मयि सर्वाणि कर्माणि...
मयि सर्वाणि कर्माणि ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आसक्तेः मुक्त्यै मार्गं प्रदर्शयति । पूर्वस्मिन् श्लोके भगवान् अज्ञानिनः अविचालयितुं ज्ञानिपुरुषाय आज्ञां ददाति । ततः अत्र यस्मात् कारणात् मनुष्यः कर्मसु बद्धः भवति, तस्मात् कर्मणः, कर्मफलस्य च आसक्तेः मुक्त्यै किं करणीयम् इति भगवान् बोधयति । सः कथयति यद्, त्वं विवेकवत्या बुद्ध्या सर्वाणि कर्माणि मह्यम् अर्पयित्वा कमना-ममता-सन्तापरहितः भूत्वा युद्धरुपिणि कर्तव्यकर्म कुर्विति ।
मयि सर्वाणि कर्माणि... आसक्तेः मुक्त्यै मार्गः | |
---|---|
श्लोकसङ्ख्या | ३/३० |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | प्रकृतेर्गुणसम्मूढाः... |
अग्रिमश्लोकः | ये मे मतमिदं नित्यम्... |
श्लोकः
सम्पादयतु- मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
- निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३० ॥
पदच्छेदः
सम्पादयतुमयि सर्वाणि कर्माणि संन्यस्य अध्यात्मचेतसा निराशीः निर्ममः भूत्वा युध्यस्व विगतज्वरः ॥ ३० ॥
अन्वयः
सम्पादयतुअध्यात्मचेतसा सर्वाणि कर्माणि मयि सन्न्यस्य निराशीः निर्ममः विगतज्वरः भूत्वा युध्यस्व ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
अध्यात्मचेतसा | आत्मनिमनसा |
सर्वाणि | निखिलानि |
कर्माणि | कर्तव्यानि |
मयि | भगवति |
सन्न्यस्य | समर्प्य |
निराशीः | निष्कामः |
निर्ममः | ममताशून्यः |
विगतज्वरः | विगतभयः |
भूत्वा | स्थित्वा |
युध्यस्व | युद्धं कुरु । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- सन्न्यस्याध्यात्मचेतसा = सन्न्यस्य + अध्यात्मचेतसा – सवर्णदीर्घसन्धिः
- निराशीर्निर्ममः = निराशी + निर्ममः विसर्गसन्धिः (रेफः)
- निर्ममो भूत्वा = निर्ममः + भूत्वा – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणश्च
समासः
सम्पादयतु- अध्यात्मचेतसा = आत्मनि इति अध्यात्मम् – अव्ययीभावः
- अध्यात्मं चेतः, तेन – सप्तमीतत्पुरुषः
- विगतज्वरः = विगतः ज्वरः यस्मात् सः – बहुव्रीहिः
- निराशीः = निर्गता आशीः यस्मात् सः - बहुव्रीहिः
कृदन्तः
सम्पादयतु- सन्न्यस्य = सम् + नि + अस् + ल्यप्
अर्थः
सम्पादयतुभवान् आत्मनि एव मनः स्थापयन् सर्वकर्माणि भगवते समर्प्य आशारहितः ममकारशून्यः विगतभयश्च भूूत्वा युद्धं करोतु ।
भावार्थः
सम्पादयतु'मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा' – बहुधा साधकानां याच्ञा भवति यद्, कर्मणः बन्धनं भवति, अकर्मकः कोऽपि स्थातुं न शक्नोति इति । अत एव कर्म बन्धनकारकम् अभूत्वा मुक्तिकारकं भवेद् इति शक्यम् अस्ति । तत् कथं शक्यम् इति बोधयितुं भगवान् अर्जुनं कथयति यद्, त्वम् आध्यात्मचित्तो भूत्वा अर्थात् विवेकविचारयुक्तान्तःकरणवान् भूत्वा सर्वाणि कर्तव्यकर्माणि मह्यं समर्पयस्व । अर्थात् तेन कर्तव्यकर्मणा सह स्वस्य सम्बन्धं मा चिन्तयस्वेति । यतो हि संसारमात्रस्य सर्वासु क्रियासु केवलं मे शक्तिरेव विद्यते । शरीरेन्द्रियपदार्थाः मे सन्ति, शक्तिरपि मम । 'सर्वं भगवतः अस्ति, भगवान् च मे' इति गाम्भीर्येण विचिन्त्य यदा त्वं कर्तव्यकर्म करिष्यसि, तदा ताभिः कर्मभिः त्वं न भन्त्स्यसे (बद्धः न भविष्यसे) । प्रत्युत ताभिः कर्मभिः त्वम् उद्ध्रियिष्यसे (तव उद्धारः भविष्यति) ।
शरीरेन्द्रियमनोबुद्धिपदार्थादिषु स्वस्य अधिकारः न इति सर्वेषाम् अनुभवः । ते सर्वे तु 'प्रकृत्याधीनाः' अतः 'प्रकृतिस्थानि' इति । चेतनः स्वयं परमात्मनः । अतः 'ममैवांशो जीवलोके' [१] इति उक्तम् । एवं शरीरादिषु मे अधिकारः न, अपि तु ईश्वरस्य अधिकारोऽस्ति इति सत्यतां स्वीकृत्य यः कर्तव्यकर्मणः पालनं करोति, सः सर्वम् ईश्वराय 'अर्पणम्' अकरोद् इति उच्यते । अतः स्वस्य विवेकस्य महत्त्वं ज्ञात्वा पदार्थैः, कर्मभिः च सह मूर्खतावशात् मन्यमानस्य सम्बन्धस्य त्याग एव 'अर्पणम्' इति ।
'अध्यात्मचेतसा' इत्यस्य पदस्य तात्पर्यम् अस्ति यद्, यस्य कस्यापि पथः साधकः स्यात्, तस्य उद्देश्यं तु आध्यात्मिकता एव स्यात्, न तु लौकिकता । वस्तुतः उद्देशः, आवश्यकता च सदैव नित्यत्त्वस्य अर्थाद् आध्यात्मिकतायाः एव भवति । प्रत्युत कामना सर्वदा अनित्यतत्त्वस्य अर्थाद् उत्पत्तिविनाशीलपदार्थानामेव भवति । साधके उद्दशः स्यान्न कामना । उद्देशपूर्णम अन्तःकरणं विवेकविचारयुक्तमेव भवति । दार्शनिकदृष्ट्या, वैज्ञानिकदृष्ट्या च शरीरादीनां भौतिकपदार्थानाम् उपरि मनुष्यस्य आधिपत्यं न सिध्यति । वस्तुतः ते पदार्थाः उपभोगाय न अपि तु परमार्थाय सन्ति । तेषु मनुष्यस्य अधिकाराभावदेव तेषु न कस्यापि आधिप्तयं भवति । सम्पूर्णः संसारः ईश्वरस्य अस्ति, परन्तु जीवः भ्रमवशात् तत्सर्वं मे इति बुध्यते [२] [३] । एवं सः बध्यते । 'निराशीनिर्ममो भूत्वा युध्वस्य विगतज्वरः' – सर्वाणि कर्माणि, पदार्थान् च भगवते समर्प्य मनुष्यस्य जीवने कामनायाः, ममतायाः, सन्तापस्य च अंशोऽरि नावशिष्यते । यथा - कश्चन मनुष्यः अपराय पुस्तकं पठितुं ददाति । पठितारं दृष्ट्वा 'एषः मे पुस्तकं पठति' इति दाता चिन्तयति, तदेव आंशिकी ममता उच्यते । पुस्तकार्पणोत्तरम् अपि मनुष्ये सा आंशिकी ममता अवशिष्यते । अतः भगवान् तस्याः आंशिक्याः ममतायाः त्यागं कृत्वा नवीनवस्तोः कामनाम् अकृत्वा नष्टवस्तोः सन्तापं मा कुरु इति अर्जुनं कथयति । कामना-ममता-सन्तापानाम् अन्तिमांशमात्रम् अपि समर्पणोत्तरं नावशिष्येत ।
यद्यपि ये साधकाः ईश्वराय सर्वस्वं समार्पयन्, तथापि ते पूर्वसंस्कारत्वाच्छरीरादिषु कामना-ममता-सन्तापं च अनुभवन्ति, तेभ्यः अपि निराशायाः विषयो नास्ति । यतो हि यः स्वस्मिन् कामनां पश्यति, स एव कामनारहितेन भवितुं प्रयतते । एवं यः अहं शरीरम् इति यः चिन्तयति, स एव विदेहिना भवितुं प्रयतते । 'ज्वर' इति शब्दः आगीताच्छास्त्रे अत्र एव उपयुक्तः । युद्धे कौटुम्बिकस्नेहादित्वाद् सन्तापोद्भवस्य सम्भावना भवति । अतः युद्धरूपिणि कर्तव्यकर्तणि रते सति सावधानतया व्यवहर्तुं भगवान् 'विगतज्वरः' इत्थं पदस्य उपयोगं करोति । एवं भगवान अर्जुनाय कर्तव्यकर्मणः पालनाय आदिशति । कर्तव्यपालनाय निःसन्तापः साधकः सिद्ध्यसिद्धयोः, अनुकूलप्रतिकूलतयोः च चिन्तां न करोति चेत्, सः 'विगतज्वरः' इति उच्यते ।
मर्मः
सम्पादयतुयदा साधकस्य उद्देश्यं केवलं परात्मप्राप्तेः एव भवति, तदा तस्य सर्वाः अपि सामग्र्यः साधनरूपिणी भवन्ति । उत्कृष्टा, निकृष्टा इत्येतौ द्वौ विभागौ सामग्र्याः न भवतः । यत्किमपि अस्ति, भगवते अर्पणीयम् अस्ति । सर्वाणि कर्माणि ईश्वराय समर्प्य स्वस्मिन् कामना-ममता-सन्तापाः प्रतीयन्ते, ते अपि ईश्वाराय समर्पणीयाः । योगारूढेन भवितुं कर्म एव साधनत्वेन उक्तम् अस्ति [४] । यतो हि कर्तव्यकर्म कृते सत्येव साधकं स्वविकासस्तरं ज्ञातुं प्रभवति । यथा कश्चन सेवाभावी साधकः जनसेवां करोति । कालान्तरे तस्य कार्यं दृष्ट्वा यदा कश्चन तस्मै पुरस्कारं ददाति उत तस्य प्रशंसां करोति, तदा सः तस्मिन् रसम् अनुभवति । सा रसानुभूतिः साधकाय प्रतिबिम्बवत् कार्यं करोति । तेन साधकः ज्ञातुं प्रभवति यद्, तस्य स्तरः किम् ? इति । तस्य कृते तेन नैरन्तर्येण कर्म करणीयं भवत्येव ।
भगवान् ध्यानापेक्षया कर्मफलत्यागम् उत्तमं परिगणयते [५] । किञ्च ध्यानकाले साधकस्य दृष्टिः विशेषतया मनसः चाञ्चल्ये एव भवति । ध्यये स्वमनसः लीनत्वमेव साधकस्य लक्ष्यं भवति । परन्तु तस्मिन् कार्ये मनसः चाञ्चल्यातिरिक्ताः दोषाः (कामना-ममतादयः) अवगणयति सः । तेषां दोषानां सञ्ज्ञानं तु कर्मरते सत्येव भवति । अत एव भगवान् प्रस्तुते श्लोके 'युद्धस्व' इति कर्तव्यकर्मणः पालनाय आज्ञाम् अददात् ।
शाङ्करभाष्यम्
सम्पादयतुकथं पुनः कर्मण्यधिकृतेनाज्ञेन मुमुक्षुणा कर्म कर्तव्यमित्युच्यते-मयीति। मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्माणि संन्यस्य निक्षिप्यध्यात्मचेतसाविवेकबुद्धयाहं कर्तेशवराय भृत्यवत्करोमीत्यनया बुद्धया। किंच निराशीस्त्यक्ताशीर्निर्ममो ममभावश्च निर्गतो यस्य तव स त्वं निर्ममो भूत्वा युध्यस्व विगतज्वरोविगतज्वरो विगतसंतापो विगतशोकः सन्नित्यर्थः।।30।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये मयि सर्वाणि कर्माणि... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतु- ↑ गीता, अ. १५ , श्लो. ७
- ↑ द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् । ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ।। महाभारतम्, शान्तिपर्व, अ. १३, श्लो. ४
- ↑ महाभारतम्, आश्वमेधिकपर्व, अ. १३, श्लो. १४
- ↑ आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते, गीता, अ. ६ , श्लो. ३
- ↑ गीता, अ. १२ , श्लो. १२
अधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च