यज्ञशिष्टाशिनः सन्तो...

यज्ञशिष्टाशिनः सन्तो () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः यज्ञशिष्टान्नेन पापनाशं वदति । पूर्वस्मिन् श्लोके यः अन्येभ्यः अदत्त्वा स्वयमेव भोगं करोति, सः चौरः इति उक्त्वा भगवान् अत्र यज्ञशिष्टान्नेन पापनाशः भवति, तथा च यः यज्ञं न करोति, सः पापं प्राप्नोति इति बोधयति । एतस्याध्यायस्य नवमे श्लोके भगवान् यज्ञाय क्रियमाणानि कर्माणि बन्धनरूपिणी न भवन्ति इति उक्तवान् । ततः सः यज्ञाय कर्म कर्तुम् आज्ञापयत् । तस्याः आज्ञायाः प्रजामते अर्थात् विश्वाहः वचनैः पुष्टिम् अकरोत् । नवमे श्लोके स्वस्य वचनेन सह तादात्म्यं स्थापयन् अत्र भगवान् कर्तव्यकर्मणः पालने, अपालने च किं फलम् इति विवृणोति । सः कथयति यद्, यज्ञशेषस्य (योगस्य) अनुभविनः श्रेष्ठमनुष्याः सर्वेभ्यः पापेभ्यः विमुक्ताः भवन्ति । परन्तु ये केवलं स्वस्य कृते एव पचन्ति, अर्थात् सर्वाणि कर्माणि करोति, ते पापिनः तु पापम् एव भुञ्जन्ति इति ।

यज्ञशिष्टाशिनः सन्तो...


यज्ञशिष्टेन पापनाशनम्
श्लोकसङ्ख्या ३/१३
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः इष्टान्भोगान् हि वो देवा...
अग्रिमश्लोकः अन्नाद्भवन्ति भूतानि...
 
गीतोपदेशः
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ १३ ॥

पदच्छेदः

सम्पादयतु

यज्ञशिष्टाशिनः सन्तः मुच्यन्ते सर्वकिल्बिषैः भुञ्जते ते तु अघं पापाः ये पचन्ति आत्मकारणात् ॥ १३ ॥

यज्ञशिष्टाशिनः सन्तः सर्वकिल्बिषैः मुच्यन्ते । ये पापाः आत्मकारणात् पचन्ति ते तु अघं भुञ्जते ।

शब्दार्थः

सम्पादयतु
अन्वयः सरलसंस्कृतम्
यज्ञशिष्टाशिनः यज्ञशेषभोजिनः
सन्तः साधवः
सर्वकिल्बिषैः सकलपापैः
मुच्यन्ते त्यज्यन्ते
ये पापाः ये च पापिनः
आत्मकारणात् आत्मार्थम्
पचन्ति पचन्ति
ते तु तादृशाः तु
अघम् पापम्
भुञ्जते अनुभवन्ति ।

व्याकरणम्

सम्पादयतु
  1. सन्तो मुच्यन्ते = सन्तः + मुच्यते – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  2. त्वघम् = तु + अघम् – यण्सन्धिः
  3. पापा ये = पापाः + ये – विसर्गसन्धिः (लोपः)
  4. पचन्त्यात्मकारणात् = पचन्ति + आत्मकारणात् – यण्सन्धिः
  1. यज्ञशिष्टाशिनः = यज्ञस्य शिष्टम् यज्ञशिष्टम् – षष्ठीतत्पुरुषः
  2. यज्ञशिष्टम् अशितुं शीलं येषां ते – कर्तरि णिनि, उपपदसमासश्च
  3. आत्मकारणात् = आत्मैव कारणम्, तस्मात् - कर्मधारयः

कृदन्तः

सम्पादयतु
  1. सन्तः = अस् + शतृ (कर्तरि)

ये यज्ञशेषं भुञ्जते ते सर्वेऽपि श्रेाः पुरुषाः पापान्मुक्ताः भवन्ति । ये च पापिनः आत्मार्थं पचन्ति ते तु पापमेव भुञ्जते ।

भाष्यार्थः

सम्पादयतु

'यज्ञशिष्टाशिनः सन्तः' – कर्तव्यकर्मणां निष्कामभावेन विधिपूर्वं पालनं कृते सति यज्ञशेषत्वेन योगः अथवा समता एव शिष्यति । संसारात् प्राप्तया सामग्र्या एव कर्म भवति, अतः संसारस्य सेवायाम् एव तस्याः उपयोगे कृते तत् कर्म 'यज्ञ'त्वेन सिद्ध्यति इति कर्मयोगस्य वैशिष्ट्यम् अस्ति । यज्ञसिद्ध्योत्तरम् अवशिष्टः 'योगः' साधकाय एव भवति । एषः योगः एव समता अस्ति उत यज्ञशेषः अस्ति । एनं योगमेव भगवान् अमृतं कथयति []

'मुच्यन्ते सर्वकिल्बिषैः' – अत्र 'किल्पिषैः' इत्यस्य पदस्य बहुवचनस्य तात्पर्यम् अस्ति यद्, सर्वेभ्यः पापेभ्यः, बन्धनेभ्यः च इति । परन्तु अनेन पदेन सह भगवान् 'सर्व' इत्यस्य शब्दस्यापि उपयोगम् अकरोत् । अनेन अर्थः भवति यद्, यज्ञशेषस्य अनुभवेन मनुष्यस्योपरि किमपि बन्धनं न भवति । तस्य सर्वाणि सञ्चितकर्माणि, प्रारब्धकर्माणि, क्रियमाणानि कर्माणि च कर्मसु एव विनलीनानि भवन्ति [] । सर्वेषां कर्मणां विलयेन सनातनस्य ब्रह्मणः प्राप्तिः भवति [] । कामनायाः अभावे सञ्चितानि कर्माणि विलीनानि भवन्ति । यावत्पर्यन्तं शरीरं भवति, तावता तु प्रारब्धानुगुणम् अनुकूलप्रतिकूलपरस्थितिनां तु आवागमनं भवत्येव । परन्तु परन्तु कर्मयोगी ताभ्यः सुखी उत दुःखी न भवति । अर्थात् न कस्यापि परिस्थितेः तस्योपरि प्रभावः भवति इति । तदेव प्रारब्धकर्मणां विलीनीकरणम् । फलेच्छां विना क्रियमाणानां कर्मणाम् अपि अकर्मण्यता भवति । अर्थात् तानि क्रियमाणानि कर्माणि फलदायकानि न भवन्ति । एवं क्रियमाणानां कर्मणाम् अपि कर्मसु विलयः उच्यते ।

एतस्य अध्यायस्य नवमे श्लोके भगवान् यथार्थकर्मणा अन्यत्र कर्म बन्धनकारकम् इति उक्तवान् । चतुर्थाध्यायस्य त्रयोविंशे श्लोकेऽपि यज्ञार्थं यः कर्म करोति, तस्य सर्वाणि कर्माणि विलीनानि भवन्ति इति वदति । एवम् तयोः उभयोः श्लोकयोः या चर्चा अस्ति, सा एव अत्र 'सर्वकिल्बिषैः' इत्येनन पदेन कृता अस्ति । तात्पर्यम् अस्ति यद्, यज्ञशेषस्य अनुभवकर्ता मनुष्यः सर्वेभ्यः बन्धनेभ्यः मुक्तः भवति, सकामभाने कृतानि पुण्यकर्माणि अपि बन्धनकारणानि भवन्ति, यज्ञशेषस्य (समतायाः) अनुभवेन पापात्, पुण्यात् च मुक्तिः भवति [] । अधुना चिन्तयतु यद्, बन्धनस्य वास्तविकं कारणं किम् ? इति । एवं भवेत्, एवं न भवेत् एतादृश्याः कामनायाः फलमेव बन्धनम् । एषा कामना एव सर्वेषां पापानां मूलम् अस्ति [] । अतः कामनात्यागः अत्यावश्यकः । वस्तुतः कामनायाः स्वन्त्रसत्ता नास्त्येव । कामना अभावदेव उत्पद्यते परन्तु 'स्वरूपे' तु कोऽपि अभावः एव न भवति । केवलं शरीरेण सह तादात्म्यत्वादेव मनुष्यः अभावम् अनुभवति । तस्य अभावस्य पूर्त्यै एव सः पदार्थानां कामनां करोति । मनुष्ये अवगन्तव्यं यत् आरम्भान्तयुक्तायाः क्रियाः यत्किपमि उत्पत्स्यते, तत्सर्वं उत्पत्तिविनाशशीलम् एव भविष्यति इति । एवं मनुष्यस्य अभावस्य पूर्तिः कदापि न उपशमिष्यति । यदि अभावस्य पूर्तिः अशक्या, तर्हि पदार्थानां कामना अपि मौढ्यम् एव । एतादृशेन ज्ञानेन कामनायाः निवृत्तिः सहजतया भवति । यदि मनुष्यः शरीरादीनां सांसारिकपदार्थानाम् उपयोगः संसारस्य हिताय एव कुर्यात्, तर्हि तेभ्यः पदार्थेभ्यः तस्य सम्बन्धविच्छेदः सहजः भवति । एवं सहसा आत्मस्वरूपस्य बोधः भवति । ततः न कोऽपि अभावः अवशिष्यते । यस्य मनसि न कामनायाः स्थितिरेव न भवति, तस्य मनुष्यस्य जीवनमुक्तिः भवति ।

'ये पचन्त्यात्मकारणात्' – स्वस्य कृता सर्वा इच्छा अर्थात् स्वार्थः, कामना, ममता, आसक्तिः इत्यादि 'आत्मकारणात्' पदे अन्तर्भवति । मनुष्यस्य स्वार्थबुद्धिः यावन्ती अधिका, तावदधिकं तस्य पापकर्म । अत्र 'पचन्ति' इति पदम् उपलक्षकम् अस्ति । तस्य सम्बन्धः न केवलं पचनक्रिया सह अस्ति, अपि तु भोजन-पेय-चलनादिक्रियाभिः सह अपि अस्ति । स्वस्य स्वार्थस्य पृष्ठे अन्धः मनुष्यः केवलं स्वस्य कृते एव पचति (कार्यं करोति) । कुत्रचित् सः अन्यस्मै कर्तुम् आडम्बरं करोति, परन्तु तत्रापि सः वस्तुतः स्वस्य कृत एव कार्यं करोति । तस्मात् विपरितं स्वस्य स्वार्थभआवस्य त्यागं कृत्वा कर्तव्यकर्मकर्ता साधकः शरीराय, अन्येभ्यः अपि कार्यं करोति । संसारात् मनुष्यः यत्किमपि प्राप्नोति, तस्य उपयोगं तेन संसारहिताय एव करणीयः । तत्र स्वामिभावः एव पापम् अस्ति । अत्र शरीरं न मे, तत् संसारस्य इति विचिन्त्य तस्य कृते अन्न-जल-वस्त्रादीनाम् अतिरेकः तत् शरीरम् आलस्ययुक्तं, प्रमादयुक्तं, भोगयुक्तं च करोति । अतः तथा अपि न करणीयम् । आसक्तिं वना शरीरस्य सेवा करणीया, येन उक्ताः दुर्गुणाः तस्मिन् न उत्पद्येयुः ।

स्वेन कृतानां कर्मणां फलं मनुष्येण एव भोक्तव्यं भवति । परन्तु तेन कृतस्य कर्मणः प्रभावः अखिले संसारे भवति । स्वस्य कृते कर्म कुर्वाणः मनुष्यः स्वकर्तव्यात् च्यतुः भवति । स्वकर्तव्याच्च्युतः सः समाजाय अतिवृष्टिः, अनावृष्टिः इत्यादीनां महत्यः आपदः जनयति । अतः मनुष्याय तदेवोचितम् अस्ति यद्, सः स्वस्य कृते किमपि न कुर्यात् । कुत्रापि ममत्वं न जनयेत्, स्वस्य कृते किमपि न इच्छेत् । कर्मफलस्य आश्रयः 'स्वस्य कृते पचति' इत्यस्मिन् अन्तर्भवति । अतः एव भगवान् 'अनाश्रितः कर्मफलम्' इत्यस्य पदस्य उपयोगं कृत्वा कर्मफलानाम् आश्रयः न स्वीकर्तव्यः इति वदति []

'भुञ्जते ते त्वघं पापाः' – अनेन पदेन भगवान् स्वस्य कृते ये मनुष्याः कार्यं कुर्वन्ति, तेषां सौम्यशब्दैः निन्दां करोति । स्वस्य कृते कृतेन कर्मणा मनुष्यः तावन्तं पापसङ्ग्रहं करोति, यत् चतुर्विंशतिलक्षसु योनिषु, अनेकेषु नरकेषु च दुःखोपभोगेन अपि तस्य पापोपशमनं न भवति । प्रत्युत सञ्चितकर्मत्वेन अवशिष्यन्ते । अत एव मनुष्येन 'स्वस्य कृते कर्म न करणीयम्' इति सङ्कल्पः स्वीकर्तव्यः ।

शाङ्करभाष्यम्

सम्पादयतु

यज्ञेति। ये पुनर्देवयज्ञादीन्निर्वर्त्य तच्छिष्टमशनममृताख्यमशितुं शीलं येषां ते यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः सर्वपापैश्चुल्लयादिपञ्चसूनाकृतैः1प्रमादकृतहिंसादिजनितैश्चान्यैः। ये त्वात्मम्भरयो भुञ्जते ते त्वघं पापं स्वयमपि पापा ये पचन्ति पाकंनिर्वर्तयन्त्यात्मकारणादात्महेतोः।।13।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
इष्टान्भोगान् हि वो देवा...
यज्ञशिष्टाशिनः सन्तो... अग्रिमः
अन्नाद्भवन्ति भूतानि...
 
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु
  1. यज्ञशिष्टामृतभुजः, गीता, अ. ४ , श्लो. ३१
  2. गीता, अ. ४ , श्लो. २३
  3. गीता, अ. ४ , श्लो. ३१
  4. बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते, गीता, अ. २ , श्लो. ५०
  5. गीता, अ. ३ , श्लो. ३७
  6. गीता, अ. ६ , श्लो. १

अधिकवाचनाय

सम्पादयतु