एवं बुद्धेः परं बुद्ध्वा...
श्लोकः सम्पादयतु
( ( शृणु))
- एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
- जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥
अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य त्रिचत्वारिंशत्तमः (४३) श्लोकः ।
पदच्छेदः सम्पादयतु
एवं बुद्धेः परं बुद्ध्वा संस्तभ्य आत्मानम् आत्मना जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥
अन्वयः सम्पादयतु
महाबाहो ! एवं बुद्धेः परं बुद्ध्वा आत्मना आत्मानं संस्तभ्य कामरूपं दुरासदं शत्रुं जहि ।
शब्दार्थः सम्पादयतु
अन्वयः | सरलसंस्कृतम् |
महाबाहो | दीर्घबाहो (अर्जुन) |
एवम् | इत्थम् |
बुद्धेः | धियः |
परम् | उत्कृष्टम् (आत्मानम्) |
बुद्ध्वा | विज्ञाय |
आत्मना | स्वेन |
आत्मानम् | स्वम् |
संस्तभ्य | नियम्य |
कामरूपम् | तृष्णारूपम् |
दुरासदम् | दुर्जयम् |
शत्रुम् | वैरिणम् |
जहि | नाशय । |
व्याकरणम् सम्पादयतु
सन्धिः सम्पादयतु
- संस्तभ्यात्मानम् = संस्तभ्य + आत्मानम् – सवर्णदीर्घसन्धिः
कृदन्तः सम्पादयतु
- संस्तभ्य = सम् + स्तम्भ् + ल्यप्
अर्थः सम्पादयतु
अर्जुन ! अनेन प्रकारेण बुद्धेः अपेक्षया आत्मा अत्युत्कृष्टः इति विज्ञाय आत्मना आत्मानं विजित्य तृष्णारूपं दुर्जनं शत्रुं विनाशय ।
शाङ्करभाष्यम् सम्पादयतु
ततः किम्-- एवमिति । एवं बुद्धेः परमात्मानं बुद्ध्वा ज्ञात्वा संस्तभ्य सम्यक्स्तम्भनं कृत्वा स्वेनैवात्मना संस्कृतेन मनसा सम्यक्समाधायेत्यर्थः । जह्येनं शत्रुं हे महाबाहो,कामरूपं दुरासदं दुःखेनासद आसादनं प्राप्तिर्यस्य तं दुरासदं दुर्विज्ञेयानेकविशेषमिति ।।43।।
|
सम्बद्धाः लेखाः सम्पादयतु
बाह्यसम्पर्कतन्तुः सम्पादयतु
विकिमीडिया कॉमन्स् मध्ये एवं बुद्धेः परं बुद्ध्वा... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम् सम्पादयतु
अधिकवाचनाय सम्पादयतु
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च