प्रकृतेर्गुणसम्मूढाः...
प्रकृतेर्गुणसम्मूढाः ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्मविचलनाय निषेधं वदति । पूर्वस्मिन् श्लोके भगवान् भगवान् कर्मासक्तसमुदायस्य अपेक्षया साङ्ख्ययोगिनः विलक्षणतायाः प्रतिपादनं कृत्वा अत्र ज्ञानिभ्यः आदेशं करोति यद्, साधारणमनुष्याणां मनसि कर्म प्रति विचलनभावस्य उद्भवकारणं ज्ञानिनः न भवेयुरिति । सः कथयति यद्, प्रकृतेः गुणेभ्यः अन्तन्तं मोहिताः मनुष्याः गुणेषु, कर्मषु च आसक्ताः भवन्ति । ज्ञानी तान् पूर्णज्ञानाभाविनः, मन्दबुद्धिनः विचलितान् मा कुर्वीतेति ।
प्रकृतेर्गुणसम्मूढाः... कर्मविचलनाय निषेधः | |
---|---|
![]() | |
श्लोकसङ्ख्या | ३/२९ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | तत्त्ववित्तु महाबाहो... |
अग्रिमश्लोकः | मयि सर्वाणि कर्माणि... |
श्लोकः
सम्पादयतु- प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।
- तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ २९ ॥
पदच्छेदः
सम्पादयतुप्रकृतेः गुणसम्मूढाः सज्जन्ते गुणकर्मसु तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत् ॥ २९ ॥
अन्वयः
सम्पादयतुप्रकृतेः गुणसम्मूढाः गुणकर्मसु सज्जन्ते । अकृत्स्नविदः मन्दान् तान् कृत्स्नवित् न विचालयेत् ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
प्रकृतेः | त्रिगुणात्मिकायाः मायायाः |
गुणसम्मूढाः | सत्त्वादिगुणैः प्रकृतिभागमपि आत्मत्वेन परिकल्पयन्तः |
गुणकर्मसु | चक्षुरादीन्द्रियाणां दर्शनादिषु क्रियासु |
सज्जन्ते | आसक्ताः भवन्ति |
अकृत्स्नविदः | अज्ञानिनः |
मन्दान् | मूढान् |
तान् | तादृशान् |
कृत्स्नवित् | ज्ञानी |
न विचालयेत् | न भ्रामयेत् । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- प्रकृतेर्गुणसम्मूढाः = प्रकृतेः + गुणसम्मूढाः – विसर्गसन्धिः (रेफः)
- कृत्स्नविन्न = कृत्स्नवित् + न - परसवर्णसन्धिः
समासः
सम्पादयतु- गुणसम्मूढाः = गुणैः सम्मूढाः – गुणसम्मूढाः – तृतीयातत्पुरुषः
- गुणकर्मसु = गुणानां कर्माणि, तेषु – षष्ठीतत्पुरुषः
- अकृत्स्नवित् = कृत्स्नं वेत्ति कृत्स्नवित् – कर्तरि क्विप् उपपदसमासश्च
- न कृत्स्नवित् - नञ्तत्पुरुषः
कृदन्तः
सम्पादयतु- प्रकृतिः = प्र + कृ + क्तिन् (कर्तरि), तस्याः । प्रकरोति इति प्रकृतिः ।
- सम्मूढाः = सम् + मुह् + क्त (कर्तरि)
अर्थः
सम्पादयतुप्रकृतेः गुणैः सत्त्वादिभिः तागभूतम् इदम् इन्द्रियादिकमपि आत्मत्वेन परिकल्प्य तेषाम् इन्द्रियादीनां दर्शनश्रवणादौ क्रियायां प्रवर्तन्ते । वस्तुतस्तु ते मूढाः । तथापि तथा प्रवृत्तान् तान् ज्ञानी न कदापि क्रियातः विचालयेत् ।
भावार्थः
सम्पादयतु'प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु' – प्रकृतिजन्याः सत्त्वरजस्तमाः त्रयः गुणाः मनुष्यान् बध्नन्ति । सत्त्वगुणः सुखज्ञानयोः आसक्त्या, रजोगुणः कर्मासक्त्या, तमोगुणः प्रमादालस्यनिद्राभिः च मनुष्यान् बध्नाति [१] । अत्र तेषाम् अज्ञानिनां वर्णनम् अस्ति, ये प्रकृतिजन्यैः गुणैः अन्तन्ताः मोहिताः सन्ति । परन्तु तेषां शास्त्रेषु, शास्त्रविहितेषु शुभकर्मसु, तेषां फलेषु च श्रद्धा विद्यते । भगवता एतादृशाः मनुष्याः एव पूर्वं 'सक्ताः', 'अविद्वांसः', 'कर्मसङ्गिनाम्', 'अज्ञानाम्' इत्यादिभिः पदैः अवर्ण्यन्त । लौकिकानां, पारलौकिकानां च भोगानां कामनया ते पुरुषाः पदार्थेषु, कर्मसु च आसक्ताः भवन्ति । अतः तेभ्यः परत्वविषये ते अवगुन्तुं न शक्नुवन्ति । अत एव भगवान् तान् अज्ञानित्वेन सम्बोधयति ।
'तानकृत्स्नविदो मन्दान्' – अज्ञानिनः पुरुषाः शुभकर्म नाशवतां पदार्थानां प्राप्त्यै कर्म कर्तुम् इच्छऩ्ति । ते धनादिपदार्थेषु ममताम्, अप्राप्तानां वस्तूनां कामनां च कुर्वन्ति । एवं ममताकामनाभ्यां बद्धाः ते अज्ञानिनः गुणानां, कर्मणां च तत्त्वं ज्ञातुम् असमर्थाः भवन्ति । अज्ञानिनः मनुष्याः शास्त्रविहितकर्माणि, तेषां विधिं च बहुधा जानन्ति । परन्तु गुणानां, कर्मणां च तत्त्वं योग्यतया न ज्ञाते सति ते 'अकृत्स्नविदः' अर्थात् ये पूर्णतया न जानन्ति इति उच्यन्ते । सांसारिकभोगेषु, सङ्ग्रहेषु च रुचित्वात् ते 'मन्दान्' (मन्दबद्धयः) अपि उक्ताः ।
'कृत्स्नविन्न विचालयेत्' – गुणकर्मयोः विभागं बहुधा ज्ञातवान्, कामनाममतारहितः ज्ञानी पुरुषः सकामभावपूर्वकं शुभकर्मसु सँल्लग्नान् अज्ञानिनः पुरुषान् शुभकर्मभ्यः न विचालयेरन् । अन्यथा शुभकर्मणां त्यागे सति तेषाम् अज्ञानिनां पुरुषाणां स्वस्य वर्तमानस्थितेः अपि अधःपतनं भवितुम् अर्हति । ते विद्वांसः अध्यायेऽस्मिन् 'असक्तः विद्वान्', 'युक्तः विद्वान्' इत्येतैः पदैः भगवता समबुध्यन्त । भगवान् 'कुर्यात्' इत्यनेन पदेन पञ्चविंशे श्लोके महापुरुषेभ्यः, 'जोषयेत्' इत्यनेन पदेन षड्विंशे श्लोके अज्ञानिभ्यश्च कर्म कर्तुम् आज्ञापयति । परन्तु अत्र भगवान् 'वि विचालयेत्' इत्येताभ्यां पदानाम् उपयोगेन तादृशीम् आज्ञाम् अदत्त्वा अन्यत् सङ्केतं करोति । सः सङ्केतः एवं भवेद् यद्, ज्ञानिपुरुषः अधिकं कुर्याद् उत न परन्तु न्यूनातिन्यूनं स्वस्य सङ्केतेन, वचनेन, क्रियाभिः च अज्ञानिनः पुरुषान् विचलितान् मा कुर्वीत इति । यतो हि जीवनमुक्तेषु महापुरुषेषु भगवतः, शास्त्राणां च शासनं न भवति । तेषाम् उच्यमानेन शरीरेण स्वाभाविकतया लोकसङ्ग्रहार्थे क्रियाः भवन्ति ।
अज्ञानिनः स्वर्गप्राप्त्यै शुभकर्माणि कुर्वन्तः भवन्ति । अत एव भगवान् तादृशान् मनुष्यान् विचलितान् न कर्तुं कथयति । अर्थात् कोऽपि महापुरुषः स्वस्य सङ्केतेन, वचनेन, क्रियाभिः च तादृशं किमपि मा प्रकटयेत्, येन तेषां सकामपुरुषाणां शास्त्रविहितेषु शुभकर्मसु अश्रद्धा उत अविश्वासः उद्भवेत् । यतो हि अद्धोत्तरं कर्मत्यागे सति तेषां स्वस्थित्याः अपि अधःपतनं भवितुम् अर्हति । महापुरुषैः तु तादृशाः पुरुषाः सकामभावाद् विचाल्यन्ताम्, न तु कर्मणः ।
शाङ्करभाष्यम्
सम्पादयतुये पुनः प्रकृतेरिति। प्रकृतेर्गुणैः सम्यङ् मूढाः संमोहिताः सन्तः सज्जन्ते गुणानां कर्मसु गुणकर्मसु वयं कर्म कुर्मः फलायेति, तान् कर्मसङ्गिनोऽकृत्स्नविदःयकर्मफलमात्रदर्शिनो मन्दान्मन्दप्रज्ञान्कृत्स्नविदात्मवित्स्वयं न विचालयेद् बुद्धिभेदकरणमेव चालनं तन्न कुर्यादित्यर्थः ।।29।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये प्रकृतेर्गुणसम्मूढाः... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतु- ↑ गीता, अ. १४ , श्लो. ६-८
अधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च