इष्टान्भोगान् हि वो देवा...
इष्टान्भोगान्हि वो देवा ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः प्रजापतेः तृतीयं वचनं श्रावयति । पूर्वस्मिन् श्लोके प्रजापतेः वचनम् उपस्थापयन् भगवान् निःस्वार्थभावेन कर्तव्यपालनं कृत्वा परस्परं कल्याणप्राप्तिं कर्तुं शक्नुवन्ति इति उक्तवान् । अत्र देवेभ्यः अदत्त्वा यः मनुष्यः खादति, सः चौरः अस्ति इति कथयति । सः वदति यद्, यज्ञेन पुष्टाः देवाः युष्माकं कर्तव्यपालनसामग्रीं स्वयमेव दास्यन्ति, अर्थात् युष्माभिः याचनं न करणीयं भविष्यति । परन्तु तान् देवान् अदत्त्वा यः मनुष्यः भोगान् स्वयमेव भुनक्ति, सः चौरः एव अस्ति इति ।
इष्टान्भोगान् हि वो देवा... प्रजापतेः तृतीयवचनम् | |
---|---|
श्लोकसङ्ख्या | ३/१२ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | देवान्भावयतानेन... |
अग्रिमश्लोकः | यज्ञशिष्टाशिनः सन्तो... |
श्लोकः
सम्पादयतु- इष्टान्भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
- तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥
पदच्छेदः
सम्पादयतुइष्टान् भोगान् हि वः देवाः दास्यन्ते यज्ञभाविताः तैः दत्तान् अप्रदाय एभ्यः यः भुङ्क्ते स्तेन एव सः ॥ १२ ॥
अन्वयः
सम्पादयतुयज्ञभाविताः देवाः वः इष्टान् भोगान् दास्यन्ते । तैः दत्तान् एभ्यः अप्रदाय यः भुङ्क्ते स स्तेनः एव ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
यज्ञभाविताः | यज्ञवर्धिताः |
देवाः | इन्द्रादयः |
वः | युष्मभ्यम् |
इष्टान् | अभीप्सितान् |
भोगान् | पदार्थान् |
दास्यन्ते | वितरिष्यन्ति |
तैः | देवैः |
दत्तान् | वितीर्णान् |
एभ्यः | देवेभ्यः |
अप्रदाय | अदत्त्वा |
यः भुङ्क्ते | यः पुरुषः अनुभवति |
सः स्तेनः एव | सः चोरः एव । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- वो देवाः = वः + देवाः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
- तैर्दत्तान् = तैः + दत्तान् – विसर्गसन्धिः (रेफः)
- प्रदायैभ्यो = प्रदाय + एभ्यः वृद्धिसन्धिः
- प्रदायैभ्यो यो = प्रदायैभ्यः + यः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
- यो भुङ्क्ते = यः + भुङ्क्ते – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
- स्तेन एव = स्तेनः + एव – विसर्गसन्धिः (लोपः)
समासः
सम्पादयतु- यज्ञभाविताः = यज्ञेन भाविताः - तृतीयातत्पुरुषः
कृदन्तः
सम्पादयतु- इष्टान् = इषु + क्त (कर्मणि), तान्
- प्रदाय = प्र + दा – ल्यप्
- दत्तान् = दा + क्त (कर्मणि), तान्
अर्थः
सम्पादयतुयज्ञेन सन्तुष्टाः देवाः प्रार्थनां विनापि अस्मभ्यम् अभीप्सितं वस्तु प्रयच्छन्ति । तेभ्यः देवेभ्यः किमपि अदत्त्वा यः सर्वम् अनुभवति सः चोरः एव भवति ।
भावार्थः
सम्पादयतु'इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः' – अत्रापि 'इष्टभोग' इत्यस्य अर्थः इच्छितपदार्थः न भवति । यतो हि अग्रे परमकल्याणस्य चर्चा जाता अस्ति, पश्चात् अपि भविष्यति च । 'इष्ट' इत्येषः शब्दः 'यज्' इत्यस्मात् धातोः निष्पन्नः । 'भुज् पालनाभ्यवहारयोः' (सिद्धान्तकौमुदी १५४८) एवं पालनभक्षणयोः अर्थयोः अत्र पालनम् इत्येव अर्थः उचितः । अत्र 'यज्ञभाविताः देवाः' इत्यस्य पदस्य तात्पर्यम् अस्ति यद्, देवाः तु स्वस्य अधिकारं मत्तवा मनुष्येभ्यः आवश्यकसामग्रीः ददाति एव । केवलं मनुष्यैः स्वकर्तव्यस्य पालनं करणीयम् अस्ति ।
'तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते' – विश्वाड् देवेभ्यः 'ते देवाः' इत्यस्य पदस्य प्रयोगम् अकरोत् । यतो हि तस्य समक्षं मनुष्याः आसन् । परन्तु अत्र 'एभ्यः' ('इदं'-शब्दस्य) इत्यस्य पदस्य उपयोगः कृतः । एतत् पदं समीपतायाः द्योतकम् अस्ति । भगवतः कृते सर्वे समीपस्थाः एव [१] । अनेन सिद्ध्यति यद्, प्रजापतेः वचनं पूर्णम् अभवत्, अधुना भगवतः वचनम् आरब्धम् इति । अत्र 'भुङ्क्ते' इत्यस्य पदस्य तात्पर्यं केवलं भोजनं नास्ति, अपि तु शरीरनिर्वाहस्य सर्वाः आवश्यसामग्र्यः सन्ति । अर्थात् भोजन-वस्त्र-धन-गृहादयः । एतासां सर्वासां सामग्रीणां स्वस्य कृते उपयोगसन्दर्भे अत्र 'भुङ्क्ते' इति शब्दः अस्ति ।
'स्तेन एव सः' – अत्र 'सः स्तेन' इत्यस्य पदस्य तात्पर्यम् अस्ति यद्, यः मनुष्यः स्वस्य कर्तव्यस्य पालनम् अकृत्वा प्राप्तसामग्रीणां (अन्य-जल-वस्त्रादीनां) भोगं स्वयं करोति, सः अन्येभ्यः अदत्त्वा स्वयं स्वीकरोति अतः चौरः एव । यः मनुष्यः अन्यस्मै किमपि अदत्त्वा स्वयम् उपभोगं करोति, सः चौरः एव, अपि तु यः अन्येभ्यः सामग्र्यादिकं दत्त्वा स्वयं मानादिकम् इच्छति सोऽपि चौरः । एतादृशानां मनुष्यानाम् अन्तःकरणं कदापि शान्तं न भवति । एषा व्यष्टिः अर्थात् शरीरं समष्टेः अर्थात् संसाराद् भिन्नं नास्ति । अतः तत्र भेदः भवितुं नार्हति । यतो हि व्यष्टिः समष्टेः एव अंशः । एवं व्यष्टिः तु मम परन्तु समष्टिः न इति तु रागद्वेषादिनः द्वन्दयस्य कारणम् । एतादृशः अङ्कारः एव व्यक्तित्वम् उत विषमता अस्ति [२] । कर्मयोगस्य अनुष्ठानेन रागद्वेषादयः सुगमतया दूरीभवन्ति । यतो हि कर्मयोगिनः 'अहं किमपि न करोमि' इति भावः भवति । सः स्वस्य कृते किमपि न करोति । अत्र मर्मः अस्ति यद्, कर्मयोगी स्वस्य कल्याणाय किमपि कर्म अकृत्वा अन्येषां कल्याणस्य उद्देश्यं सिद्धयितुम् एव कर्म करोति । यतो हि सर्वेषां कल्याणात् स्वस्य कल्याणं भिन्नम् इति यः चिन्तयति, सः विषमतां जनयति ।
मर्मः
सम्पादयतुअत्र शङ्का भवति यद्, या सामग्री प्राप्ता अस्ति, तां यदि अन्येभ्यः ददाति, तर्हि कर्मयोगिनः जीवननिर्वाहः कथं शक्यते ? इति । समाधानम् अस्ति यद्, वस्तुतः एषा शङ्का तदा भवति, यदा शरीरेण सह तादात्म्यसम्बन्धः स्थापितः अस्ति । परन्तु कर्मयोगी तु शरीरेण सह स्वस्य सम्बन्धम् एव नाङ्गीकरोति । प्रत्युत शरीरं संसारस्य, संसाराय च इति मत्वा तस्य सेवायै शरीरम् अर्पयति । तस्य दृष्टिः अविनाशिस्वरूपं प्रति भवति, न तु नाशवत् शरीरं प्रति । यस्य दृष्टिः शरीरस्योपरि भवति, स एव शङ्कां करोति जीवननिर्वाहस्य । यावत्पर्यन्तं भोगेच्छा भवति, तावत्पर्यन्तं जीवनेच्छा, मृत्युभयञ्च भवतः । कर्मयोगिषु भोगेच्छा न भवति । किञ्च तस्य सकलानि कार्याणि अन्येभ्यः एव भवन्ति । अतः कर्मयोगी स्वजीनस्य चिन्तां न करोति । वस्तुतः यस्य हृदये जगतः आवश्यकता न भवति, तस्य आवश्यकता जगते भवति । अतः तस्य निर्वाहदायित्वं जगत् स्वीकरोति ।
शाङ्करभाष्यम्
सम्पादयतुकिंच-इष्टान्भोगानिति। इषअटानभिप्रेतान्भोगान् हि वो युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति स्रीपशुपुत्रादीन्यज्ञभाविता यज्ञैर्वर्धितास्तोषिता इत्यर्थः। तैर्देवैर्दत्तान्भोगानप्रदायात्त्वानृण्यमकृत्वेत्यर्थः, एभ्यो देवेभ्यो यो भुङ्क्ते स्वदेहेन्द्रियाण्येव तर्पयतिस्तेन एव तस्कर एव स देवादिस्वापहारी।।12।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये इष्टान्भोगान् हि वो देवा... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च