उत्सीदेयुरिमे लोका () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः स्वस्य अकर्मण्यतायाः कारणेन उत्पन्नस्य नाशस्य वर्णनं करोति । पूर्वस्मिन् श्लोके भगवान् स्वस्य अकर्मण्यतायाः कारणने किं किं भवितुम् अर्हति इत्यस्य विवरणम् आरब्धवान् । तस्य विवरणस्य द्वितीयसोपानत्वेन अत्र सः मनुष्यतायाः नाशात्मकताम् उपस्थापयति । सः वदति यद्, यदि अहं कर्म न कर्याम्, तर्हि इमे सर्वे मनुष्याः निष्टाः भविष्यन्ति । तथा च अहं सङ्करतायाः कर्ता स्याम् । एवञ्च सर्वासां प्रजानां नाशकः भवेयमिति ।

उत्सीदेयुरिमे लोका...


ईश्वरस्य अकर्मणा नाशस्य वर्णनम्
श्लोकसङ्ख्या ३/२४
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः यदि ह्यहं न वर्तेयं...
अग्रिमश्लोकः सक्ताः कर्मण्यविद्वांसो...
 
गीतोपदेशः
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥

पदच्छेदः

सम्पादयतु

उत्सीदेयुः इमे लोकाः न कुर्यां कर्म चेत् अहम् सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥ २४ ॥

अहं कर्म न कुर्यां चेत् इमे लोकाः उत्सीदेयुः । सङ्करस्य च कर्ता स्याम् । इमाः प्रजाः उपहन्याम् ।

शब्दार्थः

सम्पादयतु
अन्वयः सरलसंस्कृतम्
अहम् अहम्
कर्म कर्तव्यम्
न कुर्यां चेत् यदि न आचरेयम्
इमे लोकाः एतानि भुवनानि
उत्सीदेयुः विनश्येयुः
सङ्करस्य च सार्यस्य च
कर्ता विधाता
स्याम् भवेयम्,
इमाः प्रजाः एतान् जनान्
उपहन्याम् विनाशयेयम् ।

व्याकरणम्

सम्पादयतु
  1. उत्सीदेयुरिमे = उत्सीदेयुः + इमे – विसर्गसन्धिः (रेफः)
  2. लोका न = लोकाः + न – वसर्गसन्धिः (लोपः)
  3. चेदहम् = चेत् + अहम् – जश्त्वसन्धिः

कृदन्तः

सम्पादयतु
  1. सङ्करस्य = सम् + कृ + अच् (भावे) तस्य
  2. कर्ता = कृ + तृत् (कर्तरि)

यदि अहं कर्म न आचरेयं तर्हि भुवनानि नाशं प्राप्नुयुः । किञ्च अहमेव सरस्य कारणम्, प्रजानाशकश्च भवेयम् ।

भावार्थः

सम्पादयतु

'उत्सीदेयुरिमे लोका न कुर्या कर्म चेदहम्' – पूर्वं भगवान् कर्मसु असावधानतायाः हानिम् अवदत् [] । अहं कर्तव्यकर्मणः त्यागं करोमि इति तु असम्भवमेव इति भावम् उदितुमेव भगवान् अत्र 'चेत्' इत्यस्य पदस्य प्रयोगम् अकरोत् । मनुष्यस्य अकर्मण्यतायाम् अपि आसक्ति न स्याद् [] इति स्वस्य उदाहरणेन अत्र उपस्थापयति । यदि अहं स्वकर्तव्यस्य पालनं न कुर्याम्, तर्हि सर्वेऽपि मत्मार्गानुगामिनः मनुष्याः निष्टाः भविष्यन्ति । किञ्च स्वकर्तव्यस्य त्यागे कृते सति मनुष्येषु तामसगुणाः समुद्भवन्ति । तेन तेषाम् अधोगतिः भवति []

'सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः' – यदि अहं कर्तव्यकर्माणि न करोमि, तर्हि प्रजाः नष्टाः भविष्यन्ति । तेषां नाशकारणम् अहमेव भवामि । यद्यपि तत् न सम्भवति । परस्परविरुद्धौ द्वौ धर्मौ एकस्मिन् एव भवतः, तदा सः 'सङ्करः' इति उच्यते । प्रथमाध्यायस्य चत्वारिंशे, एकचत्वारिंशे च श्लोकयोः अर्जुनः अवदत् यद्, यदि अहं युद्धं करिष्ये, तर्हि अनेकेषां कुलानां नाशः भविष्यति । कुलानां नाशे सति समग्रे कुले कुलधर्मस्य नाशः भविष्यति । कुलधर्मस्य नाशे सति समस्ते कुले पापाचारो व्याप्स्यति । पापातिरेकेण स्त्रियः दूष्यन्ति, येन वर्णसङ्कराः जायन्ते इति । एवम् अर्जुनस्य भावः आसीत् यद्, युद्धे कृते सति वर्णसङ्कराः भविष्यन्ति इति । परन्तु अत्र भगवान् तस्माद् विपरीतं कथयति । सः कथयति यद्, युद्धरूपं कर्तव्यकर्म अकृत्वा वर्णसङ्करता उद्भविष्यति इति । एतस्मिन् विषये भगवान् स्वस्य उदाहरणम् अपि यच्छति । सः उदाहरति यद्, यदि अहं कर्तव्यकर्म न करोमि, तर्हि कर्म-धर्म-उपासना-वर्ण-आश्रम-जात्यादीनां स्वतः सङ्करता भविष्यति । तात्पर्यम् अस्ति यद्, कर्तव्यकर्मणाम् अभावे एव सङ्करता उत्पद्यते इति । अर्जुनस्य वर्णसङ्करोत्पन्नतायाः यत् कारणम् अस्ति, तस्मिन् दोषः अस्ति । युद्धे कृते कुलनाशः कदाचिद् भवेत् । परन्तु कुलस्त्रियः कर्तव्याच्युत्यः अभूत्वा एवं चिन्तयेत् यद्, मम पतिः धर्मयुद्धं कुर्वन् अर्थात् कर्तव्यपालनं कुर्वन् हुतात्मा अभवदिति । तर्हि पतिम् अनुरन्त्यः ताः अपि स्वकर्तव्यात् च्युताः न भवेयुः । कुलनाशे वर्णसङ्करतायाः उत्पत्तिः स्त्रिणां कर्तव्यच्यूततायाः कारणेन भवति, न तु युद्धत्वात् । इत्येव श्लोकेऽस्मिन् भगवान् अर्जुनम् अबोधयत् ।

अर्जुनस्य मूलप्रश्नः आसीत् यद्, भवान् किमर्थं माम् एतस्मिन् घोरे कर्मणि योजयति इति । तस्य प्रश्नस्य उत्तरं भगवान् द्वाविंशे, त्रयोविंशे, चतुर्विंशे च श्लोकेषु स्वस्य उदाहरणं दत्त्वा प्राबोधयत् । भगवान् स्वस्य कृते त्रिषु लोकेषु किमपि कर्तव्यम् अप्राप्यं च नास्ति, तथापि अहं कर्म करोमि इति अवदत् । अनेन भगवान् सङ्केतं करोति यद्, हे अर्जुन ! त्वं रथी, अहञ्च सारधी । क्षत्रिये सत्यपि अहं सारथी भूत्वा स्वस्य कर्तव्यस्य पालनं कुर्वन्नस्मि । एवं सावधानतया अहं स्वस्य कर्तव्यस्य पालनं करोमि । मम एतस्य कर्तव्यस्य प्रभावः त्रिषु लोकेषु भविष्यति । यतो हि अहं त्रिलोकेषु आदर्शभूतः अस्मि । सर्वे प्राणिनः मम एव मार्गानुसरणं कुर्वन्ति । एवं त्वया अपि कर्तव्योपेक्षा अकृत्वा सावधानतया स्वकर्तव्यस्य पालनं क्रियेताम् ।

शाङ्करभाष्यम्

सम्पादयतु

तथाच को दोष इत्याह-उदिति। उत्सीदेयुर्विनश्येयुरिमे सर्वे लोका लोकस्थितिनिमित्तस्य कर्मणोऽभावात् न कुर्यां कर्म चेदहम्, किंच संकरस्य च कर्ता स्याम्। तेनकारणेनोपहन्यामिमाः प्रजाः प्रजानामनुग्रहाय प्रवृत्त उपहतिमुपहननं कुर्यामित्यर्थः। ममेश्वरस्याननुरूपमापद्येत यदि पुनरहमिव त्वं कृतार्थबुद्धिरात्मविदन्योवा तस्याप्यात्मनः कर्तव्याभावेऽपि परानुग्रह एव कर्तव्य इति।।24।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
यदि ह्यहं न वर्तेयं...
उत्सीदेयुरिमे लोका... अग्रिमः
सक्ताः कर्मण्यविद्वांसो...
 
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु
  1. गीता, अ. ३, श्लो. २३, यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः
  2. मा ते सङ्गोऽस्त्वकर्मणि, गीता, अ. २, श्लो. ४७
  3. अधो गच्छन्ति तामसाः, गीता, अ. १४, श्लो. १८

अधिकवाचनाय

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=उत्सीदेयुरिमे_लोका...&oldid=393846" इत्यस्माद् प्रतिप्राप्तम्