अकीर्तिं चापि भूतानि...
[[Category:]]
अकीर्तिं चापि भूतानि... अपकीर्तेः दुःखम् | |
---|---|
श्लोकसङ्ख्या | २/३४ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | अथ चेत्त्वमिमं धर्म्यं... |
अग्रिमश्लोकः | भयाद्रणादुपरतं... |
अकीर्तिं चापि भूतानि ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अपकीर्तेः दुःखं वर्णयति । पूर्वस्मिन् श्लोके स्वधर्मत्यागे पापम्, अकीर्तिः च भविष्यति इति उक्त्वा अत्र भगवान् अपकीर्तेः विशेषम् अन्यदुःखं नास्ति इति वदति । सः कथयति यत्, सर्वेऽपि प्राणिनः ते चिरकालीनायाः अपकीर्तेः स्मरणं करिष्यन्ति । सा अपकीर्तिः सम्मानितमनुष्येभ्यः मृत्योः अपेक्षयाऽपि अधिकं दुःखदायिनी भवति इति ।
श्लोकः
सम्पादयतु- अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
- सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥
पदच्छेदः
सम्पादयतुअकीर्तिम्, च, अपि, भूतानि, कथयिष्यन्ति, ते, अव्ययाम् । सम्भावितस्य, च, अकीर्तिः, मरणात्, अतिरिच्यते ॥
अन्वयः
सम्पादयतुभूतानि च ते अव्ययाम् अकीर्तिं चापि कथयिष्यन्ति । सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते।
शब्दार्थः
सम्पादयतुअन्वयः | विवरणम् | सरलसंस्कृतम् |
भूतानि | अ.नपुं.प्र.बहु. | जनाः |
ते | तद्-द.सर्व.ष.एक. | तव |
अव्ययाम् | आ.स्त्री.द्वि.एक. | अनश्वरीम् |
अकीर्तिं | इ.स्त्री.द्वि.एक. | दुष्कीर्तिं |
च अपि | अव्ययम् | च |
कथयिष्यन्ति | √कथ वाक्यप्रबन्धने-पर.कर्तरि, लृट्.प्रपु.बहु. | वर्णयिष्यन्ति |
सम्भावितस्य | अ.पुं.ष.एक. | मान्यस्य जनस्य |
च | अव्ययम् | च |
अकीर्तिः | इ.स्त्री.प्र.एक. | दुष्कीर्तिः |
मरणात् | अ.नपुंं.पं.एक. | मृत्योः |
अपि | अव्ययम् | अपि |
अतिरिच्यते | √अति+रिच वियोजनसम्पर्चनयोः-आत्म.कर्तरि, लट्.प्रपु.एक. | अतिशेते । |
व्याकरणम्
सम्पादयतुसन्धिः
सम्पादयतु- चापि = च + अपि – सवर्णदीर्घसन्धिः
- तेऽव्ययाम् = ते + अव्ययाम् - पूर्वरूपसन्धिः
- चाकीर्तिः = च + अकीर्तिः – सवर्णदीर्घसन्धिः
- अकीर्तिर्मरणात् = अकीर्तिः + मरणात् – विसर्गसन्धिः (रेफः)
- मरणादतिरिच्यते = मरणात् + अतिरिच्यते – जश्त्वसन्धिः
कृदन्तः
सम्पादयतु- सम्भावितस्य = सम् + भू + णिच् + क्त (कर्मणि) तस्य
अर्थः
सम्पादयतुयदि त्वं युद्धं न करिष्यसि तर्हि जनाः दीर्घकालं यावत् तव अकीर्तिं कथयिष्यन्ति । सर्वैरपि प्रशंसनीयस्य मानिनः च जनस्य अकीर्तिः मरणादपि अधिकां पीडां जनयति ।
'अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्' – मनुष्यादिषु प्राणिषु ते धर्मत्यागरूपिणी कापुरुषता उदाहरणं भविष्यति । लोके सर्वे ते अपयशसः गानं कुर्वन् कथयिष्यन्ति यद्, अर्जुनः कीदृशः भीरुः आसीद् यद्, क्षात्रधर्माद् विमुखो अभवत् । सर्वे तु तं शूरवीरं मन्यमानाः आसन्, परन्तु युद्धे सम्प्राप्ते तस्य वास्तविकता अर्थाद् भीरुता प्रत्यक्षा अभवद् इत्यादि । 'ते' इत्यस्य पदस्य भावः अस्ति यद्, स्वर्ग-मृत्यु-पाताल-लोकेषु अपि यस्य शौर्यं प्रसिद्धम् अस्ति, तत्रापि ते अपकीर्तिः भविष्यति इति । 'अव्ययाम्' इत्यस्य तात्पर्यम् अस्ति यद्, यः मनुष्यः श्रेष्ठतायाः कारणेन अधिकः प्रसिद्धः भवति, तस्य कीर्तिः, अपकीर्तिः च दीर्घकालं यावत्तिष्ठति इति ।
'सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते' – एतस्य श्लोकस्य पूर्वार्धे भगवान् साधारणप्राणिभिः अर्जुनस्य निन्दायाः चर्चां करोति । उत्तरार्धे च जनसामान्येभ्यः कीर्तेः किं महत्त्वम् अस्ति ? इति वर्णयति । सांसारिकदृष्ट्या या व्यक्तिः श्रेष्ठा मन्यते, तस्याः व्यक्तेः यदा अपकीर्तिः भवति, तदा सा अपकीर्तिः मृत्योः अधिका भयङ्करी भवति । किञ्च मृते सति आयुष्यं समाप्तं भवति, तत्र कोऽपि अपराधस्तु नास्ति खलु ! । परन्तु अपकीर्तौ सति तु स्वधर्मात्, कर्तव्याच्च च्युतिः मन्यते । अतः लोके श्रेष्ठम्मन्यमानानां पुरुषाणां कर्तव्यच्युतिः अतीव भयङ्करम् अपयशः मन्यते ।
न केवलं स्वधर्मकीर्तिपरित्यागः -
अकीर्तिं चापि युद्धे भूतानि कथयिष्यन्ति ते तव अव्ययां दीर्घकालाम्। धर्मात्मा शूर इत्येवमादिभिः गुणैः संभावितस्य च अकीर्तिः मरणात् अतिरिच्यते संभावितस्य च अकीर्तेः वरं मरणमित्यर्थः।।
भाष्यार्थः
सम्पादयतुकेवलं स्वधर्मस्य, कीर्तेः एव नाशः भविष्यति इत्येव नालम् –
चिरकालं यावद् या अपकीर्तिः भविष्यति, तेन ते निन्दा अपि भविष्यति । धर्मात्मा, शूरः इत्यादिभिः गुणैः प्राप्तप्रतिष्ठाय पुरुषाय अपकीर्तिः मरणादपि निम्ना भवति । अभिप्रायः अस्ति यद्, प्रतिष्ठितेभ्यः पुरुषेभ्यः अपकीर्तेः अपेक्षया मरणं वरम् इति ।
न केवलं निरतिशयसुखकीर्तिहानिमात्रं पार्थो युद्धे प्रारब्धे पलायित इति अव्ययां सर्व देशकालव्यापिनीम् अकीर्तिं च समर्थानि असमर्थानि सर्वाणि भूतानि कथयिष्यन्ति ततः किमिति चेत् शौर्यवीर्यपराक्रमादिभिः सर्व संभावितस्य तद्विपर्ययजा हि अकीर्तिः मरणाद् अतिरिच्यते। एवंविधाया अकीर्तेः मरणम् एव तव श्रेयः इत्यर्थः।
भाष्यार्थः
सम्पादयतुन केवलं निरतिशयसुखस्य, निरतिशयकीर्तेः च हानिः भविष्यति, अपि तु 'युद्धारम्भात् समनन्तरमेव अर्जुनः युद्धं त्यक्त्वा पलायितः' इत्येताम् अव्ययाम् अर्थाद् सर्वत्र देशकालव्याप्तताम् अकीर्तिं समर्थकाः, असमर्थकाश्च करिष्यन्ति । एवं जाते किं भविष्यति ? इति चेद्, शौर्यवीर्यपराक्रमादिसन्दर्भे यस्य पुरुषस्य सर्वजनसम्माननम् अस्ति, तस्य कृते तेषां शौर्यादिगुणानां विपरीततया अर्थात् कापुरुषतादिप्रभावेण जायमाना अपकीर्तिः मृत्योः अपि निकृष्टा भवति । अभिप्रायः अस्ति यद्, तादृश्या अपकीर्त्या अपेक्षया ते मरणम् एव श्रेयस्करं भवेत् इति ।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये अकीर्तिं चापि भूतानि... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतु- ↑ श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ रामानुजभाष्यम्
अधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च