इन्द्रियाणि मनो बुद्धिः...
श्लोकः
सम्पादयतु( ( शृणु))
- इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
- एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥
अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य चत्वारिंशत्तमः (४०) श्लोकः ।
पदच्छेदः
सम्पादयतुइन्द्रियाणि मनः बुद्धिःअस्य अधिष्ठानमुच्यते एतैः विमोहयति एषः ज्ञानम् आवृत्य देहिनम् ॥ ४० ॥
अन्वयः
सम्पादयतुइन्द्रियाणि, मनः, बुद्धिश्च अस्य अधिष्ठानम् उच्यते । एषः (कामः) एतैः ज्ञानम् आवृत्य देहिनं विमोहयति ।
शब्दार्थः
सम्पादयतुअन्वयः | सरलसंस्कृतम् |
इन्द्रियाणि | नेत्रादीनि |
मनः | चित्तम् |
बुद्धिश्च | धीः च |
अस्य | एतस्य कामस्य |
अधिष्ठानम् | आश्रयः |
उच्यते | कथ्यते |
एषः | एषः कामः |
एतैः | एभिः |
ज्ञानम् | ज्ञानम् |
आवृत्य | आच्छाद्य |
देहिनम् | शरीरिणम् |
विमोहयति | विविधं मोहयति । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- मनो बुद्धिः = मनः + बुद्धिः – जश्त्वसन्धिः
- बुद्धिरस्य = बुद्धिः + अस्य – विसर्गसन्धिः (रेफः)
- विमोहयत्येषः = विमोहयति + एषः – यण्सन्धिः
- एतैर्विमोहयति = एतै + विमोहयति – विसर्गसन्धिः (रेफः)
कृदन्तः
सम्पादयतु- अधिष्ठानम् = अधि + स्था + ल्युट् (अधिकरणे)
- आवृत्य = आङ् + वृतु + ल्यप्
अर्थः
सम्पादयतुपञ्चेन्द्रियाणि, मनः, बुद्धिः च कामस्य आश्रयाः सन्ति । एषः कामः एभिः पञ्चभिः इन्द्रियैः ज्ञानम् आच्छाद्य शरीरिणं विमोहयति ।
शाङ्करभाष्यम्
सम्पादयतुकिमधिष्ठानः पुनः कामो ज्ञनस्यावणत्वेन वैरी सर्वस्येत्यपेक्षायामाह, ज्ञाते हि शत्रोरधिष्ठाने सुख्न शत्रुनिबर्हणं कर्तुं शक्यत इति-इन्द्रियाणीति। इन्द्रियाणिमनो बुद्धिश्चास्य कामस्याधिष्ठानमाश्रय उच्यते, एतैरिन्द्रियादिभिराश्रयैर्विमोहयति विविधं मोहयत्येष कामो ज्ञानमावृत्याच्छद्य देहिनं शरीरिणम्।।40।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये इन्द्रियाणि मनो बुद्धिः... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च