सक्ताः कर्मण्यविद्वांसो...
सक्ताः कर्मण्यविद्वांसः ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः महापुरुषेभ्यः कर्मतत्परतायाः विधानं करोति । पूर्वस्मिन् श्लोके भगवान् स्वस्य उदाहरणं दत्त्वा स्वस्य कृते कर्मणि तत्परतायाः वर्णनं कृत्वा अत्र महापुरुषेभ्यः अपि सावधानतया कर्तव्यकर्मणि योजनस्य प्रेरणां करोति । सः प्रेरयति यद्, हे भारत ! कर्मणि आसक्ताः अज्ञानिजनाः यथा कर्म कुर्वन्ति, तथैव आसक्तिरहिताः विद्वांसः अपि लोकसङ्ग्रहम् ईष्यमाणाः कर्म कुर्वन्ति इति ।
सक्ताः कर्मण्यविद्वांसो... महापुरुषेभ्यः कर्मतत्परतायाः विधानम् | |
---|---|
श्लोकसङ्ख्या | ३/२५ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | उत्सीदेयुरिमे लोका... |
अग्रिमश्लोकः | न बुद्धिभेदं जनयेद्... |
श्लोकः
सम्पादयतु- सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
- कुर्याद्विद्वांस्तथासक्तः चिकिर्षुर्लोकसङ्ग्रहम् ॥ २५ ॥
पदच्छेदः
सम्पादयतुसक्ताः कर्मणि अविद्वांसः यथा कुर्वन्ति भारत कुर्यात् विद्वान् तथा असक्तः चिकिर्षुः लोकसङ्ग्रहम् ॥ २५ ॥
अन्वयः
सम्पादयतुभारत ! अविद्वांसः कर्मणि सक्ताः यथा कुर्वन्ति तथा विद्वान् असक्तः लोकसङ्ग्रहं चिकीर्षुः (कर्म) कुर्यात् ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
भारत | हे भरतकुलश्रेष्ठ |
कर्मणि | कर्तव्ये |
सक्ताः | आसक्ताः |
अविद्वांसः | अज्ञानिनः |
यथा | येन प्रकारेण |
कुर्वन्ति | आचरन्ति |
तथा | तेन प्रकारेण |
लोकसङ्ग्रहम् | स्वधर्मे प्रवर्तनम् अधर्माच्च निवर्तनम् |
चिकीर्षुः | कर्तुमनाः (कर्तुम् इच्छुः) |
असक्तः | न्यस्सः |
विद्वान् | ज्ञानी |
कुर्यात् | आचरेत् । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- कर्मण्यविद्वांसः = कर्मणि + अविद्वांसः – यण्सन्धिः
- विद्वांसो यथा = विद्वांसः + यथा – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
- कुर्याद्विद्वान् = कुर्यात् + विद्वान् – जश्त्वसन्धिः
- विद्वांस्तथा = विद्वान् + तथा – रुत्वम्, अनुस्वारागमः, विसर्गः, सत्वञ्च
- तथासक्तः = तथा + असक्तः – सवर्णदीर्घसन्धिः
- असक्तश्चिकीर्षुः = असक्तः + चिकीर्षुः – विसर्गसन्धिः (सकारः) श्चुत्वम्
- चिकीर्षुर्लोकसङ्ग्रहम् = चिकीर्षुः + लोकसङ्ग्रहम् – विसर्गसन्धिः (रेफः)
कृदन्तः
सम्पादयतु- विद्वान् = विद् + शतृ (कर्तरि) वसु इति आदेशः
- सक्तः = सज्ज + क्त (कर्तरि)
सन्नन्तः
सम्पादयतु- चिकीर्षुः = कृ + सन् + उ (कर्तरि)
अर्थः
सम्पादयतुहे अर्जुन ! कर्मणि आसक्ताः अज्ञानिनः यथा कर्म आचरन्ति तथा अनासक्तोऽपि विद्वान् लोकोद्धाराय कर्म आचरेत् ।
भावार्थः
सम्पादयतुये मनुष्याः शास्त्र-शास्त्रपद्धति-शास्त्रविहतशुभकर्मभ्यः श्रद्धां वहन्ति, शास्त्रविहितकर्मणाम् आचरणेन फलम् अवश्यं प्राप्यते इति येषां विश्वासः अस्ति, ये न तु तत्त्वज्ञाः सन्ति, न च दुराचारिणः, तथापि ये कर्मभोगेषु पदार्थेषु च आसक्ताः सन्ति, तादृशेभ्यः मनुष्येभ्यः अत्र 'सक्ताः', 'अविद्वांसः' इत्येतयोः पदयोः उपयोगः अस्ति । एतादृशाः पुरुषाः यद्यपि शास्त्रज्ञाः भवन्ति, तथापि केवलं कामनात्वात्ते मनुष्याः अज्ञानिनः उद्यन्ते । ते केवलं स्वस्य कृते कर्म कुर्वन्ति, अतः ते अज्ञानिनः । एतादृशाः अविद्वांसः पुरुषाः कर्मसु कदाचित् प्रमादः, आलस्यम् इत्यादिकं त्यक्त्वा सावधानतया साङ्गोपाङ्गं कर्म कुर्वन्ति । यतो हि तेषां मते कर्मणि निम्नता, फलेऽपि निम्नत्वम् आवहति इति । तेषाम् अविदुषां पुरुषाणां पद्धतिम् आदर्शपद्धतित्वेन स्वीकृत्य भगवान् विद्वद्भ्यः अपि लोकसङ्ग्रहाय तथा कर्म कर्तुं प्रेरयति । (अज्ञानिवत् फलाय कर्म कर्तुं न अपि तु फलवाञ्च्छिते सति तत्परयायां यथा कार्यं कुर्वन्ति, तथा लोकसङ्ग्रहाय कार्यं कर्तुम्) 'कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम्' – यस्मिन् कामना-ममता-आसक्ति-वासना-पक्षपत-स्वार्थादीनां सर्वथा अभावः अस्ति, शरीरादिपादर्थेभ्यः किञ्चिन्मात्रम् अपि मोहः नास्ति, तादृशाय तत्त्वज्ञाय महापुरुषाय अत्र 'अनासक्तः, विद्वान्' इत्येतयोः पदयोः उपयोगः । विंशे श्लोके 'लोकसङ्ग्रहमेवापि सम्पश्यन्' इत्युक्त्वा एकविंशे श्लोके तस्य व्याख्या अभवत् । तदेवात्र 'लोकसङ्ग्रहं चिकीर्षुः' इत्येनन उक्तम् । श्रेष्ठपुरुषस्य सर्वाण्यपि कार्याणि स्वाभाविकतया यज्ञाय, मर्यादारक्षणाय च भवन्ति । यथा भोगिनः भोगे, मोहिनः कुटुम्बे, लोभिनः धने च रतिः भवति, तथैव श्रेष्ठमनुष्यस्य प्राणिमात्रस्य हिते रतिः भवति । तस्य अन्तःकरणे 'अहं लोकहितं कुर्वन् अस्मि' इति भावोऽपि नोद्भवति । प्रत्युत तेन सहजतया लोकहितं भवति । यतो हि प्राकृतपदार्थेभ्यः महापुरुषाणां सर्वथा सम्बन्धविच्छेदः जातः, अतः तेषाम् उच्यमानाः शरीर-इन्द्रिय-मनो-बुद्ध्यादयः अपि 'लोकसङ्ग्रहः' इत्यस्मिन् पदे अन्तर्भूते 'लोक' इत्यस्मिन् पदे अन्तर्भवति ।
अन्येषां सांसारिकदृष्ट्यां तु ते महापुरुषाः लोकसङ्ग्रहस्य इच्छायुक्ताः दरीदृश्यन्ते, परन्तु वस्तुतः ते महापुरुषाः लोकसङ्ग्रहम् अपि नेच्छन्ति । यतो हि साधनावस्थायाः एव ते शरीर-इन्द्रिय-मनो-बुद्धि-पदार्थ-अधिकार-धन-योग्यता-सामर्थ्यादिषु ममत्वं नाङ्गीकुर्वन्ति । प्रत्युत संसारस्य, संसारसेवायै एव तेषाम् अङ्गीकारं कुर्वन्ति । एतस्मिन् श्लोके 'यथा', 'तथा' इत्येतयोः पदयोः उपयोगः कर्मप्रकारार्थे अभवत् । तात्पर्यम् अस्ति यद्, यथा सकामपुरुषः (अज्ञानी) स्वार्थाय सावधानतया, तत्परतापूर्वकं च कर्म करोति, तथैव ज्ञानी पुरुषः अपि लोकसङ्ग्रहार्थं (अन्येषां हिताय) कुर्यात् इति ।
अज्ञानिपुरुषाः तु फलप्राप्त्यै सावधानतया कर्म कुर्वन्ति । परन्तु ज्ञानिपुरुषस्य फले आसक्तिः न भवति । अतः तेन कर्मणः उपेक्षायाः सम्भावना भवति । एवं विचिन्त्य भगवान् कर्माचरणविषये ज्ञानिपुरुषम् अपि अज्ञानिपुरुषस्य (सकामपुरुषस्य) अनुसुरणं कर्तुम् आज्ञापयति । एकविंशे श्लोके विद्वान् सर्वेषाम् आदर्शभूतः इति प्रतिपादितः, परन्तु अत्र स एव विद्वान् पुरुषः अनुयायित्वेन उपस्थापितः । तात्पर्यम् अस्ति यद्, विद्वान् पुरुषः आदर्शभूतः उत अनुयायी स्यात्, परन्तु तेन स्वतरेव लोकसङ्ग्रहः भवति इति निश्चयः भवति । यथा भगवान् श्रीरामः प्रजाभ्यः उपदशति, पितुः आज्ञानुसारं वनवासम् अपि स्वीकरोति । यतो हि तस्य कर्मणि उत अकर्मणि किमपि प्रयोजनं नासीत् ।
शाङ्करभाष्यम्
सम्पादयतुसक्ता इति। सक्ताः कर्मण्यस्य कर्मण फलं मम भविष्यतीति केचिदविद्वांसो यथा कुर्वन्ति भारत,कुर्याद्विद्वानात्मवित्तथासक्तः सन्। तद्वत् किमर्थं करोति तच्छृणु चिकीर्षुर्यथा कर्तुमिच्छुर्लोकसंग्रहम् ।।25।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये सक्ताः कर्मण्यविद्वांसो... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च