशनम् | समस्तविज्ञाननाशनम् |
एनम् | इमम् |
पाप्मानम् | पापम् |
प्रजहि | त्यज । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- इन्द्रियाण्यादौ = इन्द्रियाणि + आदौ – यण्सन्धिः
- ह्येनम् = हि + एनम् – यण्सन्धिः
समासः
सम्पादयतु- भरतर्षभः = भरतः ऋषभः इव – उपमतिसमासः (कर्मधारयः)
- ज्ञानविज्ञाननाशनम् = ज्ञानं च विज्ञानं च, ज्ञानविज्ञाने – द्वन्द्वः
- ज्ञानविज्ञानयोः नाशनम्, तत् – षष्ठीतत्पुरुषः
कृदन्तः
सम्पादयतु- नियम्य = नि + यम् + ल्यप्
अर्थः
सम्पादयतुअर्जुन ! अतः भवान् आदौ सर्वाणि इन्द्रियाणि संयम्य समस्तविज्ञाननाशकम् एनं पापं त्यजतु ।
शाङ्करभाष्यम्
सम्पादयतुयत एवं-तस्मादिति। तस्मात्त्वमिन्द्रियाण्यादौ पूर्वं नियम्य वशीकृत्य भरतर्षभ, पाप्मानं कामं प्रजहिहि परित्यज, एनं प्रकृतं वैरिणं ज्ञानविज्ञाननाशनं ज्ञानं शास्रत आचार्यतश्चात्मादीनामबरोधः विज्ञानं विशेषस्तदनुभवस्तयोर्ज्ञानविज्ञानयोः श्रेयःप्राप्तिहेत्वोर्नाशनं नाशकरं प्रजहिहि आत्मनः परित्यजेत्यर्थः ।।41।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये तस्मात्त्वमिन्द्रियाण्यादौ... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च